Book 6 • Chapter 67
Sarga 67
178 verses
Verse 1
तेनिवृत्तामहाकायाश्श्रुत्वाङ्गदवचस्तदा नैष्ठिकींबुद्धिमास्थायसर्वेसङ्ग्रामकाङ्क्षिणः
Verse 2
समुदीरितवीर्यास्तेसमारोपितविक्रमाः पर्यवस्थापितावाक्यैरङ्गदेनवलीमुखाः प्रयाताश्चगताहर्षंमरणेकृतश्चयाः चक्रुस्सुतुमुलंयुद्धंवानरास्त्यक्तजीविताः
Verse 3
समुदीरितवीर्यास्तेसमारोपितविक्रमाः पर्यवस्थापितावाक्यैरङ्गदेनवलीमुखाः प्रयाताश्चगताहर्षंमरणेकृतश्चयाः चक्रुस्सुतुमुलंयुद्धंवानरास्त्यक्तजीविताः
Verse 4
अथवृक्षान्महाकायास्सानूनिसुमहान्ति च वानरास्तूर्णमुद्यम्यकुम्भकर्णमभिद्रुताः
Verse 5
कुम्भकर्णस्सङ्कृद्धोगदामुद्यम्यवीर्यवान् अर्थयन्समहाकायस्समन्ताद् व्यक्षिपद्रिपून्
Verse 6
शतानिसप्तचाष्टौ च सहस्राणि च वानराः प्रकीर्णाःशेरतेभूमौकुम्भकर्णेनपोधिताः
Verse 7
षोडशाष्टौ च दश च विंशत्रतिंशस्तथैव च परिक्षिप्य च बाहुभ्यांखादन्विपरिधावति भक्ष्यन् भृशसङ्क्रुद्धोगरुडःपन्नगानिव
Verse 8
कृच्छ्रेणचसमाश्वस्ताःसङ्गम्यचततस्ततः वृक्षाद्रिहस्ताहरयस्तस्थुस्सङ्ग्राममूर्थनि
Verse 9
ततःपर्वतमुत्पाट्यद्विविदःप्लवगर्षभः दुद्रावगिरिशृङ्गाभंविलम्बइवतोयदः
Verse 10
तंसमुत्पत्यचिक्षेपकुम्भकर्णायवानरः तमप्राप्यमहाकायंतस्यसैन्येऽपतत्तधा
Verse 11
ममर्दाश्वान्गजांश्चापिरथांश्चापिनगोत्तमः तानिचान्यानिरक्षांसिएवंचान्यगदिरेःशिरः
Verse 12
तच्चैलवेगाभिहतंहताश्वंहतसारथि रक्षसांरुधिरक्लिन्नंबभूवायोधनंमहत्
Verse 13
रथिनोवानरेन्द्राणांशरैःकालान्तकोपमैः शिरांसिनर्दतांजह्रुस्सहसाभीमनिस्स्वना
Verse 14
वानराश्चमहात्मानस्समुत्पाट्यमहाद्रुमान् रथावश्वान्गजानुष्ट्रान्राक्षसानभ्यसूदयन्
Verse 15
हनुमान् शैलशृङ्गाणिशिलाश्चविविधान् द्रुमान् ववर्षकुम्भकर्णस्यशिरस्यम्बरमास्थितः
Verse 16
तानिपर्वतशृङ्गाणिशूलेन स बिभेद ह बभञ्जवृक्षवर्षं च कुम्भकर्णोमहाबलः
Verse 17
ततोहरीणांतदनीकमुग्रंदुद्रावशूलंनिशितंप्रगृह्य तस्थौ स तस्यापततःपुरस्तान्महीधराग्रंहनुमान् प्रगृह्य
Verse 18
स कुम्भकर्णंकुपितोजघानवेगेनशैलोत्तमभीमकायम् स चक्षुभेतेनतदाभिभूतोमेदार्द्रगात्रोरुधिरावसिक्तः
Verse 19
स शूलमासाद्यतटित्प्रकाशंगिरिर्यथाप्रज्वलिताग्रशृङ्गम् बाह्वन्तरेमारुतिमाजघानगुहोऽचलंक्रौञ्चमिवोग्रशक्त्या
Verse 20
शूलनिर्भिन्नमहाभुजान्तरःप्रविह्वलःशोणितमुद्वमन् मुखात् ननादभीमंहनुमान् महाहवेयुगान्तमेघस्न्तितस्वनोपमम्
Verse 21
ततोविनेदुःसहसाप्रहृष्टारक्षोगणास्तंव्यथितंसमीक्ष्य प्लवङ्गमास्तुव्यथिताभयर्ताःप्रदुद्रुवुःसंयतिकुम्भकर्णात्
Verse 22
ततस्तुनीलोबलवान् पर्यवस्थापयन्बलम् प्रविचिक्षेपशैलाग्रंकुम्भकर्णायधीमते
Verse 23
तदापतन्तंसम्प्रेक्ष्यमुष्टिनाभिजघान ह मुष्टिप्रहाराभिहतंतच्छैलाग्रंव्यशीर्यत सविस्फुलिंगंसज्वालनिपपातमहेतले
Verse 24
ऋषभश्शरभोनीलोगवाक्षोगन्धमादनः पञ्चवानरशार्दूलाःकुम्बुकर्णमुपाद्रवन्
Verse 25
शैलैर्ववृक्षैस्तलैःपादैर्मुष्टिभिश्चमहाबलाः कुम्भकर्णंमहाकायंसर्वतोऽभिप्रदुद्रुवुः
Verse 26
स्पर्शानिवप्रहारांस्तान्वेद्वयानो न विव्यथे ऋषभंतुमहावेगंबाहुभ्यांपरिषस्वजे
Verse 27
कुम्भकर्णभुजाभ्यांतुपीडितोवानरर्षभः निपपातर्षभोभीमःप्रमुखाद्वान्तशोणितः
Verse 28
मुष्टिनाशरभंहत्वाजानुनानीलमाहवे आजघानगवाक्षंतुलेनेन्द्ररिपुस्तदा पादेनाभ्यहनत्कृद्धस्तरसागन्धमादनम्
Verse 29
मुष्टिनाशरभंहत्वाजानुनानीलमाहवे आजघानगवाक्षंतुलेनेन्द्ररिपुस्तदा पादेनाभ्यहनत्कृद्धस्तरसागन्धमादनम्
Verse 30
दत्तप्रहारव्यथितामुमुहुश्शोणितोक्षिताः निपेतुस्तेतुमेदिन्यांनिकृत्ताइवकिंशुकाः
Verse 31
तेषुवानरमुख्येषुपातितेषुमहात्मसु वानराणांसहस्राणिकुम्बकर्णंप्रदद्रुवुः
Verse 32
तंशैलमिवशैलाभाःसर्वेतुप्लवगर्षभाः समारुह्यसमुत्पत्यददंशुश्चमहाबलाः
Verse 33
तंनखैर्धशनैश्चापिमुष्टिभिर्बाहुभिस्तथा कुम्भकर्णंमहाबाहहुंतेजघ्नुःप्लवगर्षभाः
Verse 34
स वानरसहस्त्रैरजितः पर्वतोपमैः रराजराक्षसव्याघ्रोगिरिरात्मरुहैरिव
Verse 35
बाहुभ्यांवानरान्सर्वान्प्रगृह्य स महाबलः भक्ष्यामाससङ्क्रुद्धोगरुडःपन्नगानिव
Verse 36
प्रक्षिप्ताःकुम्बकर्णेनवक्त्रेपातालसन्निभे नासापुटाभ्यांनिर्जग्मुःकर्णाभ्यांचैववानराः
Verse 37
भक्ष्यन्भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः बभञ्जवानरान् सर्वान् सङ्क्रुद्धोराक्षसोत्तमः
Verse 38
मांसशोणितसंक्लेदाकुर्वन् भूमिं स राक्षसः चचारहरिनैन्येषुकालानगिरिवमूर्छितः
Verse 39
वज्रहस्तोयथाशक्रःपाशहस्तइवान्तकः शूलहस्तोबभौयुद्धेकुम्बकर्णोमहाबलः
Verse 40
यथाशुष्काण्यरण्यानिग्रीष्मेदहतिपावकः तथावानरसैन्यानिकुम्बकर्णोविनिर्दहत्
Verse 41
ततस्तेवध्यमानास्तुहतयूथाविनायकाः वानराभयसंविग्नाविनेदुर्विस्वरंभृशैः
Verse 42
अनेकशोवध्यमानाःकुम्भकर्णेनवानराः राघवंशरणंजग्मुर्व्यथिताःभिन्नचेतसः
Verse 43
प्रभग्नान् वानरान् दृष्टवावज्रहस्तात्मजात्मजः अभ्यधावतवेगेनकुम्भकर्णंमहाहवे
Verse 44
शैलशृङ्गंमहद्गृह्यविनदंश्चमुहुर्मुहुः त्रासयन्राक्षसान्सर्वान् कुम्भकर्णपदानुगान् चिक्षेपशैलशिखरंकुम्भकर्णस्यमूर्धनि
Verse 45
स तेनाभिहतोमूर्ध्निशैलेनेन्द्ररिपुस्तदा कुम्भकर्णःप्रजज्वालक्रोधेनमहतातदा सोऽभ्यधावतवेगेनवालिपुत्रममर्षणम्
Verse 46
स तेनाभिहतोमूर्ध्निशैलेनेन्द्ररिपुस्तदा कुम्भकर्णःप्रजज्वालक्रोधेनमहतातदा सोऽभ्यधावतवेगेनवालिपुत्रममर्षणम्
Verse 47
कुम्भकर्णोमहानादस्त्रासयन् सर्ववानरान् शूलंससर्जवैरोषादङ्गदेतुमहाबलः
Verse 48
त मापतन्तंबुद्ध्वातुयुद्धमार्गविशारदः लाघवान्मोचयामाबलवान् वानरर्षभः
Verse 49
उत्पत्यचैनंतरसातलेनोरस्यताडयत् स तेनाभिहतःकोपात्प्रमुमोहाचलोपमः
Verse 50
स लब्दसंज्ञोबलवान्मुष्टिमावर्त्यराक्षसः अपहास्तेनचिक्षेपविसंज्ञः स पपात ह
Verse 51
तस्मिन् प्लवगशार्दूलेविसंज्ञेपतितेभुवि तच्छूलंसमुपादायसुग्रीवमभिदुद्रुवे
Verse 52
तमापतन्तंसम्प्रेक्ष्यकुम्भकर्णंमहाबलम् उत्पपाततदावीरस्सुग्रीवोवानराधिपः
Verse 53
स पर्वताग्रमुत्क्षिप्यसमाविध्यमहाबलः अभिदुद्राववेगेनकुम्भकर्णंमहाबलम्
Verse 54
तमापतन्तंसम्प्रेक्ष्यकुम्भकर्णःप्लवङ्गमम् तस्थौविवृतसर्वाङ्गोवानरेन्द्रस्यसम्मुखः
Verse 55
कपिशोणितदिग्धाङ्गंभक्ष्यन्तंप्लवङ्गमान् कुम्भकर्णंस्थितंदृष्टवासुग्रीवोवाक्यमब्रवीत्
Verse 56
कपिशोणितदिग्धाङ्गंभक्ष्यन्तंप्लवङ्गमान् कुम्भकर्णंस्थितंदृष्टवासुग्रीवोवाक्यमब्रवीत्
Verse 57
त्वजतद्वानरानीकंप्राकृतैःकिंकरिष्यसि सहस्वैकंनिपातंमेपर्वतस्यास्यराक्षस
Verse 58
तद्वाक्यंहरिराजस्यसत्त्वधैर्यसमन्वितम् श्रुत्वाराक्षसशार्दूलःकुम्भकर्णोऽब्रवीद्वचः
Verse 59
प्रजापतेस्तुपौत्रस्त्वंतथैवरक्षरजस्सुतः श्रुतपौरुषसम्पन्नःकस्माद्गर्जसिवानर
Verse 60
स कुम्भकर्णस्यवचोनिशम्यव्याविध्यशैलंसहसामुमोच तेनाजघानोरसिकुम्भकर्णंशैलेनवज्राशनिसन्निभेन
Verse 61
तच्छैलशृङ्गंसहसाविकीर्णंभुजान्तरेतस्यतदाविशाले ततोनिषेदुःसहसाप्लवङ्गारक्षोगणाश्चापिमुदाविनेदुः
Verse 62
स शैलशृङ्गाभिहतश्चुकोपननादरोषाच्चविवृत्यवक्त्रम् व्याविध्यशूलं च तटित्प्रकाशंचिक्षेपहर्यृक्षिपतेर्वधाय
Verse 63
तत्कुम्भकर्णस्यभुजप्रविद्धंशूलंशितंकाञ्चनदामजुष्टम् क्षिप्रंसमुत्पत्यनिगृह्यदोर्भ्यांबभञ्जवेगेनसुतोऽनिलस्य
Verse 64
कृतंभारसहस्रस्यशूलंकालायसंमहत् बभञ्जजानुमारोप्यतदाहृष्टःप्लवङ्गमः
Verse 65
शूलंभग्नंहनुमतादृष्टवावानरवाहिनी हृष्टाननादबहुशस्सर्वतश्चापिदुद्रुवे
Verse 66
बभूवथपरित्रस्तोराक्षसोविमुखोऽभवत् सिंहनादं च तेचक्रुःप्रहृष्टावनगोचराः मारुतिंपूजयाञ्चक्रुर्दृष्टवाशूलंतथागतम्
Verse 67
स तत्तथाभग्नमवेक्ष्यशूलंचुकोपरक्षोधिपतिर्महात्मा उत्पाट्यलङ्कामलयात्सशृङ्गंजघानसुग्रीवमुपेत्यतेन
Verse 68
स शैलशृङ्गाभिहतोविसंज्ञःपपातभूमौयुधिवानरेन्द्रः तंप्रेक्ष्यभूमौपतितंविसंज्ञनेदुःप्रहृष्टास्त्वथयातुधानाः
Verse 69
मभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णोयुधिवानरेन्द्रम् जहारसुग्रीवमभिप्रगृह्ययथानिलोमेघमतिप्रचण्डः
Verse 70
स तंमहामेघनिकाशरूपमुत्पाट्यगच्छन्युधिकुम्भकर्णः रराजमेरुप्रतिमानरूपोमेरुर्यथाभ्युछ्रचितघोरशृङ्गः
Verse 71
ततस्तमादायजगामवीरस्संस्तूयमानोयुधिराक्षसेन्द्रैः शृण्वन्निनादंत्रिदिवालयानांप्लवङ्गराजग्रहविस्मितानाम्
Verse 72
ततस्तमादायतदा स मेनेहरीन्द्रमिन्द्रोपममिन्द्रवीर्यः अस्मिन् हतेसर्वमिदंहतंस्यात्सराघवंसैन्यमितीन्द्रशत्रुः
Verse 73
विद्रुतांवाहिनींदृष्टवावानराणामितस्ततः कुम्भकर्णेनसुग्रीवंगृहीतंचापिवानरम् हनुमांश्चिन्तयामासमतिमान् मारुतात्मजः
Verse 74
एवंगृहीतेसुग्रीवेकिंकर्तव्यंमयाभवेत् यद्वैन्यायंमयाकर्तुंतत्करिष्यामिसर्वधा भूत्वापर्वतसङ्काशोनाशयिष्यामिराक्षसम्
Verse 75
एवंगृहीतेसुग्रीवेकिंकर्तव्यंमयाभवेत् यद्वैन्यायंमयाकर्तुंतत्करिष्यामिसर्वधा भूत्वापर्वतसङ्काशोनाशयिष्यामिराक्षसम्
Verse 76
मयाहतेसंयतिकुम्भकर्णेमहाबलेमुष्टिविशीर्णदेहे विमोचितेवानरपार्थिवे च भवन्तुहृष्टाःप्लवगास्समस्ताः
Verse 77
अथवास्वयमप्येषमोक्षंप्राप्स्यतिपार्थिव गृहीतोऽयंयदिभवेत्रिदशैस्सासुरोरगैः
Verse 78
मन्ये न तावदात्मानंबुध्यतेवानराधिपः शैलप्रहाराभिहतःकुम्भकर्णेनसंयुगे
Verse 79
अयंमुहूर्तात्सुग्रीवोलब्दसंज्ञोमहाहवे आत्मनोवानराणां च यत्पथ्यंतत्करिष्यति
Verse 80
मयातुमोक्षितस्यास्यसुग्रीवस्यमहात्मनः अप्रीतिश्चभवेत्कष्टाकीर्तिनाशश्चशाश्वतः
Verse 81
तस्मान्मुहूर्तंकाङ्क्षिष्येविक्रमंपार्थिवस्यतु भिन्नं च वानरानीकंतावदाश्वासयाम्यहम्
Verse 82
इत्येवंचिन्तयित्वातुहनुमान्मारुतात्मजः भूयःसंस्तम्भयामासवानराणांमहाचमूम्
Verse 83
स कुम्भकर्णोऽथविवेशलङ्कांस्पुरन्तमादायमहाकपिंतम् विमानचर्यागृहगोपुरस्थैःपुष्पाग्य्रवर्षैरवकीर्यमाणः 6.67.83
Verse 84
लाजगन्धोदवर्षैस्तुसिच्यमानश्सनैश्शनैः राजवीथ्यास्तुशीतत्वात्संज्ञांप्रापमहाबलः
Verse 85
ततस्ससंज्ञामुपलभ्यकृच्छ्राद्बलीयसस्तस्यभुजान्तरस्थः अवेक्षमाणःपुरसाजमार्गंविचिन्तयामासमुहुर्महात्मा
Verse 86
एवंगृहीतेनकथंनुनामशक्यंमयासम्प्रतिकर्तुमद्य तथाकरिष्यामियथाहरीणांभविष्यतीष्टं च हितं च कार्यम्
Verse 87
ततःकराग्रैःसहसासमेत्यराजाहरीणाममरेन्द्रशत्रुम् खरैश्चकर्णौदशनैश्चनासांददंशपार्श्वेषु च कुम्भकर्णम्
Verse 88
स कुम्भकर्णोहृतकर्णनासोविदारितस्तेनरदैर्नखैश्च रोषाभिभूतःक्षतजार्द्रगात्रःसुग्रीवमाविध्यपिपेषभूमौ
Verse 89
स भूतलेभीमबलाभिपिष्टस्सुरारिभिस्स्सैरभिहन्यमानः जगामखंवेगवदभ्युपेत्यपुनश्चरामेणसमाजगाम
Verse 90
कर्णनासाविहीनस्तुकुम्भकर्णोमहाबलः रराजशोणितैःसिक्तोगिरिःप्रस्रवणैरिव
Verse 91
शोणितार्द्रोमहाकायोराक्षसोभीमविक्रमः युद्धायाभिमुखोभीमोमनश्चक्रेनिशाचरः नीलाञ्जनचयप्रख्यःसस्नध्यइवतोयदः अमर्षाच्छोणितोद्गारीशुशुभेरावणानुजीः
Verse 92
शोणितार्द्रोमहाकायोराक्षसोभीमविक्रमः युद्धायाभिमुखोभीमोमनश्चक्रेनिशाचरः नीलाञ्जनचयप्रख्यःसस्नध्यइवतोयदः अमर्षाच्छोणितोद्गारीशुशुभेरावणानुजीः
Verse 93
गतेतुतस्मिन् सुरराजशत्रुःक्रोधात्प्रदुद्रावरणायभूयः अनायुधोऽस्मीतिविचिन्त्यरौद्रोघोरंतदामुद्गरमाससाद
Verse 94
ततस्सपुर्यास्ससहसामहात्मानिष्क्रम्यतद्वानरसैन्यमुग्रम् बभक्षरक्षोयुधिकुम्भकर्णःप्रजायुगान्तानगिरिवप्रवृद्धः
Verse 95
बुभुक्षितःशोणइतमांसगृध्नुःप्रविव्यतद्वानरसैन्यमुग्रम् चखादरक्षांसिहरीन् पिशाचान् ऋक्षांश्चमोहाद्युधिकुम्भकर्णः यथैवमृत्युर्हरतेयुगान्ते स भक्ष्यामासहरींश्चमुख्यान्
Verse 96
एकंद्वौत्रीन् बहून् क्रुद्धोवानरान्सहराक्षसैः समादायैकहस्तेनप्रचिक्षेपत्वरन्मुखे
Verse 97
सम्प्रस्रवंस्तदामेदश्शोणिते च महाबलः वध्यमानोनगेन्द्राग्रैर्भक्ष्यामासवानरान्
Verse 98
तेभक्ष्यमाणाहरयोरामंजुग्मुस्तदागतिम् कुम्भकर्णोभृशंक्रुद्धःकपीन् खादन् प्रधावति
Verse 99
शतानिसप्तचाष्टौ च विंशत्रतिंशत्तथैव च सम्परिष्वज्यबाहुभ्यांखादवनिपरिधावति
Verse 100
मेदोवसाशोणितदिग्धगात्रःकरायवसक्तग्रथितान्त्रमालः ववर्षशूलानिसतीक्षणदंष्ट्रःकालोयुगान्तस्थइववृद्धः
Verse 101
तस्मिन् कालेसुमित्रायाःपुत्रःपरबलार्दनः चकारलक्ष्मणःक्रुद्धोयुद्धंपरपुरञ्जयः
Verse 102
स कुम्भकर्णस्यशरान् शरीरेसप्तवीर्यवान् निचखादाददेचान्यावनिससर्ज च लक्ष्मणः
Verse 103
पीड्यमानस्तदस्त्रंतुविशेषंतत्सराक्षसः ततश्चुकोपबलवान्सुमित्रानन्दवर्दनः
Verse 104
अथास्यकवचंशुभ्रंजाम्भूनदमयंशुभम् प्रच्छादयामासशरैस्सन्ध्याभ्रमिवमारुतः
Verse 105
नीलाञ्जनचयप्रख्यश्शरैःकाञ्चनभूषणैः अपीड्यमानश्शुशुभेमेघैस्सूर्यइवांशुमान्
Verse 106
ततस्सराक्षसोभीमस्सुमित्रानन्दवर्धनम् सावज्ञमेवप्रोवाचवाक्यंमेघौघनिस्स्वनः
Verse 107
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे युध्यतामामभीतेनख्यापितावीरतात्वया
Verse 108
प्रगृहीतायुधस्येहमृत्योरिवमहामृधे तिष्ठन्नप्रग्रतःपूज्यःकिमुयुद्धप्रदायकः
Verse 109
ऐरावतंबलेनसमारूढोवृतःसर्वामरैःप्रभुः नैवशक्रोऽपिसमरेस्थितपूर्वःकदाचन
Verse 110
अद्यत्वयाहम्सौमित्रेबालेनापि , नापिपराक्रमैः तोषितोगन्तुमिच्छामित्यामनुज्ञाप्यराघवम्
Verse 111
यत्तुवीर्यबलोत्साहैस्तोषितोऽहंरणेत्वया राममेवैकमिच्छामिहन्तुंयस्मिन् हतेहतम्
Verse 112
रामेमयात्रनिहतेयेऽन्येस्थास्यन्तिसंयुगे तानहंयोधयिष्यामिस्वबलेनप्रमाथिना
Verse 113
इत्युक्तवाक्यंतद्रक्षःप्रोवाचस्तुतिसंहितम् मृधेघोरतरंवाक्यंसौमित्रिःप्रहसन्निव
Verse 114
यस्त्वंशक्रादिभिर्वरैरसह्यःप्राप्यपौरुषम् तत्सत्यंनान्यथावीरदृष्टस्तेऽद्यपराक्रमः एषदाशरथीरामस्तिष्ठत्यद्रिरिवाचलः
Verse 115
इतिश्रुत्वाह्यनादृत्यलक्ष्मणं स निशाचरः अतिक्रम्य च सौमित्रिंकुम्भकर्णोमहाबलः राममेवाभिदुद्रावकम्पयन्निवमेदिनीम्
Verse 116
इतिश्रुत्वाह्यनादृत्यलक्ष्मणं स निशाचरः अतिक्रम्य च सौमित्रिंकुम्भकर्णोमहाबलः राममेवाभिदुद्रावकम्पयन्निवमेदिनीम्
Verse 117
अथदाशरथींरामोरौद्रमस्त्रंप्रयोजयन् कुम्भकर्णस्यहृदयेससर्जनिशितान् शरान्
Verse 118
तस्यरामेणविद्धस्यसहसाभिप्रधावतः अङ्गालमिश्राःक्रुद्धस्यमुखान्निश्चेरुरर्चिषः
Verse 119
रामास्त्रविद्धोघोरंवैनदन्राक्षसपुङ्गवः अभ्यधावतसङ्कृद्धोहरीन् निद्रावयन् रणे
Verse 120
तस्योरसिनिमग्नास्तेशराबर्हिणवाससः हस्ताच्छास्यपरिभ्रष्टागदाचोर्व्यांपपात ह
Verse 121
आयुधानि च सर्वाणिविप्राकीर्यन्तभूतले स निरायुधमात्मानंयदामेनेमहाबलः मुष्टिभ्यां च चरणाभ्यां च चकारकदनंमहत्
Verse 122
स बाणैरतिविद्धाङ्गःक्षतजेनसमुक्षितः रुधिरंपरिसुस्रावगिरिःप्रस्रवणंयथा
Verse 123
स तीव्रेण च कोपेनरुधिरेण च मूर्छितः वानरान्राक्षसानृक्षान्खादन्विपरिधावति
Verse 124
अथशृङ्गंसमाविध्यभीमंभीमपराक्रमः चिक्षेपराममुद्धिश्यबलवानन्तकोपमः
Verse 125
अप्राप्तमन्तरारामःसप्तभिस्तमजिह्मगैः चिच्छेदगिरिशृङ्गंतंपुनःसन्धायकार्मुकम्
Verse 126
ततस्तुरामोधर्मात्मातस्यशृङ्गंमहत्तदा शरैःकाञ्चनचित्राङ्गैश्चिच्छेदपुरुषर्षभः
Verse 127
तन्मेरुशिखराकारंद्योतमानमिवश्रिया द्वेशतेवानराणां च पतमानमपातयत्
Verse 128
तस्मिन् काले स धर्मात्मालक्ष्मणोराममब्रवीत् कुम्भकर्णवधेयुक्तोयोगान् परिमृशन्बहून्
Verse 129
नैवायंवानरान्राजन्नविजानातिराक्षसान् मत्तश्शोणितगन्धे न स्वान् परांश्चैवखादति
Verse 130
साध्वेनमधिरोहस्तुसर्वतोवानरर्षभाः यूथपाश्चयथामुख्यास्तिष्ठन्त्वस
Verse 131
अप्ययंदुर्मतिःकालेगुरुभारप्रपीडितः प्रपतन्राक्षसोभूमौनान्यान्हन्यात्ल्पवङ्गमान्
Verse 132
तस्यतद्वचनंश्रुत्वाराजपुत्रस्यधीमतः तेसमारुरुहुर्हृष्टाःकुम्भकर्णंप्लवङ्गमाः
Verse 133
कुम्भकर्णस्तुसङ्कृद्धस्समारूढःप्लवङ्गमैः व्यधूनयत्तान्वेगेनदुष्टहस्तीवहस्तिपान्
Verse 134
तान् न्दृष्टवानिर्धुतान्रामोदुष्टोऽयमितिराक्षसः समुत्पपातवेगेनधनुरुत्तममाददे
Verse 135
क्रोधरक्तेक्षणोवीरोनिर्दहन्निवचक्षुषा राघवोराक्षसंरोषाभिदुद्राववेगितः यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान्
Verse 136
क्रोधरक्तेक्षणोवीरोनिर्दहन्निवचक्षुषा राघवोराक्षसंरोषाभिदुद्राववेगितः यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान्
Verse 137
स चापमादायभुजङ्गकल्पंधृढज्यमुग्रंतपनीयचित्रम् हरीन् समाश्वास्यसमुत्पपातरामोनिबद्धोत्तमतूणबाणः
Verse 138
स वानरगणैस्तैस्तुवृतःपरमदुर्जयः लक्ष्मणानुचरोरामस्सम्प्रतस्थेमहाबलः
Verse 139
स ददर्शमहात्मानंकिरीटिनमरिन्दमम् शोणितावृतरक्ताक्षंकुम्भकर्णंमहाबलम्
Verse 140
सर्वान् समभिधावन्तंयथारुष्टंदिशागजम् मार्गमाणंहरीन्कक्रुद्धंराक्षसैःपरिवारितम्
Verse 141
व्निध्यमन्दरसङ्काशंकाञ्चनाङ्गदभूषणम् स्रवन्तंरुधिरंवक्त्राद्वर्षामेघमिवोथतितम्
Verse 142
जिह्वयापरिलिह्यन्तंसृक्किणीशोणितेक्षणम् मृद्नन्तंवानरानीकंकालान्तकयमोपमम्
Verse 143
तंदृष्टवाराक्षसश्रेष्ठंप्रदीप्तानलवर्चसम् विस्फारयामासतदाकार्मुकंपुरुषर्षभः
Verse 144
स तस्यचापनिर्घोषात्कुपितोराक्षसर्षभः अमृष्यमाणस्तंघोषमभिदुद्रावराघवम्
Verse 145
ततस्तुवातोद्धतमेघकल्पंभुजङ्गराजोत्तमभोगबाहुम् तमापतन्तंधरणीराभमुवाचरामोकुम्भकर्णम्
Verse 146
आगच्छरक्षोधिपमाविषादमवस्थितोऽहंप्रगृहीतचापः अवेहिमांराक्षसवंशनाशनंयस्त्वंमुहूर्ताद्भविता
Verse 147
रामोऽयमितिविज्ञायजहासविकृतस्वनम् अभ्यधावतसङ्ककृद्धोहरीवनिद्रावयन्रणे
Verse 148
पातयन्निवसर्वेषांहृदयनिवनौकसाम् प्रहस्यविकृतंभीमंसमेघस्न्तितोपमम् कुम्भकर्णोमहातेजाराघवंवाक्यमब्रवीत्
Verse 149
नाहंविराधोविज्ञेयो न कबन्दःखरो न च न वाली न च मारीचःकुम्भकर्णःसमागतः
Verse 150
पश्यमेमुद्गरंभीमंसर्वकालायसंमहत् अनेननिर्जितादेवादानवाश्चपुरामया
Verse 151
विकर्णवासइतिमांनावज्ञातुंत्वमर्हसि स्वल्पाऽपिहि न मेपीडार्णनासाविनाशनात्
Verse 152
दर्शयेक्ष्वाकुशार्दूलवीर्यंगात्रेषुमेलघु ततस्त्वांभक्षयिष्यामिदृष्टपौरुषविक्रमम्
Verse 153
स कुम्भकर्णस्यवचोनिशम्यरामस्सुपुङ्खान् विससर्जन् तैराहतोवज्रसमवेगैर्नचुक्षुभे न व्यथतेसुरारिः
Verse 154
यैस्सायकैस्सालवरानिकृत्तावालीहतोवानरपुङ्गवश्च तेकुम्भकर्णस्यतदाशरीरंवज्रोपमं न व्यधयांप्रचक्रुः
Verse 155
स वारिधाराइवसायकास्तान् पिबन् शरीरेणमहेन्द्रशत्रुः जघानरामस्यशरप्रवेगंव्याविध्यतंमुग्रवेगम्
Verse 156
ततस्तुरक्षःक्षतजावलिप्तंवित्रासनंदेवमहचमूनाम् व्याविध्यतंमुद्गरमुग्रवेगंनिद्रावयामासचमूंम्
Verse 157
वायव्यमादायततोमहास्त्रंरामःप्रचिक्षेपनिशाचराय समुद्गरंतेनजघानबाहुं स कृत्तबाहुस्तुमुलंनाद
Verse 158
स तस्यबाहुर्गिरिशृङ्गकल्पःसमुद्गरोराघवबाणकृत्तः पपाततस्मिन् हरिराजसैन्येजघानतांवानरवाहिनीं
Verse 159
तेवानराभग्नहतावशेषाःपर्यन्तमाश्रित्यतदाविषण्णाः प्रपीडिताङ्गाददृशुस्सुघोरंनरेन्द्ररक्षोधिपन्निपातम्
Verse 160
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महासिकृत्ताग्रइवाचलेन्द्रः उत्पाटयामासकरेणवृक्षंततोऽभिदुद्रावरणेनरेन्द्रम्
Verse 161
स तस्यबाहुंसहतालवृक्षंसमुद्यतंपन्नगभोगकल्पम् इन्द्रास्त्रयुक्तेनजघानरामोबाणेनजाम्भूनदचित्रितेन
Verse 162
स कुम्भकर्णस्यभुजोनिकृत्तःपपातभूमौगिरिसन्निकाशः विवेष्टमानोनिजाघनवृक्षान् शैलान्शिलावानरराक्षसांश्च
Verse 163
तंछिन्नबाहुंसमवेक्ष्यरामःसमापतन्तंसहसानदन्तम् द्वावर्धचन्द्रौनिशितौप्रगृह्यचिच्छेदपादौयुधिराक्षसस्य
Verse 164
तौतस्यपादौप्रदिशोदिशश्चगिरेर्गुहाश्चैवमहार्णवं च लङ्कां च सेनांकपिराक्षसानांविनादयन्तौविनिपेततुश्च
Verse 165
निकृत्तबाहुद्विनिकृत्तपादोविदार्यवक्त्रंबडबामुखाभम् दुद्रावरामंसहसाभिगर्जन् राहुर्यथाचन्द्रमिवान्तऽरिक्षे
Verse 166
अपूरयत्तस्यमुखंशिताग्रैरामश्शरैर्हेमपिनद्धपुङ्खैः स पूर्णवक्त्रो न शशाकवक्तुंचुकूजकृच्छ्रेणमुमूर्छचापि
Verse 167
अथाददेसूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककाकलकल्पम् अरिष्टमैन्द्रंनिशितंसुपुङ्खंरामश्शरंमारुततुल्यवेगम्
Verse 168
तंवज्रजाम्भूनदचारुपुङ्खंप्रदीप्तसूर्यज्वलनप्रकाशम् महेन्द्रवज्राशनितुल्यवेगंरामःप्रचिक्षेपनिशाचराय
Verse 169
स सायकोराघवबाहुचोदितोदिशस्स्वभासादशसम्प्रकाशयन् विधूमवैश्वानरभीमदर्शनोजगामशक्राशनिवीर्यविक्रमः
Verse 170
स तन्महापर्वतकूटसन्निभंविवृत्तदंष्ट्रंचलचारुकुण्डलम् चकर्तरक्षोधिपतेश्शिरस्तदायथैववृत्रस्यपुरापुरन्दरः
Verse 171
कुम्भकर्णशिरोभातिकुण्डलालङ्कृतंमहत् आदित्येऽभ्युदितेरात्रौमध्यस्थइवचन्द्रमाः
Verse 172
तद्रामबाणाभिहतंपपातरक्षःशिरःपर्वतसन्निकाशम् बभञ्जचर्यागृहगोपुराणिप्राकारमुच्चंतमपातयच्च
Verse 173
तच्चातिकायंहिमहत्प्रकाशंरक्षस्तदातोयनिधौपपात ग्राहान्परान् मीनवरान्भुजङ्गान् ममर्दभूमिच तदाविवेश
Verse 174
तस्मिन्हतेब्राह्मणदेवशत्रौमहाबलेसंयतिकुम्भकर्णे चचालभूर्भूमिधराश्चसर्वेहर्षाच्चदेवास्तुमुलंविनेदुः
Verse 175
ततस्तुदेवर्षिमहर्षिपन्नगाःसुराश्चभूतानिसुपर्णगुह्यकाः सयक्षगन्धर्वगणानभोगताःप्रहर्षितारामपराक्रमेण
Verse 176
ततस्तुतेतस्यवधेनभूरिणामनस्विनोनैरृतराजबान्धवाः विनेदुरुच्चैर्व्यथितारघूत्तमंहरिंसमीक्ष्यैवयथासुरार्धिताः
Verse 177
स देवलोकस्यतमोनिहत्यसूर्योयथाराहुमुखाद्विमुक्तः तथाव्यभासीद्धरिसैन्यमध्येनिहत्यरामोयुधिकुम्भकर्णम्
Verse 178
प्रहर्षमीयुर्भवश्चवानराःप्रबुद्धपद्मप्रतिमैरिवाननैः अपूजयन् राघवमिष्टभागिनंहतेरिसौभीमबलेदुरासदम्
0:000:00
Speed: