Book 6 • Chapter 72
Sarga 72
17 verses
Verse 1
अतिकायंहतंश्रुत्वालक्ष्मणेनमहौजसा उद्वेगमगमद्राजावचनंचेदमब्रवीत्
Verse 2
धूम्राक्षःपरमामर्षीधन्वीशस्त्रभृतांवरः अकम्पनःप्रहस्तश्चकुम्भुकर्णस्तथैव च एतेमहाबलावीराराक्षसायुद्धकाङ्क्षिणः जेतारःपरसैन्यानांपरैर्नित्यापराजिताः निहतास्तेमहावीर्यारामेणाक्लिष्टकर्मणा राक्षसास्सुमहाकायानानाशस्त्रविशारदाः अन्ये च बहवश्शूरामहात्मानोनिपातिताः
Verse 3

Verse 4

Verse 5
प्रख्यातबलवीर्येणपुत्रेणेन्द्रजितामम यौहितौभ्रातरौतदावीरौबद्धौदत्तवरैश्शरैः
Verse 6
यन्नशक्यंसुरैस्सर्वैरसुरैर्वामहाबलैः मोक्तुंतद्बन्धनंघोरंयक्षगन्धर्वकिन्नरैः तन्नजानेप्रभावैर्वामाययामोहनेनवा शरबन्धाद्विमुक्तौतौभ्रातरौरामलक्ष्मणौ
Verse 7

Verse 8
येयोधानिर्गताश्शूराराक्षसाममशासनात् तेसर्वेनिहतायुद्धेवानरैस्सुमहाबलैः
Verse 9
तम्नपश्याम्यहंयुद्धेयोऽद्यरामंसलक्ष्मणम् शासयेत्सबलंवीरंससुग्रीवविभीषणम्
Verse 10
अहोसुबलवान् रामोमहदस्त्रबलं च वै यस्यविक्रममासाद्यराक्षसानिधनंगताः
Verse 11
अप्रमत्सैश्चसर्वत्रगुप्सैरक्ष्यापुरीवतियम् अशोकवनिकायांचयत्रसीताऽभिरक्ष्यते
Verse 12
निष्क्रामोवाप्रवेशोवाज्ञातव्यस्सर्वदैवनः यत्रयत्रभवेद्गुल्मस्तत्रतत्रपुनःपुनः
Verse 13
सर्वतश्चापितिष्ठध्वंस्स्वै: परिवृताबलैः द्रष्टव्यं च पदंतेषांवानराणांनिशाचराः
Verse 14
प्रदोषेवार्धरात्रेवाप्रत्यूषेवापिसर्वत नावज्ञातेषुकर्तव्यावानरेषुकदाचन द्विषतांबलमुद्युक्तमापतकतिंस्थितंसदा
Verse 15

Verse 16
ततस्तेराक्षसास्सर्वेश्रुत्वालङ्काधिपस्यतत् वचनंसर्वमातिष्ठन् यथावत्तुमहाबलाः
Verse 17
स तान् सर्वान् हिसन्दिश्यरावणोराक्षसाधिपः मन्युशल्यंवहन् दीनःप्रविवेशस्वमालयम्
0:000:00
Speed: