🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 66

Sarga 66

34 verses

Verse 1
 लङ्घयित्वाप्राकारंगिरिकूटोपमोमहान् निर्ययौनगरात्तूर्णंकुम्भकर्णोमहाबलः
Verse 2
ननाद  महानादंसमुद्रमभिनादयन् विजयन्निवनिर्घातन्विधमन्निवपर्वतान्
Verse 3
तमवध्यंमघवतायमेनवरुणेनवा प्रेक्ष्यभीमाक्षमायान्तंवानराविप्रदुद्रुवुः
Verse 4
तांस्तुविप्रद्रुतान् दृष्टवाराजपुत्रोऽङ्गदोऽब्रवीत् नलंनीलंगवाक्षं  कुमुदं  महाबलम्
Verse 5
आत्मानमत्रविस्मृत्यवीर्याण्यभिजनानि  क्वगच्छतभयत्रस्ताःप्राकृताहरयोयथा
Verse 6
साधुसौम्या निवर्तध्वंकिप्राणान्परिरक्षथ नालंयुद्धायवैरक्षोमहतीयंबिभीषका
Verse 7
महतीमुथतितामेनांराक्षसानांबिभीषिकाम् विक्रमाद्विधमिष्यामोनिवर्तध्वंप्लवङ्गमाः
Verse 8
कृच्छ्रेणतुसमाश्वस्यसङ्गम्य  ततस्ततः वृक्षाद्रिहस्ताहरयस्सम्प्रतस्थूरणाजिरम्
Verse 9
तेनिवृत्यतुसङ्कृद्धाःकुम्भकर्णंवनौकसः निर्जघ्नुःपरमक्रुद्धास्समदाइवकुञ्जराः
Verse 10
प्रांशुभिर्गिरिशृङ्गैश्चशिलाभिश्चमहाबलः पादपैःपुष्पिताग्रैश्चहन्यमानो  कम्पते
Verse 11
तस्यगात्रेषुपतिताभिद्यन्तेशतशश्शिलाः पादपाःपुष्पिताग्राश्चभग्नाःपेतुर्महीतले
Verse 12
सोऽपिसैन्यानिसङ्क्रुद्धोवानराणांमहौजसाम् ममन्थपरमायत्तोवनान्यग्निरिवोत्थितः
Verse 13
लोहितार्द्रास्तुबहवश्शेरतेवानरर्षभाः निरस्तांपतिताभूमौताम्रपुष्पाइवद्रुमाः
Verse 14
लङ्घयन्तःप्रधावन्तोवानरानावलोकयन् केचित्समुद्रेपतिताःकेचिद्गगनमास्थिताः
Verse 15
वध्यमानास्तुतेवीराराक्षसेन  लीलया सागरंयेनतेतीर्णाःपथातेनदुद्रुवुः
Verse 16
तेस्थलानितदानिम्नंविवर्णमानाभयात् ऋक्षावृक्षान् समारूढाःकेचित्पर्वतमाश्रिताः
Verse 17
ममज्जुरर्णवेकेचिद्गुहाःकेचित्समाश्रिताः निपेतुःकेचिदपरेकेचिन्नैवावतस्थिरे केचिद्भूमौनिपतिताःकेचित्सुप्तामृताइव
Verse 18
तान्समीक्ष्याङ्गदोभग्नान्वानरानिदमब्रवीत् अवतिष्ठतयुध्यामोनिवर्तध्वंप्लवङ्गमाः
Verse 19
भग्नानांवो  पश्यामिपरिगम्यमहीमिमाम् स्थानंसर्वेनिवर्तध्वंकिंप्राणान् परिरक्षथ
Verse 20
निरायुधानांद्रवतामसङ्गगतिपौरुषाः दाराह्युपहसिष्यन्ति  वैघातस्तुजीवताम्
Verse 21
कुलेषुजातास्सर्वेस्मविस्तीर्णेषुमहत्सु  क्वगच्छतभयत्रस्ताःहरयःप्राकृतायथा अनार्याःखलुयद्भीतास्त्यक्त्वावीर्यंप्रधावत
Verse 22
कुलेषुजातास्सर्वेस्मविस्तीर्णेषुमहत्सु  क्वगच्छतभयत्रस्ताःहरयःप्राकृतायथा अनार्याःखलुयद्भीतास्त्यक्त्वावीर्यंप्रधावत
Verse 23
विकत्थनानिवोयानि तदावैजनसंसदि तानिवःक्वनुयातानिसोदग्राणिम हितानि 
Verse 24
भीरुप्रवादाश्श्रूयन्तेयस्तुजीवतिधिक्कृतः मार्गस्सत्पुरुषैर्जष्टःसेव्यतांत्यज्यतांभयम्
Verse 25
शयामहेऽनिहताःपृथिव्यामल्पजीविताः दुष्प्रापंब्रह्मलोकंवाप्राप्नुयामोयुधिसूदिता
Verse 26
सम्प्राप्नुयामःकीर्तिंवानिहत्वाशत्रुमाहवे जीवितंवीरलोकस्यमोक्ष्यामोवसुवानराः
Verse 27
 कुम्भकर्णःकाकुत्स्थंदृष्टवाजीवन् गमिष्यति दीप्यमानमिवासाद्यपतङ्गोज्वलनंयथा
Verse 28
लायनेनचोद्धिष्टाःप्राणान् रक्षामहेवयम् एकेनबहवोभग्नायशोनाशंगमिष्यति
Verse 29
एवंब्रुवाणंतंशूरमङ्गदंकनकाङ्गदम् द्रवमाणास्ततोवाक्यमूचुःशूरुविगर्हितम्
Verse 30
कृतंनःकदनंघोरंकुम्भकर्णेनरक्षसा  स्थानकालोगच्छामोदयितंजीवितंहिनः
Verse 31
एतावदुक्त्वावचनंसर्वेतेभेजिरेदिशः भीमंभीमाक्षमायान्तंदृष्टवावानरयूथपाः
Verse 32
द्रवमाणस्तुतेवीराअङ्गदेनवलीमुखाः सान्त्वैश्चैहनुमानैश्चततस्सर्वेनिवर्तिताः
Verse 33
प्रहर्षमुपनीताश्चवालिपुत्रेणधीमता आज्ञाप्रतीक्षास्तस्थुश्चसर्वेवानरयूथपाः
Verse 34
ऋषभशरभमैन्दधूम्रनीलाःकुमुदसुषेणगवाक्षरम्भताराः द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखंरणं
0:000:00
Speed: