Book 6 • Chapter 77
Sarga 77
23 verses
Verse 1
निकुम्भोभ्रातरंदृष्टवासुग्रीवेणनिपातितम् प्रदहन्निवकोपेनवानरेन्द्रमवैक्षत
Verse 2
ततस्स्रग्दामसन्नद्धंदत्तपञ्चाङ्गुलंशुभम् आददेपरिघंवीरोमहेन्द्रशिखरोपमम्
Verse 3
हेमपट्टपरिक्षिप्तंवज्रविद्रुमभूषितम् यमदण्डोपमंभीमंरक्षसांभयनाशनम्
Verse 4
तमाविध्यमहातेजाश्शक्रध्वजसमंतदा निननादविवृत्तास्योनिकुम्भोभीमविक्रमः
Verse 5
उरोगतेननिष्केणभुजस्थैरङ्गदैरपि कुण्डलाभ्यां च चित्राभ्यांमालया च विचित्रया निकुम्भोभूषणैर्भातितेनस्मपरिघेण च यथेन्द्रधनुषामेघस्सविद्युत्स्तनयित्नुमान्
Verse 6
उरोगतेननिष्केणभुजस्थैरङ्गदैरपि कुण्डलाभ्यां च चित्राभ्यांमालया च विचित्रया निकुम्भोभूषणैर्भातितेनस्मपरिघेण च यथेन्द्रधनुषामेघस्सविद्युत्स्तनयित्नुमान्
Verse 7
परिघाग्रेणपुष्पोटवातग्रथनिर्महात्मनः प्रजज्वालसघोषश्चविधूमइवपावकः
Verse 8
नगर्याविटपावत्यागन्धर्वभवनोत्तमैः सतारग्रहनक्षत्रंसचन्द्रंसमहाग्रहम् निकुम्भपरिघाघूर्णंभ्रमतीवनभस्थ्सलम्
Verse 9
दुरासदश्चसञ्जज्ञेपरिघाभरणप्रभः कपीनांसनिकुम्भाग्निर्युगान्ताग्निरिवोत्थितः
Verse 10
राक्षसावानराश्चापि न शेकुस्स्पन्दितुंभयात् हनूमांस्तुविवृत्योरस्तस्थौतस्याग्रतोबली
Verse 11
परिघोपमबाहुस्तुपरिघंभास्करप्रभम् बलीबलवतस्तस्यपातयामासवक्षसि
Verse 12
स्थिरेतस्योरसिव्यूढेपरिघश्शतधाकृतः विकीर्यमाणस्सहसाउल्काशतमिवाम्बरे
Verse 13
स तुतेनप्रहारेणविचचालमहाकपिः परिघेणसमाधूतोयथाभूमिचलेऽचलः
Verse 14
तथाभिहतस्तेनहनुमान् प्लवगोत्तमः मुष्टिंसम्वर्तयामासबलेनातिमहाबलः
Verse 15
तमुद्यम्यमहातेजानिकुम्भोरसिवीर्यवान् अभिचिक्षेपवेगेनवेगवान् वायुविक्रमः
Verse 16
ततःपुस्फोटचर्मास्यप्रसुस्राव च शोणितम् मुष्टिनातेनसञ्जज्ञेमेघेविद्युदिवोत्थिता
Verse 17
सःतुतेनप्रहारेणनिकुम्भोविचचाल ह स्वस्थश्चापिनिजग्राहहनूमन्तंमहाबलम्
Verse 18
चुक्रुशुस्तदासङ्ख्येभीमंलङ्कानिवासिनः निकुम्भेनोद्यतंदृष्टवाहनूमन्तंमहाबलम्
Verse 19
तदाह्रियमाणोऽपिकुम्भकर्णात्मजेन ह आजघानानिलसुतोवज्रकल्पेनमुष्टिना
Verse 20
आत्मानंमोक्षयित्वाथक्षितावभ्यवपद्यत हनूमानुन्ममाथाशुनिकुम्भंमारुतात्मजः
Verse 21
निक्षिप्यपरमायत्तोनिकुम्भंनिष्पिपेष ह उत्पत्यचास्यवेगेनपपातोरसिवीर्यवान्
Verse 22
परिगृह्य च बाहुभ्यांपरिवृत्यशिरोधराम् उत्पाटयामानशिरोभैरवंनदतोमहत्
Verse 23
अथनिनदतिसादितेनिकुम्भेपवनसुतेनरणेबभूवयुद्धम् दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोस्सुभीमम्
0:000:00
Speed: