Book 6 • Chapter 87
Sarga 87
29 verses
Verse 1
एवमुक्त्वातुसौमित्रिंजातहर्षोविभीषणः धनुष्पाणिंनमादायत्वरमाणोजगामसः
Verse 2
अविदूरंततोगत्वाप्रविश्यतुमहद्वनम् दर्शमामासतत्कर्मलक्ष्मणातविभीषणः
Verse 3
नीलजीमूतसङ्काशंन्यग्रोधंभीमदर्शनम् तेजस्वीरावणभ्रातालक्ष्मणायन्यवेदयत्
Verse 4
इहोपहारंभूतानांबलवान्रावणात्मजः उपहृत्यततःपश्चात्सङ्ग्राममभिवर्तते
Verse 5
अदृश्टस्सर्वभूतानांततोभवतिराक्षसः निहन्तिसमरेशत्रून् बध्नाति च शरोत्तमैः
Verse 6
तमप्रविष्टंन्यग्रोधंबलिनंरावणात्मजम् विध्वंसयशरैर्दीप्टै: सरथंसाश्वसारथिम्
Verse 7
तथेत्युक्त्वामहातेजास्सौमित्रिर्मित्रनन्दनः बभूवावस्थितस्तत्रचित्रंविस्फारयन्? धनुः
Verse 8
स रथेनाग्निवर्णेनबलवान्रावणात्मजः इन्द्रजित्कवचीखङ्गीसध्वजःप्रत्यदृश्यत
Verse 9
तमुवाचमहातेजाःपौलस्त्यमपराजितम् समह्वयेत्वांसमरेसम्यग्युद्धंप्रयच्छमे
Verse 10
एवमुक्तोमहातेजामनस्वीरावणात्मजः अब्रवीत्परुषंवाक्यंतत्रदृष्टवाविभीषणम्
Verse 11
इहत्वंजातसम्वृद्धःसाक्षाद्भ्रातापितुर्मम कथंद्रुह्यसिपुत्रस्यपितृव्योममराक्षस
Verse 12
न ज्ञातित्वं न सौहार्धं न जातिस्तवदुर्मते प्रमाणं न च सौदर्यं न धर्मोधर्मदूषण
Verse 13
शोच्यस्त्वमसिदुर्बुद्धेनिन्दनीयश्चसाधुभिः यस्त्वंस्वजनमुत्सृज्यपरभृत्यत्वमागतः
Verse 14
नैतछचिथिलयाबुद्ध्यात्वंवेसतिमहदन्तरम् क्व च स्वजनसम्वासःक्व च नीचपराश्रयः
Verse 15
गुणवान्वापरजनःस्वजनोनिर्गुणोऽपिवा निर्गुणःस्वजनःश्रेयान् यःपरःपरएवसः
Verse 16
यसस्स्वपक्षंपरित्यज्यपरपक्षंनिषेवते स स्वपक्षेक्ष्यंप्राप्तेपश्चास्त्तैरेवहन्यते
Verse 17
निरनुक्रोशताचेयंयादृशीतेनिशाचर स्वजनेनत्वयाशक्यंपौरुषंरावणानुज
Verse 18
इत्युक्तोभ्रातृपुत्रेणप्रत्युवाचविभीषणः अजानन्निवमछचीलंकिंराक्षसविकत्थसे
Verse 19
राक्षसेन्द्रसुतासाधोपारुष्यंत्यजगौरवात् कुलेयद्यप्यहंजातोरक्षसांक्रूरकर्मणाम् गुणोयःप्रथमोनृणंतन्मेशीलमराक्षसम्
Verse 20
न रमेदारुणेनाहं न चाधर्मेणवैरमे भ्रात्राविषशीलोऽपिकथंभ्रातानिरस्यते
Verse 21
धर्मात्प्रच्युतशीलंहिपुरुषंपापनिश्चयम् त्यक्त्वासुखमवाप्नोतिहस्तादाशीविषंयथा
Verse 22
परस्वहरणेयुक्तंपरदाराभिमर्शकम् त्याज्यमाहुर्दुरात्मानंवेश्मप्रज्वलितंयथा
Verse 23
परस्वानां च हरणंपरदाराभिमर्शनम् सुहृदामतिशङ्का च त्रयोदोषाःक्षयावहाः
Verse 24
महर्षीणांवधोघोरस्सर्वदेवैश्चविग्रहः अभिमानश्चदोषश्चवैरित्वंप्रतिकूलता एतेदोषाममभ्रातुर्जीवितैश्वर्यनाशनाः गुणान्प्रच्छादयामासुःपर्वतानिवतोयदाः
Verse 25
महर्षीणांवधोघोरस्सर्वदेवैश्चविग्रहः अभिमानश्चदोषश्चवैरित्वंप्रतिकूलता एतेदोषाममभ्रातुर्जीवितैश्वर्यनाशनाः गुणान्प्रच्छादयामासुःपर्वतानिवतोयदाः
Verse 26
दोषैरेतैःपरित्यक्तोमयाभ्रातापितातव नेयमस्तिपुरीलङ्का न च त्वं न च तेपिता
Verse 27
अतिमाननी च बालश्चदुर्विनीतश्चराक्षस बद्धस्त्वंकालपाशेनब्रूहिमांयद्यदिच्छसि
Verse 28
अद्यतेव्यसनंप्राप्तंकिंमांत्वामिहवक्ष्यसि प्रवेष्टुं न त्वयाशक्यंन्यग्रोधंराक्षसाधम
Verse 29
धर्षयित्वा च काकुत्स्थं न शक्यंजीवितुंत्वया युध्यस्वनरदेवेनलक्ष्मणेनरणेसह हतस्त्वंदेवताकार्यंकरिष्यसियमक्षये
0:000:00
Speed: