🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 82

Sarga 82

27 verses

Verse 1
श्रुत्वातुभीमनिर्ह्रादंशक्राशनिसमस्वनम् वीक्षमाणादिशस्सर्वादुद्रुवुर्वानरर्षभा:
Verse 2
तानुवाचततःसर्वान्हनुमान् मारुतात्मजः विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतःपृथक्
Verse 3
कस्माद्विषण्णवदनाविद्रवध्वंप्लवङ्गमाः त्यक्तयुद्धसमुत्साहाश्शूरत्वंक्वनुवोगतम्
Verse 4
पृष्ठतोऽनुव्रजध्वंमामग्रतोयन्तमाहवे शूरैरनिजनोपेतैरयुक्तंहिनिवर्तितुम्
Verse 5
एवमुक्तास्सुसङ्क्रुद्धावायुपुत्रेणधीमता शैलशृङ्गान् द्रुमांश्चवजगृहुर्हृष्टमानसाः
Verse 6
अभिपेतुश्चगर्जन्तोराक्षसान्वानरर्षभाः परिवार्यहनूमन्तमन्वयुश्चमहाहवे
Verse 7
 तैर्वानरमुख्यैश्चहनुमान्सर्वतोवृतः हुताशनइवार्चिष्मानदहच्छत्रुवाहिनीम्
Verse 8
 राक्षसानांकदनंचकारसुमहाकपिः वृतोवानरसैन्येनकालान्तकयोमोपमः
Verse 9
 तुकोपेनचाविष्टःशोकेन  महाकपिः हनूमान्रावणिरथेमहतींपातयच्छिलाम्
Verse 10
तामापतन्तींदृष्टवैवरथस्सारथिनातदा विधेयाश्वसमायुक्तोविदूरमपवाहितः
Verse 11
तमिन्द्रजितमप्राप्यरथस्थंसहसारथिम् विवेशधरणींभित्त्वासाशिलाव्यर्थमुद्यता
Verse 12
पतितायांशिलायांतुव्यथितारक्षसांचमूः निपतन्त्या  शिलयाराक्षसामथिताभृशम्
Verse 13
तमभ्यधावन् शतशोनदन्तःकाननौकसः तेद्रुमांश्चमहाकायागिरिशृङ्गाणिचोद्यताः
Verse 14
क्षिपनीन्द्रजितंसङ्ख्येवानराभीमविक्रमाः वृक्षशैलमहावर्षंविसृजन्तःप्लवङ्गमाः शत्रूणांकदनंचक्रुर्नेदुश्चविविधैस्स्वनैः
Verse 15
वानरैसैर्महाभीमैर्घोररूपानिशाचराः वीर्यादभिहतावृक्षैर्व्यचेष्टन्तरणक्षितौ
Verse 16
स्वसैन्यमभिवीक्ष्याथवानरार्दितमिन्द्रजित् प्रगृहीतायुधःक्रुद्धःपरानभिमुखोययौ
Verse 17
सःशरौघानवसृजन्स्वसैन्येनाभिसम्वृतः जघानकपिशार्दूलान्सुबहून्दृष्टविक्रमः
Verse 18
शूलैःरशनिभिःखङ्गै: पट्टसै: कूटमुद्गरैः तेचाप्यनुचरास्तस्यवानरान्जघ्नुराहवे
Verse 19
स्कन्धविटपैश्शालैश्शिलाभिश्चमहाबलः हनूमान्कदनंचक्रेरक्षसांभीमकर्मणाम्
Verse 20
सनिवार्यपरानीकमब्रवीत्तान्वनौकसः हनूमान् सन्निवर्तध्वं  नस्साध्यमिदंबलम्
Verse 21
त्यक्त्वाप्राणान्विवेष्टन्तोरामप्रियचिकीर्षवः यन्निमित्तंहियुध्यामोहतासाजनकात्मजा
Verse 22
इममर्थंहिविज्ञाप्यरामंसुग्रीवमेव  तौयत्प्रतिविधास्येतेतत्करिष्यामहेवयम्
Verse 23
त्युक्त्वावानरश्रेष्ठोवारयन्सर्ववानरान् शनैश्शनैरसन्त्रस्तस्सबलस्सन्यवर्तत
Verse 24
ततःप्रेक्ष्यहनूमन्तंव्रजन्तंयत्रराघवः  होतुकामोदुष्टात्मागतश्चैत्यंनिकुम्भिलाम्
Verse 25
निकुम्भिलामधिष्ठायपावकंजुहवेन्द्रजित् यज्ञभूम्यांततोगत्वापावकस्तेनरक्षसा हूयमानःप्रजज्वालमांसशोणितभुक्तदा
Verse 26
निकुम्भिलामधिष्ठायपावकंजुहवेन्द्रजित् यज्ञभूम्यांततोगत्वापावकस्तेनरक्षसा हूयमानःप्रजज्वालमांसशोणितभुक्तदा
Verse 27
सोऽर्चिःपिनद्धोददृशेहोमशोणिततर्पितः सन्ध्यागतइवादित्यःसुतीव्रोऽग्नि: समुत्थितः
0:000:00
Speed: