Book 6 • Chapter 73
Sarga 73
74 verses
Verse 1
ततोहतान्राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् रक्षोगणास्तत्रहतावशिष्टास्तेरावणायत्वरिताश्शशंसुः
Verse 2
ततोहतांस्तान् सहसानिशम्यराजामुमोहपरिप्लुताक्षः पुत्रक्षयंभ्रातृवधं च घोरंविचिन्त्यराजाविपुलंप्रदध्यौ
Verse 3
ततस्तुराजानमुदीक्ष्यदीनंशोकार्णवेसम्परिपुप्लुवानम् रथर्षभोराक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदंबभाषे
Verse 4
न तात मोहंपरिगन्तुमर्हसियत्रेन्द्रजिजजीवतिराक्षसेन्द्र नेन्द्रारिबाणाभिहतोहिकश्चित्प्राणान् समर्थस्समरेऽभिपातुम्
Verse 5
पश्याद्यरामंसहलक्ष्मणेनमद्बाणनिर्भिन्नविकीर्णदेहम् गतायुषंभूमितलेशयानंशितैश्शरैराचितसर्वगात्रम्
Verse 6
इमांप्रतिज्ञांशृणुशक्रशत्रोःसुनिश्चितांपौरुषदैवयुक्ताम् अद्यैवरामंसहलक्ष्मणेनसन्तर्पयिष्यामिशरैरमोघैः
Verse 7
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्चवैश्वानरचन्द्रसूर्याः द्रक्ष्यन्तुमेविक्रममप्रमेयंविष्णोरिवोग्रंबलियज्ञवाटे
Verse 8
स एवमुक्त्वात्रिदशेन्द्रशत्रुरापृच्छयराजानमदीनसत्त्वः समारुरोहानितुल्यवेगंरथंखरश्रेष्ठसमाधियुक्तम्
Verse 9
तमास्थायमहातेजारथंहरिरथोपमम् जगामसहसातत्रयत्रयुद्धमरिन्दमः
Verse 10
तंप्रस्थितंमहात्मानमनुजग्मुर्महाबलाः सम्हर्षमाणाबहनोधनुष्प्रवरपाणयः गजस्कन्धगताःकेचित्केचित्प्रवरवाजिभिः व्याघ्रवृश्चिकमार्जारखरोरोष्ट्रैश्चभुजङ्गमैः वराहैश्श्वापदैस्सिंहैर्जम्बुकैःपर्वतोपमैः काकहंसमयूरैश्चराक्षसाभीमविक्रमाः प्रासमुद्गरनिस्त्रिंशपरश्वथगदाधराः भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधा
Verse 11

Verse 12

Verse 13

Verse 14
स शङ्खनिनदैःपूर्णैर्भेरीणांचापिनिस्स्वनैः जगामत्रिदशेन्द्रास्तूयमानोनिशाचरैः
Verse 15
स शङ्खशशिवर्णेनछत्रेणरिपुसूदनः रराजप्रतिपूर्णेननभश्चन्द्रमसायथा
Verse 16
अवीज्यतततोवीरोहैमैर्हेमविभूषितैः चारुचामरमुख्यैश्चमुख्यस्सर्वधनुष्मताम्
Verse 17
स तुदृष्टवाविनिर्यान्तंबलेनमहातावृतम् राक्षसाधिपतिश्रशीमान् रावणःपुत्रमब्रवीत्
Verse 18
त्वमप्रतिरथःपुत्रत्वयावैवासवोजितः किम्पुनर्मानुषंधृष्यंनिहनिष्यसिराघवम् तथोक्तोराक्षसेन्द्रेणप्रत्यगृह्णान्महाशिषः
Verse 19
तस्त्विन्द्रजितालङ्कासूर्यप्रतिमतेजसा रराजाप्रतिवीर्येणद्यौरिवार्केणभास्वता
Verse 20
सम्प्राप्यमहातेजायुद्धभूमिमरिन्दमः स्थापयामासरक्षांसिरथंप्रतिसमन्ततः
Verse 21
ततस्तुहुतभोक्तारंहुतभुक्सदृशप्रभः जुहावराक्षसश्रेष्ठोमन्त्रवद्विधिवत्तदा
Verse 22
सहविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः जुहुवेपावकंतत्रराक्षनेन्द्रःप्रतापवान्
Verse 23
शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः लोहितानि च वासांसिस्रुवंकार्ष्णायसंतथा
Verse 24
सतत्राग्निंसमास्तीर्यशरपत्रैस्सतोमरैः छागस्यकृष्णवर्णस्यगळंजग्राहजीवतः
Verse 25
सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः बभूवुस्तानिलिङ्गानिविजयंयान्यदर्शयन्
Verse 26
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः हविस्तत्प्रतिजग्राहपावकस्स्वयमास्थितः
Verse 27
सोऽस्त्रमाहारयामासब्राह्ममिन्द्ररिपुस्तदा धनुश्चात्मरथंचैवसर्वंतत्राभ्यमन्त्रयत्
Verse 28
तस्मिन्नाहूयमानेस्त्रेहूयमाने च पावके सार्धंग्रहेन्दुनक्षत्रैर्वितत्रासनभस्थ्सलम्
Verse 29
स पावकंपावकदीप्ततेजाहुत्वामहेन्द्रप्रतिमप्रभावः स चापबाणासिरथाश्वसूतःखेऽन्तर्दधेऽत्मानमचिन्त्यरूपः
Verse 30
ततोहयरथाकीर्णंपताकाध्वजशोभितम् निर्ययौराक्षसबलंनर्दमानंययुत्सया
Verse 31
तेशरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः तोमरैरङ्कुशैश्चापिवानरान् जघ्नुराहवे
Verse 32
रावणिस्तुततस्सङ्कृद्धस्तान्निरीक्ष्यनिशाचरान् हृष्टाभवन्तोयुध्यन्तुवानराणांजिघांसया
Verse 33
ततस्तेराक्षसास्सर्वेनर्धन्तोजयकाङ्क्षिणः अभ्यवर्षंस्ततोघोरान्वानरान् शरवृष्टिभिः
Verse 34
स तुनालीकनाराचैर्गदाभिर्मुसलैरपि रक्षोभिस्सम्वृतस्सङ्ख्येवानरान् विचकर्त ह
Verse 35
तेवध्यमानास्समरेवानराःपादपायुधाः अभ्यवर्षन्तसहसारावणिंशैलपादपैः
Verse 36
इन्द्रजित्तुतदाक्रुद्धोमहातेजामहाबलः वानराणांशरीराणिव्यधमद्रावणात्मजः
Verse 37
शरेणैकेन च हरीन्नवपञ्च च सप्त च बिभेदसमरेक्रुद्धोराक्षसान् संप्रहर्षयन्
Verse 38
स शरैस्सूर्यसङ्काशैश्शातकुम्भविभूषितैः वानरान् समरेवीरःप्रममाथसुदुर्जयः
Verse 39
तेभिन्नगात्रास्समरेवानराश्शरपीडिताः पेतुर्मथितसङ्कल्पास्सुरैरिवमहासुराः
Verse 40
तंतपन्तमिवादित्यंघोरैर्बाणगभस्तिभिः अभ्यधावन्तसङ्कृद्धास्सम्युगेवानरर्षभाः
Verse 41
ततस्तुवानरास्सर्वेभिन्नदेहाविचेतसः व्यथिताविद्रवन्तिस्मरुधिरेणसमुक्षिताः
Verse 42
रामस्यार्थेपराक्रम्यवानरास्त्यक्तजीविताः नर्दन्तस्तेऽभिवृत्तास्तुसमरेसशिलायुधाः
Verse 43
तेद्रुमैःपर्वताग्रैश्चशिलाभिश्चप्लवङ्गमाः अभ्यवर्षन्तसमरेरावणिंपर्यवस्थिताः
Verse 44
तद्रुमाणांशिलानां च वर्षंप्राणहरंमहत् व्यपोहतमहातेजारावणिस्समितिंजयः
Verse 45
ततःपावकसङ्काशैश्शरैराशीविषोपमैः वानराणामनीकानिबिभेदसमरेप्रभुः
Verse 46
अष्टादशशरैस्तीक्ष्णैस्सविदद्वागन्धमादनम् विव्याथनवभिश्चैवनलंदूरादवस्थितम्
Verse 47
सप्तभिस्तुमहावीर्योमैन्दंमर्मविदारणैः पञ्चभिर्विशिखैश्चैवगजंविव्याथसंयुगे
Verse 48
जाम्बवन्तंतुदशभिर्नीलंत्रिंशद्भिरेव च सुग्रीवमृषभंचैवसोऽङ्गदंद्विविधंतथा घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा
Verse 49
अन्यानपितदामुख्यान्वानरान् बहुभिश्शरैः अर्दयामाससङ्कृद्धःकालानगिरिवमूर्छितः
Verse 50
सशरैस्सूर्यसङ्काशैस्सुमुक्सैशशीघ्रगामिभिः वानराणामनीकानिनिर्ममन्थमहारणे
Verse 51
आकुलांवानरींसेनांशरजालेनमोहिताम् हृष्टस्सपरयाप्रीत्याददर्शक्षतजोक्षिताम्
Verse 52
वानरेवमहातेजाराक्षसेन्द्रात्मजोबली संसृज्यबाणवर्षं च शस्त्रवर्षं च दारुणम् ममर्दवानरानीकमिन्द्रजित्त्वरितोबली
Verse 53
वानरेवमहातेजाराक्षसेन्द्रात्मजोबली संसृज्यबाणवर्षं च शस्त्रवर्षं च दारुणम् ममर्दवानरानीकमिन्द्रजित्त्वरितोबली
Verse 54
स्वसैन्यमुत्सृज्यसमेत्यतूर्णंमहारणेवानरवाहिनीषु अदृश्यमानश्शरजालमुग्रंववर्षनीलाम्बुधरोयथाम्बु
Verse 55
तेशक्रजिद्बाणविशीर्णदेहामायाहताविस्वरमुन्नदन्तः रणेनिपेतुर्हरयोऽद्रिकल्पायथेन्द्रवज्राभिहतानगेन्द्राः
Verse 56
तेकेवलंसन्ददृशुशशिताग्रान्बाणान्रणेवानरवाहिनीषु मायानिगूढंतुसुरेन्द्रशत्रुं न चावृतंराक्षसमभ्यपश्यन्
Verse 57
ततस्सरक्षोधिपतिर्महात्मासर्वादिशोबाणगणैशशिताग्रैः प्रच्छादयामासरविप्रकाशैर्विपादयामास च वानरेन्द्रान्
Verse 58
स शूलनिस्त्रिंशपरश्वधानिव्याविध्यदीप्तानलसन्निभानि सविस्फुलिङ्गोज्ज्वलपावकानिववर्षतीव्रंप्लवगेन्द्रसैन्ये
Verse 59
ततोज्वलनसङ्काशैश्शरैर्वानरयूथपाः ताडिताश्शक्रजिद्बाणैःप्रफुल्लाइवकिंशुकाः
Verse 60
तेन्योन्यमभिसर्पन्तोनिनदन्तश्चविस्वरम् राक्षसेन्द्रास्त्रनिर्भिन्नानिपेतुर्वानरर्षभाः
Verse 61
उदीक्षमाणागगनंकेचिन्नेत्रेषुताडिताः शरैर्विविशुरन्योन्यंपेतुश्चजगतीतले
Verse 62
हनूमन्तं च सुग्रीवमङ्गदंगन्धमादनम् जाम्बवन्तंसुषेणं च वेगदर्शिनमेव च मैन्दं च द्विविदंनीलंगवाक्षंगजगोमुभौ केसरिंहरिलोमानंविद्युद्धंष्ट्रं च वानरम् सूर्याननंज्योतिमुखंतथादधिमुखंहरिम् पावकाक्षनळंचैवकुमुदंचैववानरम् प्रसैश्शूलैश्शितैर्बाणैरिन्द्रजिन्मन्त्रसम्हितैः विव्याधहरिशार्दूलान् सर्वांस्तान्राक्षसोत्तमः
Verse 63

Verse 64

Verse 65

Verse 66
स वैगदाभिर्हरियूथमुख्यान्निर्भिद्यबाणैस्तपनीयवङ्खैः ववर्षरामंशरवृष्टिजालैस्सलक्ष्मणंभास्कररमशिकल्पैः
Verse 67
स बाणवर्षैरभिवृष्यमाणोधारानिपातानिवतानच्नित्य समीक्षमाणःपरमाद्भुतश्रीरामतदालक्ष्मणमित्युवाच
Verse 68
असौपुनर्लक्ष्मणराक्षसेन्द्रोब्रह्मास्त्रमाश्रित्यसुरेन्द्रशत्रुः निपातयित्वाहरिसैन्यमुग्रमस्मान्शरैरर्दयतिप्रसक्तः
Verse 69
स्वयम्भुवादत्तवरोमहात्मा समाहितोन्तर्हितभीमकायः कथंनुशक्योयुधिनष्टदेहोनिहन्तुमद्येन्द्रजिदुद्यतास्त्रः
Verse 70
मन्येस्वयम्भुर्भगवानच्नित्योयस्यैतदस्त्रंप्रभवश्चयोऽस्य बाणावपातास्त्वमिहाद्यधीमन्मयासहाव्यग्रमनास्सहस्व
Verse 71
प्रच्छादयत्येषहिराक्षसेन्द्रस्सर्वाधिशस्सायकवृष्टिजालैः एतच्चसर्वंपतिताग्य्रशूरं न भ्राजतेवानरराजसैन्यम्
Verse 72
आवांतुदृष्टवापतितौविसंज्ञौनिवृत्तयुद्दौगतरोषहर्षे ध्रुवंप्रवेक्ष्यत्यमरारिवासमसौसमादायरणाग्रलक्ष्मीम्
Verse 73
ततस्तुताविन्द्रजिदस्त्रजालैर्भभूवतुस्तत्रतथाविशस्तौ स चापितौतत्रविदर्शयित्वाननादहर्षाद्युधिराक्षसेन्द्रः
Verse 74
सतत्तदावानरसैन्यमेवंरामं च सङ्ख्येसहलक्ष्मणेन विषादयित्वासहसाविवेशपुरींदशग्रीवभुजाभिगुप्ताम् सन्स्तूयमानस्सतुयातुधानैः पत्रे च सर्वंहृषितोऽभ्युवाच
0:000:00
Speed: