Book 6 • Chapter 88
Sarga 88
36 verses
Verse 1
विभीषणवच्श्रुत्वारावणिःक्रोधमूर्छितः अब्रवीत्परुषंवाक्यंवेगेनाभ्युत्पपात च
Verse 2
उद्यतायुधनिस्त्रिंशोरथेसुसमलङ्कृते कालाश्वयुक्तेमहतिस्थितःकालान्तकोपमः महाप्रमाणमुद्यम्यविपुलंवेगवद्धृढम् धनुर्बीमंपरामृश्यशरांश्चामित्रनाशनान्
Verse 3
उद्यतायुधनिस्त्रिंशोरथेसुसमलङ्कृते कालाश्वयुक्तेमहतिस्थितःकालान्तकोपमः महाप्रमाणमुद्यम्यविपुलंवेगवद्धृढम् धनुर्बीमंपरामृश्यशरांश्चामित्रनाशनान्
Verse 4
तंददर्शमहेष्वासोरथस्थस्समलङ्कृतः अलङ्कृतममित्रघ्नोराघवस्यानुजंबली
Verse 5
हनुमत्पृष्ठरूढमुदस्थरविप्रभम् उवाचैनंसमारब्ध: सौमित्रिंसविभीषणम् तांश्चवानरशार्दूलान् पश्यध्वंमेपराक्रमम्
Verse 6
अद्यमत्कार्मुकोत्सृष्टंशरवर्षंदुरासदम् मुक्तंवर्षमिवाकाशेवारयिष्यथसंयुगे
Verse 7
अद्यवोमामकाबाणामहाकार्मुनिस्सृताः विधमिष्यन्तिगात्राणितूलराशिमिवानलः
Verse 8
तीक्षणसायकनिर्भन्नान्शूलशक्त्यृष्टितोमरैः अद्यवोगमयिष्यामिसर्वानेनयमक्षयम्
Verse 9
क्षिपतश्शरवर्षाणिक्षिप्रहस्तस्यसम्युगे जीमूतस्येननदतःकःस्थास्यतिममाग्रतः
Verse 10
रात्रियुद्धेमयापूर्वंवज्राशनिसमैःशरैः शायितौस्थोमयाभूमौविसंज्ञौसपुरस्सरौ
Verse 11
स्मृतिर्नतेऽस्तिवामन्येव्यक्तंवायमसादनम् आशीविषमिवक्रुद्धंयन्मांयोद्धुव्यवत्थित:
Verse 12
तच्छ्रुत्वाराक्षसेन्द्रस्यगर्जितंलक्ष्मणस्तदा अभीतवदनःक्रुद्धोरावणिंवाक्यमब्रवीत्
Verse 13
उक्तश्चदुर्गमःपारःकार्याणांराक्षसत्वया कार्याणांकर्मणांपारंयोगच्छति स बुद्धिमान्
Verse 14
सत्वमर्थस्यहीनार्थोदुरवासस्यकेनचित् वाचाव्याहृत्यजानीषेकृतार्थोऽस्मीतिदुर्मते
Verse 15
अन्तर्धानगतेनाजौयस्त्वयाचरितस्तदा तस्कराचरितोमार्गःनैषवीरनिषेवितः
Verse 16
यथाबाणपथंप्राप्यस्थितोऽहंतवराक्षस दर्शयस्वाद्यतत्तेजोवाचात्वंकिंविकत्थसे
Verse 17
एवमुक्तोधनुर्भीमंपरामृश्यमहाबलः ससर्जनिशितान्बाणानिंद्रजित्समितिञ्जयः
Verse 18
तेनिसृष्टामहावेगाःशराःसर्पविषोपमाः सम्प्राप्यलक्ष्मणंपेतुःश्वसन्तइवपन्नगाः
Verse 19
रैरतिमहावेगैर्वेगवान्रावणात्मजः सौमित्रिमिन्द्रजिद्युद्धेविव्याधशुभलक्षणम्
Verse 20
सशरैरतिविद्धाङ्गोरुधिरेणसमुक्षितः शुशुभेलक्ष्मणःश्रीमान्विधूमइवपावकः
Verse 21
इन्द्रजित्त्वात्मनःकर्मप्रसमीक्ष्याधिगम्य च विनद्यसुमहानादमिदंवचनमब्रवीत्
Verse 22
पत्रिणःशितधारास्तेकरामत्कार्मुकच्युताः आदास्यन्तेऽद्यसौमित्रेजीवितंजीवितान्तकाः
Verse 23
अद्यगोमायुसङ्घाश्चश्येनसङ्घाश्चलक्ष्मण गृध्राश्चनिपतन्तुत्वांगतासुंनिहतंमया
Verse 24
क्षत्रबन्धुंसदानार्यंरामःपरमदुर्मतिः भक्तम्भ्रातरमद्यैवत्वांद्रक्ष्यतिहतंमया
Verse 25
विशस्तकवचंभूमौव्यपविद्धशराससनम् हृतोत्तमाङ्गंसौमित्रत्वामद्यनिहतंमया
Verse 26
इतिब्रुवाणंसङ्कृद्ध: परुषंरावणात्मजम् हेतुमद्वाक्यमत्यर्थंलक्ष्मणःप्रत्युवाच ह
Verse 27
वाग्बलंत्यजदुर्बुद्धेक्रूरकर्मासिराक्षस अथकस्माद्वदस्येतत्सम्पादयसुकर्मणा
Verse 28
कृत्वाकत्थसेकर्मकिमर्थमिहराक्षस कुरुतत्कर्मयेनाहंश्रद्धध्यांतवकत्थनम्
Verse 29
अनुक्त्वापरुषंवाक्यंकिञ्चिदप्यनवक्षिपन् अविकत्थन्वधिष्यामित्वांपश्यपुरुषाधम
Verse 30
इत्युक्त्वापञ्चनाराचानाकर्णापूरितान् शितान् निजघानमहावेगाल्लक्ष्मणोराक्षसोरसि
Verse 31
सुपत्रवाजिताबाणाज्वलिताइवपन्नगाः नैरृतोरस्यभासन्तसवितूरश्मयोयथा
Verse 32
सःशरैराहतस्तेनसरोषोरावणात्मजः सुप्रयुक्तैस्त्रिभिर्भाणैःप्रतिविव्याधलक्ष्मणम्
Verse 33
सःबभूवमहाभीमोनरराक्षससिंहयोः विमर्दस्तुमुलोयुद्धेपरस्परजयैषिणोः
Verse 34
उभौहिबलसम्पन्नावुभौविक्रमशालिनौ उभौपरमदुर्ज्ञेयावतुल्यबलतेजसौ
Verse 35
युयुधातेतदावीरौग्रहाविवनभोगतौ बलवृत्राविवाभीतौयुधितौदुष्प्रधर्षणौ
Verse 36
युयुधातेमहात्मानौतदाकेसरिणाविव बहूनवसृजन्तौहिमार्गणौघानवस्थितौ नरराक्षससिम्होतौप्रहृष्टावभ्ययुध्यताम्
0:000:00
Speed: