🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 6 • Chapter 89

Sarga 89

41 verses

Verse 1
ततश्शरान् दाशरथिस्सन्धायामित्रकर्शणः ससर्जराक्षसेन्द्रायकृद्धस्सर्पइवश्वसन्
Verse 2
तस्यज्यातलनिर्घोषं  श्रुत्वाराक्षसाधिपः विवर्णवदनोभूत्वालक्ष्मणंसमुदैक्षत
Verse 3
विषण्णवदनंदृष्टवाराक्षसंरावणात्मजे सौमित्रिंयुद्धसंयुक्तंप्रत्युवाचविभीषणः
Verse 4
निमित्तान्युपपश्यामियान्यस्मिन् रावणात्मजे त्वरतेनमहाबाहोभग्नएष  संशयः
Verse 5
ततस्सन्धायसौमित्रिश्शरानग्निशिखोपमान् मुमोचनिशितांस्तस्मिन् सर्पानिवमहाविषान्
Verse 6
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतश्शरैः मुहूर्तमभवन्मूक्षःसर्वसंक्षुभितेन्द्रियः
Verse 7
उपलभ्यमुहूर्तेनसंज्ञांप्रत्यागतेन्द्रियः ददर्शावस्थितंवीरंवीरोदशरथात्मजम्
Verse 8
सोऽभिचक्रामसौमित्रिंरोषात्संरक्तलोचनः अब्रवीच्चैनमासाद्यपुनस्सपरुषंवचः
Verse 9
किं  स्मरसितद्युद्धेप्रथमेमत्पराक्रमम् निबद्धस्त्वंसहभ्रात्रायदाभुविविचेष्टसे
Verse 10
युवांखलुमहायुद्धेशक्रानिसमैश्शरैः शायितौप्रथमंभूमौविसंज्ञौसपुरस्सरौ
Verse 11
स्मृतिर्वानास्तितेमन्येव्यक्तंवायमसादनम् गन्तुमिच्छसियस्मात्त्वमंधर्षयितुमिच्छसि
Verse 12
यदितेप्रथमेयुद्धे  दृष्टोमत्पराक्रमः अद्यतेदर्शयिष्यामितिष्ठेदानींव्यवस्थितः
Verse 13
इत्युक्त्वासप्तभिर्भाणैरभिविव्याथलक्ष्मणम् दशभिस्तुहनूमन्तंतीक्ष्णधाश्शरोत्तमैः
Verse 14
ततःशरशतेनैवसुप्रयुक्तेनवीर्यवान् क्रोथाव्दिगुणसम्रब्धोनिर्बिभेदविभीषणम्
Verse 15
तद्दष्टवेन्द्रजिताकर्मकृतंरामानुजस्तदा अचिन्तयित्वाप्रहसन्नैतत्किञ्चिदितिब्रुवन् मुमोच  शरान् घोरान् सम्गृह्यनरपुङ्गवः अभीतवदनःक्रुद्धोरावणिंलक्ष्मणोयुधि
Verse 16
तद्दष्टवेन्द्रजिताकर्मकृतंरामानुजस्तदा अचिन्तयित्वाप्रहसन्नैतत्किञ्चिदितिब्रुवन् मुमोच  शरान् घोरान् सम्गृह्यनरपुङ्गवः अभीतवदनःक्रुद्धोरावणिंलक्ष्मणोयुधि
Verse 17
नैवंरणगताःशूराःप्रहरन्तिनिशाचर लघवश्चाल्पवीर्याश्चशरासुखास्तवहीमे
Verse 18
नैवंशूरास्तुयुध्यन्तेसमरेजयकाङ्क्षिणः इत्येवंतंब्रुवाणस्तुधन्वीशरैरभिववर्ष 
Verse 19
स्यबाणैस्सुविध्वस्तंकवचंकाञ्चनंमहत् व्यशीर्यतरथोपस्थेताराजालमिव्बारात्
Verse 20
विधूतवर्मानाराचैर्भभूव  कृतव्रणः इन्द्रजित्समरेवीरःप्रत्यूषेभानुमानिव
Verse 21
ततःशरसहस्रेणसङ्क्रुद्धोरावणात्मजः बिभेदसमरेवीरोलक्ष्मणंभीमविक्रमः
Verse 22
व्यशीर्यतमहद्धिव्यंकवचंलक्ष्मणस्य  कृतप्रतिकृतान्योन्यंबभूवतुरभिद्रुतौ
Verse 23
अभीक्ष्णंनिश्श्वसन्तौतौयुध्येतांतुमुलंयुधि शरसङ्कृत्तसर्वाङ्गौसर्वतोरुधिरोक्षितौ
Verse 24
सुदीर्घकालंतौवीरावन्योन्यनिशितैःशरैः ततक्षतुर्महात्मानौरणकर्मविहारदौ
Verse 25
बभूवतुश्चात्मजयेयत्तौभीमपराक्रमौ तौशरौघैस्तदाकीर्णौनिकृत्तकवचध्वजौ सृजन्तौरुधिरंचोष्णंजलंप्रस्रवणाविव
Verse 26
शरवर्षंततोघोरंमुञ्चतोर्भीमनिःस्वनम् सासारयोरिवाकाशेनीलयोःकालमेघयोः तयोरथमहान्कालोव्यत्ययाद्युध्यमानयोः   तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः
Verse 27
शरवर्षंततोघोरंमुञ्चतोर्भीमनिःस्वनम् सासारयोरिवाकाशेनीलयोःकालमेघयोः तयोरथमहान्कालोव्यत्ययाद्युध्यमानयोः   तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः
Verse 28
अस्त्राण्यस्त्रविदांश्रेष्ठौदर्शयन्तौपुनःपुनः शरानुच्छावचाकारानन्तरिक्षेबबन्धतुः
Verse 29
न्यपेतदोषमस्यन्तौलघुचित्रं  सुष्ठु  उभौतुतुमुलंघोरंचक्रतुर्नरराक्षसौ
Verse 30
तयोःपृथक् पृथभगीमश्शुश्रुवेतलनिस्स्वनः प्रकम्पयन्जनंघोरोनिर्घातइवदारुणः
Verse 31
सतयोःभ्राजतेशब्दस्तदासमरयत्तयोः सुघोरयोर्निष्टनतोर्गगनेमेघयोरिव
Verse 32
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौकृतव्रणौ प्रसुस्रुवातेरुधिरंकीर्तिमन्तौजयेधृतौ
Verse 33
तेगात्रयोर्निपतितारुक्मपुङ्खाःशरायुधि असृदगिग्धाविनिष्पेतुर्विविशुर्धरणीतलम्
Verse 34
अन्येसुनिशितैश्शस्त्रैराकाशेसञ्जघट्टिरे बभञ्जुश्चिच्छिदुश्चैवतयोर्बाणाःसहस्रशः
Verse 35
सबभूवरणेघोरस्तयोर्बाणमयश्चयः अग्निभ्यामिवदीप्ताभ्यांसत्रेकुशमयश्चयः
Verse 36
तयोःकृतव्रणौदेहौशुशुभातेमहात्मनोः सुपुष्पाविवनिष्पत्रौवनेशाल्मलिकिंशुकौ
Verse 37
चक्रतुस्तुमुलंघोरंसन्निपातंमुहुर्मुहुः इन्द्रजिल्लक्ष्मणश्चैवपरस्परवधैषिणौ
Verse 38
लक्ष्मणोरावणिंयुद्धेरावणिश्चापिलक्ष्मणम् अन्योन्यंतावभिघ्नन्तौ  श्रमंप्रतिपद्यताम्
Verse 39
बाणजालैश्शरीरस्थैरवगाढैस्तरस्विनौ शुशुभातेमहावीर्यौप्ररूढाविवपर्वतौ
Verse 40
तयोरुधिरसिक्तानिसम्वृतान्तिशरैर्भृशम् बभ्राजुःसर्वगात्राणिज्वलन्तइवपावकाः
Verse 41
तयोरथमहान् कालोव्यतीयाद्युध्यमानयोः   तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः
0:000:00
Speed: