🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 61

Sarga 61

40 verses

Verse 1
ततोरामोमहातेजाधनुरादायवीर्यवान् किरीटिनंमहाकायंकुम्भकर्णंददर्श 
Verse 2
तंदृष्टवाराक्षसश्रेष्ठंपर्वताकारदर्शनम् क्रममाणमिवाकाशंपुरानारायणंप्रभुम्
Verse 3
सतोयाम्बुदसङ्काशंकाञ्चनाङ्गदभूषणम् दृष्टवापुनःप्रदुद्रवावानराणांमहाचमूः
Verse 4
विद्रुतांवाहिनींदृष्टवावर्धमानं  राक्षसम् सविस्मयमिदंरामोविभीषणमुवाच 
Verse 5
कोऽसौपर्वतसङ्काशःकिरीटीहरिलोचनः लङ्कायांदृश्यतेवीरःसविद्युदिवतोयदः
Verse 6
पृथिव्यांकेतुभूतोऽसौमहानेकोऽत्रदृश्यते यंदृष्टवावानरास्सर्वेविद्रवन्तिततस्ततः
Verse 7
आचक्षवसुमहान् कोऽसौरक्षोवायदिवाऽसुरः  मयैवंविधंभूतंदृष्टपूर्वंकदाचन
Verse 8
संपृष्टोराजपुत्रेणरामेणाक्लिष्टकर्मणा विभीषणोमहाप्राज्ञःकाकुत्थ्समिदमब्रवीत्
Verse 9
येनवैवस्वतोयुद्धेवासवश्चपराजितः सैषविश्रवसःपुत्रःकुम्भकर्णःप्रतापवान् अस्यप्रमाणसदृशोराक्षसाऽन्यो  विद्यते
Verse 10
एतेनदेवायुधिदानवाश्चयक्षाभुजङ्गाःपिशिताशनाश्च गन्धर्वविद्याधरकिन्नरैश्चसहस्रशोराघवसम्प्रभग्नाः
Verse 11
शूलपाणिंविरूपाक्षंकुम्भकर्णंमहाबलम् हन्तुं  शेकुस्त्रिदशाःकालोऽयमितिमोहिताः
Verse 12
प्रकृत्याह्येषतेजस्वीकुम्भकर्णोमहाबलः अन्येषांराक्षसेन्द्राणांवरदानकृतंबलम्
Verse 13
एतेनजातमात्रेणक्षुधार्तेनमहात्मना भक्षितानिसहस्राणिसत्त्वानांसुबहून्यपि
Verse 14
तेषुसंभक्षयमाणेषुप्रजाभयनिपीडिताः यान्तिस्मशरणंशक्रंतमप्यर्थंन्यवेदयन्
Verse 15
सकुन्भकर्णंकुपितोमहेन्द्रोजघानवज्रेणशितेनवज्री सशक्रवज्राभिहतोमहात्माचचालकोपाच्चभृशंननाद
Verse 16
तस्यनानद्यमानस्यकुम्भकर्णस्यरक्षसः श्रुत्वानिनादंवित्रस्ताःभूमिभूयोवितत्रसे
Verse 17
तत्रकोपान्महेन्द्रस्यकुम्भकर्णोमहाबलः विकृष्यैरावताद्धन्तंजघानोरसिवासवम्
Verse 18
कुम्भकर्णप्रहारार्तोविजज्वाल  वासवः ततोविषेदुस्सहसादेवाब्रह्मर्षिदानवाः प्रजाभिस्सहशक्रश्चययौस्थानंस्वयम्भुवः
Verse 19
कुम्भकर्णस्यदौरात्म्यंशशंसुस्तेप्रजापतेः प्रजानांभक्षणंचापिधर्षणं  दिवौकसाम् आश्रमध्वंसनंचापिपरस्त्रीहरणंभृशम्
Verse 20
कुम्भकर्णस्यदौरात्म्यंशशंसुस्तेप्रजापतेः प्रजानांभक्षणंचापिधर्षणं  दिवौकसाम् आश्रमध्वंसनंचापिपरस्त्रीहरणंभृशम्
Verse 21
एवंप्रजायदित्वेषभक्षयिष्यतिनित्यशः अचिरेणैवकालेनशून्योलोकोभविष्यति
Verse 22
वासवस्यवचश्श्रुत्वासर्वलोकपितामहः रक्षांस्यावाहयामासकुम्भकर्णंददर्श 
Verse 23
कुम्भकर्णंसमीक्ष्यैववितत्रासप्रजापतिः दृष्टवाविश्वास्यचैवैनंस्वयम्भूरिदमब्रवीत्
Verse 24
ध्रुवंलोकविनाशायपौलस्त्येनासिनिर्मितः तस्मात्त्वमद्यप्रभृतिमृतकल्पःशयिष्यसे
Verse 25
ब्रह्मशापाभिभूतोऽथनिपपाताग्रतःप्रभोः ततःपरमसम्भ्रान्तोरावणोवाक्यमब्रवीत्
Verse 26
विवृद्धःकाञ्चनोवृक्षःफलकालेनिकृत्यते  नप्तारंस्वकंन्यायंशप्तुमेवंप्रजापते
Verse 27
 मिथ्यावचनश्चत्वंस्वप्स्यत्येष  संशयः कालस्तुक्रियतामस्यशयनेजागरेतथा
Verse 28
रावणस्यवचश्श्रुत्वास्वयम्भूरिदमब्रवीत् शयिताह्येषषण्मासानेकाहंजागरिष्यति
Verse 29
एकेनाह्नात्वसौवीरश्चरन् भूमिंबुभुक्षितः व्यात्तास्योभक्षयेल्लोकान् सङ्कृद्धइवपावकः
Verse 30
सोऽसौव्यसमापन्नःकुम्भकर्णमबोधयत् त्वत्पराक्रमभीतश्चराजासम्प्रतिरावणः
Verse 31
 एषनिर्गतोवीरःशिबिराद्भीमविक्रमः वानरान्भृशसङ्कृद्धोभक्षयन्परिधावति
Verse 32
कुम्भकर्णंसमीक्ष्यैवहरयोऽद्यप्रविद्रुतुः कथमेनंरणेक्रुद्धंवारयिष्यन्तिवानराः
Verse 33
उच्यन्तांवानराःसर्वेयन्त्रमेतत्समुच्छ्रितम् इतिविज्ञायहरयोभविष्यन्तीहनिर्भयाः
Verse 34
विभीषणवचश्श्रुत्वाहेतुमत्सुमुखेरितम् उवाचराघवोवाक्यंनीलंसेनापतिंतदा
Verse 35
गच्छसैन्यानिसर्वाणिव्यूह्यतिष्ठस्वपावके द्वाराण्यादायलङ्कायाश्चर्याश्चाप्यथसङ्क्रमान्
Verse 36
शैलशृङ्गाणिवृक्षांश्चशिलाश्चाप्युपसंहर तिष्ठन्तुसायुधास्सर्वेसायुधाश्शैलपाणयः
Verse 37
राघवेणसमादिष्टोनीलोहरिचमूपतिः शशासवानरानीकंयथावत्कपिकुञ्जरः
Verse 38
ततोगवाक्षश्शरभोहनूमानङ्गदस्तथा शैलशृङ्गाणिशैलाभागृहीत्वाद्वारमभ्ययुः
Verse 39
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः पादपैरर्दयवनीरावानराःपरवाहिनीम्
Verse 40
ततोहरीणांतदनीकमुग्रंरराजशैलोद्यतदीप्तहस्तम् गिरेःसमीपानुगतंयथैवहन्महाम्भोधरजालमुग्रम्
0:000:00
Speed: