🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 78

Sarga 78

20 verses

Verse 1
निकुम्भंनिहतंश्रुत्वाकुम्भं  विनिपातितम् रावणःपरमामर्षीप्रजज्वालानलोयथा
Verse 2
नैरृतःक्रोधशोकाभ्यांद्वाभ्यांतुपरिमूर्छितः खरपुत्रंविशालाक्षंमकराक्षमचोदयत्
Verse 3
गच्छपुत्रऽमयाऽजाज्ञप्तोबलेनाभिसमवनितः राघवंलक्ष्मणंचैवजहितांश्चवनौकसः
Verse 4
रावणस्यवचश्श्रुत्वाशूरमानीखरात्मजः बाढमित्यब्रवीद्धृष्टोमकराक्षोनिशाचरम्
Verse 5
सोऽभिवाद्यदशग्रीवंकृत्वाचापिप्रदक्षिणम् निर्जगामगृहाच्छुभ्राद्रावणस्याज्ञयाबली
Verse 6
समीपस्थंबलाध्यक्षंखरपुत्रोऽब्रवीदिदम् रथश्चानीयतांशीघ्रंसैन्यंत्वानीयतांत्वरात्
Verse 7
तस्यतद्वचनंश्रुत्वाबलाध्यक्षोनिशाचरः स्यन्दनं  बलंचैवसमीपंप्रत्यपादयत् 6.78.7
Verse 8
प्रदक्षिणंरथंकृत्वाआरुरोहनिशाचरः सूतंसञ्चोदयामासशीघ्रंमेरथमावह
Verse 9
अथतान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् यूयंसर्वेप्रयुध्यध्वंपुरस्तान्ममराक्षसाः
Verse 10
अहंराक्षसराजेनरावणेनमहात्मना आज्ञप्तःसमरेहन्तुंतावुभौरामलक्ष्मणौ
Verse 11
अद्यरामंवधिष्यामिलक्ष्मणं  निशाचराः शाखामृगं  सुग्रीवंवानरांश्चशरोत्तमैः
Verse 12
अद्यशूलनिपातैश्चवानराणांमहाचमूम् प्रदहिष्यामिसम्प्राप्तांशुष्केन्धनमिवानलः
Verse 13
मकराक्षस्यतच्छ्रुत्वावचनंतेनिशाचराः सर्वेनानायुधोपेताबलवन्तःसमाहिताः
Verse 14
तेकामरूपिणस्सरेदंष्ट्रिणःपिङ्गलेक्षणा मातङ्गाइवनर्दन्तोध्वस्तकेशाभयावहाः परिवार्यमहाकायामहाकायंखरात्मजम् अभिजघ्नुस्ततोहृष्टाश्चालयन्तोवसुन्धराम्
Verse 15
तेकामरूपिणस्सरेदंष्ट्रिणःपिङ्गलेक्षणा मातङ्गाइवनर्दन्तोध्वस्तकेशाभयावहाः परिवार्यमहाकायामहाकायंखरात्मजम् अभिजघ्नुस्ततोहृष्टाश्चालयन्तोवसुन्धराम्
Verse 16
शङ्खभेरीसहस्राणामाहतानांसमन्ततः क्ष्येळितास्फोटितानां  तत्रशब्दोमहानभूत्
Verse 17
प्रभ्रष्टोऽथकरात्तस्यप्रतोदस्सारथेस्तदा पपातसहसादैवाद्ध्वजस्तस्यतुरक्षसः
Verse 18
तस्यतेरथसंयुक्ताहयाविक्रमवर्जिताः चरणैराकुलैर्गत्वादीनाःसास्रमुखाययुः
Verse 19
प्रवातिपवनस्तस्मिन् सपांसुःखरदारुणः निर्याणेतस्यरौद्रस्यमकराक्षस्यदुर्मतेः
Verse 20
तानिदृष्टवानिमित्तानिराक्षसावीर्यवत्तमाः अचिन्त्यनिर्गतास्सर्वेयत्रतौरामलक्ष्मणौ
0:000:00
Speed: