🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 83

Sarga 83

43 verses

Verse 1
राघवश्चापिविपुलंतंराक्षसवनौकसाम् श्रुत्वासङ्ग्रामनिर्घोषंजाम्बवन्तमुवाच 
Verse 2
सौम्यनूनंहनुमताकृतंकर्मसुदुष्करम् श्रूयते  यथाभीमस्सुमहावायुधस्वनः
Verse 3
तद्गच्छकुरुसाहाय्यंस्वबलेनाभिसम्वृतः क्षिप्रमक्षपतेतस्यकपिश्रेष्ठस्ययुध्यतः
Verse 4
ऋक्षराक्षस्तथोक्तस्तुस्वेनानीकेनसम्वृतः आगच्छत्पश्चिमद्वारंहनूमान्यत्रवानरः
Verse 5
अथायान्तंहनूमन्तंददर्शर्क्षपतिपथि वानरैःकृतसङ्ग्रामैश्श्वसद्भिरभिसम्वृतम्
Verse 6
दृष्टापथिहनूमांश्चतदृक्षबलमुद्यतम् नीलमेघनिभंभीमंसन्निवार्यन्यवर्तत
Verse 7
 तेनसहसैन्येनसन्निकर्षंमहायशाः शीघ्रमागम्यरामायदुःखितोवाक्यमब्रवीत्
Verse 8
समरेयुध्यमानानामस्माकंप्रेक्षतांपुरः जघानरुदतींसीतामिन्द्रजिद्रावणात्मजः
Verse 9
उद्भ्रान्तचित्तस्तांदृष्टवाविषण्णोऽहमरिन्दमः तदहंभवतोवृतंविज्ञापयितुमागतः
Verse 10
तस्यतद्वचनंश्रुत्वाराघवश्शोकमूर्चितः निपपाततदाभूमौछिन्नमूलंइवद्रुमः
Verse 11
तंभूमौदेवसङ्काशंपतितंदृश्यराघवम् अभिपेतुस्समुत्पत्यसर्वतःकपिसत्तमाः
Verse 12
आसिञ्चन् सलिलैश्चैनंपद्मोत्पलसुगन्धिभिः प्रदहन्तमानासाद्यंसहसाग्निमिवोद्यतम्
Verse 13
तंलक्ष्मणोऽथबाहुभ्यांपरिष्वज्यसुदुःखितः उवाचराममस्वस्थंवाक्यंहेत्वर्थसम्युतम्
Verse 14
शुभेवर्त्मनितिष्ठन्तंत्वामार्यविजितेन्द्रियम् अनर्थेभ्यो  शक्नोतित्रातुंधर्मोनिरर्थकः
Verse 15
भूतानांस्थावाराणां  जङ्गमानां  दर्शनम् यथास्ति  तथाधर्मस्तेननास्तीतिमेमतिः
Verse 16
यथैवस्थावरंव्यक्तंजङ्गमं  तथाविधम् नायमर्थस्तथायुक्तस्त्वद्विधो  विपद्यते
Verse 17
यद्यधर्मोभवेद्भूतोरावणोनरकंव्रजेत् भवांश्चधर्मसम्युक्तोनैवंव्यसनमाप्नुयात्
Verse 18
तस्य  व्यसनाभावाद्व्यसनंचागतेत्वयि धर्मोभवत्यधर्मश्चपरस्परविरोधिनौ
Verse 19
धर्मेणोपलभेद्धर्ममधर्मंचाप्यधर्मतः यद्यधर्मेणयुज्येयुर्येष्वधर्मःप्रतिष्ठितः यदिधर्मेणवियुज्येरन्नधर्मरुचयोजनाः धर्मेणचरतांधर्मंचैषांधर्मफलंभवेत्
Verse 20
धर्मेणोपलभेद्धर्ममधर्मंचाप्यधर्मतः यद्यधर्मेणयुज्येयुर्येष्वधर्मःप्रतिष्ठितः यदिधर्मेणवियुज्येरन्नधर्मरुचयोजनाः धर्मेणचरतांधर्मंचैषांधर्मफलंभवेत्
Verse 21
यस्मादर्थाविवर्धन्तेयेष्वधर्मःप्रतिष्ठितः क्लिश्यन्तेधर्मशीलाश्चतस्मादेतौनिरर्थकौ
Verse 22
वध्यन्तेपापकर्माणोयद्यधर्मेणराघव वधकर्महतोऽधर्मः  हतःकिंवधिष्यति
Verse 23
अथवाविहितेनायंहन्यतेहन्तिवापरम् विधिरालिप्यतेतेन   पापेनकर्मणा
Verse 24
अदृष्टप्रतिकारेणत्वव्यक्तेनासतासता कथंशक्यंपरंप्राप्तुंधर्मेणारिविकर्षण
Verse 25
यदिसत्स्यात्सतांमुख्यनासत्स्यत्तवकिञ्चन त्वयायदीदृशंप्राप्तंतस्मात्सन्नोपपद्यते
Verse 26
अथवादुर्बलःक्लीबोबलंधर्मोऽनुवर्तते दुर्बलोहृतमर्यादो  सेव्यइतिमेमतिः
Verse 27
बलस्ययदिचेद्धर्मोगुणभूतःपराक्रमे धर्ममुत्सृज्यवर्तस्वयथाधर्मेतथाबले
Verse 28
अथचेत्सत्यवचनंधर्म: किलपरन्तप अनृतस्त्वय्यकरुणःकिं  बद्धस्त्वयापिता
Verse 29
यदिधर्मोभवेद्भूतअधर्मोवापरन्तप  स्महत्वामुनिंवज्रीकुर्यादिज्यांशतक्रतुः
Verse 30
अधर्मसंश्रितोधर्मोविनाशयतिराघव सर्वमेतद्यथाकामंकाकुत्स्थकुरुतेनरः
Verse 31
ममचेदंमतंतातधरोऽयमितिराघव धर्ममूलंत्वयाछिन्नंराज्यमुत्सृजतातदा
Verse 32
अर्थेभ्योहिप्रवृद्धेभ्यःसम्वृत्तेभ्यस्ततस्ततः क्रियाःसर्वाःप्रवर्तन्तेपर्वतेभ्यःइवापगाः
Verse 33
अर्थेनहिविमुक्तस्यपुरुषस्याल्पचेतसः विच्छिद्यन्तेक्रियास्सर्वाग्रीष्मेकुसरितोयथा
Verse 34
सोऽयमर्थंपरित्यज्यसुखकामःसुखैधितः पापमारभतेकर्तुंतदादोषःप्रवर्तते
Verse 35
यस्यार्थास्तस्यमित्राणियस्यार्थास्यस्यबान्धवाः यस्यार्थास्सपुमान्लोकेयस्यार्थाः   पण्डितः
Verse 36
यस्यार्थास्स  विक्रान्तोयस्यार्थास्स  बुद्धिमान् यस्यार्थास्समहाभागोयस्यार्थास्समहागुणः
Verse 37
अर्थस्यैतेपरित्यागेदोषाःप्रव्याहृतामया राज्यमुत्सृजतावीरयेनबुद्धिस्त्वयाकृता
Verse 38
यस्यार्थाःधर्मकामार्थास्तस्यसर्वंप्रदक्षिणम् अधनेनार्थकामेननार्थश्शक्योविचिन्वता
Verse 39
हर्षःकामश्चदर्पश्चधर्मःक्रोधश्शमोदमः अर्थादेतानिसर्वाणिप्रवर्तन्तेनराधिप
Verse 40
येषांनश्यत्ययंलोकश्चरतांधर्मचारिणाम् तेऽर्थास्त्वयि  दृश्यन्तेदुर्दिनेषुयथाग्रहाः
Verse 41
त्वयिप्रव्रजितेवीरगुरोश्चवचनेस्थिते रक्षसापहृताभार्याप्राणैःप्रियतरातव
Verse 42
तदद्यविपुलंवीरदुःखमिन्द्रजिताकृतम् कर्मणाव्यपनेष्यामितस्मादुत्तिष्ठराघव
Verse 43
उत्थिष्ठनरशार्दूलदीर्घबाहोधृतव्रत किमात्मानंमहात्मानंमात्मानं  बुध्यसे
0:000:00
Speed: