Book 6 • Chapter 91
Sarga 91
96 verses
Verse 1
स हताश्वोमहातेजाभूमौतिष्ठन्निशाचरः इन्द्रजित्परमक्रुद्धस्सजज्वालतेजसा
Verse 2
तौधवनिनौजिघांसन्तवन्योन्यमिषुभिर्भृशम् विजयेनाभिनिष्क्रान्तौवनेगजवृषाविव
Verse 3
निबर्हयन्तश्चान्योन्यंतेराक्ष्वनौकसः भर्तारं न जहुर्युद्धेसम्पतन्तस्ततस्ततः
Verse 4
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः स्तुवानोहर्षमाणश्चइदंवचनमब्रवीत्
Verse 5
तमसाबहुलेनेमास्सम्सक्तांसर्वतोदिशः नेहविज्ञायतेस्वोवापरोवारक्षसोत्तमाः
Verse 6
धृष्टंभवन्तोयुध्यन्तुहरीणांमोहनायवै अहंतुरथमास्थायआगमिष्यामिसंयुगे
Verse 7
तथाभवन्तःकुर्वन्तुयथेमेहिवनौकसः न युध्येयुर्दुरात्मानःप्रविष्टेनगरंमयि
Verse 8
इत्युक्त्वारावणसुतोवञ्चयित्वावनौकसः प्रविवेशपुरींलङ्कांरथहेतोरमित्रहा
Verse 9
स रथंभूषयित्वाथरुचिरंहेमभूषितम् प्रासासिशरसंयुक्तंयुक्तंपरमवाजिभिः अधिष्ठितंहयज्ञेनसूतेनाप्तोपदेशिना आरुरोहमहातेजारावणिःसमतिञ्जियः
Verse 10
स रथंभूषयित्वाथरुचिरंहेमभूषितम् प्रासासिशरसंयुक्तंयुक्तंपरमवाजिभिः अधिष्ठितंहयज्ञेनसूतेनाप्तोपदेशिना आरुरोहमहातेजारावणिःसमतिञ्जियः
Verse 11
स राक्षसगणैर्मुख्यैर्वृतोमन्दोदरीसुतः निर्ययौनगरावदीरःकृतान्तबलचोदितः
Verse 12
सोऽभिनिष्क्रम्यनगरादिन्द्रजित्परवीरहा अभ्ययाज्ञवनैरश्वैर्लक्ष्मणंसविभीषणम्
Verse 13
ततोरथस्थमालोक्यसौमत्रीरावणात्मजम् वानराश्चमहावीर्याराक्षसश्चविभीषणः विस्मयंपरमंजग्मुर्लाघवात्तस्यधीमतः
Verse 14
रावणिश्चापिसङ्क्रुद्धोरणेवानरयूथपान् पातयामासबाणौघैःशतशोऽथसहस्रशः
Verse 15
मण्डलीकृतधनूरावणिःसमतिञ्जयः हरीनभ्यहनत्कृद्धःपरंलाघवमास्थितः
Verse 16
तेवध्यमानाहरयोनाराचैर्भीमविक्रमैः सौमित्रिंशरणंप्राप्ताःप्रजापतिमिवप्रजाः
Verse 17
ततःसमरकोपेनज्वलितोरघुनन्दनः चिच्छेदकार्मुकंतस्यदर्शयन् पाणिलाघवम्
Verse 18
सोन्यऽत्कार्मुकम् मादायसज्जंचक्रेत्वरन्निव तदप्यस्यत्रिभिर्बाणैर्लक्ष्मणोनिरकृन्तत
Verse 19
अथैवंछिन्नधन्वानमाशीविषविषोपमैः विव्याधोरसिसौमित्रीरावणिंपञ्चभिःशरैः
Verse 20
तेतस्यकायंनिर्भिद्यमहाकार्मुकनिस्सृताः निपेतुर्धरणींबाणारक्ताइवमहोरगाः
Verse 21
भिन्नवर्मारुधिरंवमन्वक्त्रेणरावणिः जग्राहकार्मुकश्रेष्ठंदृढज्यंबलवत्तरम्
Verse 22
सःलक्ष्मणंसमुद्धिश्यपरंलाघवमाश्रितः ववर्षशरवर्षाणिवर्षाणीवपुरन्दरः
Verse 23
मुक्तमिन्द्रजितातत्तुशरवर्षमरिन्दमः अवारयदसम्भ्रान्तोलक्ष्मणःसुदुरासदम्
Verse 24
संदर्शयामासतदारावणिंरघुनन्दनः असम्ब्रान्तोमहातेजेस्तदद्भुतमिवाभवत्
Verse 25
तस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे अविध्यत्परमक्रुद्धश्शीघ्रास्त्रंसम्प्रदर्शयन् राक्षसेन्द्रसुतंचापिबाणौघैस्समताडयत्
Verse 26
तस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे अविध्यत्परमक्रुद्धश्शीघ्रास्त्रंसम्प्रदर्शयन् राक्षसेन्द्रसुतंचापिबाणौघैस्समताडयत्
Verse 27
सोऽतिविद्धोबलवताशत्रुणाशत्रुघातिना असक्तंप्रेषयामासलक्ष्मणायबहून् शरान्
Verse 28
तानप्राप्तान् शितैर्भाणैश्चिच्छेदपरवीरहा सारथेरस्य च रणेरथिवोरघुसत्तमः शिरोजहारधर्मात्माभल्लेनानतपर्वणा
Verse 29
सूतास्तेहयास्तत्ररथमूहुरविक्लबाः मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत्
Verse 30
अमर्षवशमापन्नःसौमित्रिर्दृढविक्रमः प्रत्यविद्ध्यद्धयांस्तस्यशरैर्वित्रासयन् रणे
Verse 31
अमर्षमाणस्तत्कर्मरावणस्यसुतोबली विव्याथदशभिर्बाणैस्सौमित्रिंतममर्षणम्
Verse 32
तेतस्यवज्रप्रतिमाःशरास्सर्पविषोपमाः विलयंजग्मुरागत्यकवचंकाञ्चनप्रभम्
Verse 33
अभ्येद्यकवचंमत्वालक्ष्मणंरावणात्मजः ललाटेलक्ष्मणंबाणैस्सुपुङ्खैस्त्रिभिरिन्द्रजित् अविध्यत्परमक्रुद्धःशीघ्रमस्त्रंप्रदर्शयन्
Verse 34
अभ्येद्यकवचंमत्वालक्ष्मणंरावणात्मजः ललाटेलक्ष्मणंबाणैस्सुपुङ्खैस्त्रिभिरिन्द्रजित् अविध्यत्परमक्रुद्धःशीघ्रमस्त्रंप्रदर्शयन्
Verse 35
तैःपृषत्कैर्ललाटस्थैश्शुशुभेरघुनन्दनः रणाग्रेसमरश्लाघीत्रिशृङ्गइवपर्वतः
Verse 36
स तथाह्यर्दितोबाणैराक्षसेनतदामृधे तमाशुप्रतिविव्याधलक्ष्मणःपञ्चभिःशरैः विकृष्वेन्द्रजितोयुद्धेवदनेशुभकुण्डले
Verse 37
लक्ष्मणेन्द्रजितौवीरौमहाबलशरासनौ अन्योन्यंजघ्नतुर्बाणैर्विशिखैर्मीविक्रमौ
Verse 38
ततःशोणितदिग्धाङ्गौलक्ष्मणेन्दजितावुभौ रणेतौराजतुर्वीरौपुष्पिताविवकिंशुकौ
Verse 39
तौपरस्परमभ्येत्यसर्वगात्रेषुधवनिनौ घोरैर्विव्यधतुर्भाणैःकृतभावावुभौजये
Verse 40
ततःसमरकोपेनसम्वृतोरावणात्मजः विभीषणंत्रिभिर्बाणैर्विव्याथवदनेशुभे
Verse 41
अयोमुखैस्त्रिभिर्विद्ध्वाराक्षसेन्द्रंविभीषणम् एकैकेनाभिविव्याथतान्सर्वान् हरियूथपान्
Verse 42
तस्मैदृढतरंक्रुद्धोजघानगदयाहयान् विभीषणोमहातेजारावणेस्सदुरात्मनः
Verse 43
पहताश्वादवाप्लुत्यरथान्निहतसारथे: रथशक्तिंमहातेजाःपितृव्यायमुमोच ह
Verse 44
तामापततनींसम्प्रेक्ष्यसुमित्रानन्दवर्धनः चिच्छेदनिशितैर्बाणैर्धशथापातयद्भुवि
Verse 45
तस्मैदृढतनुःक्रुद्धोहताश्वायविभीषणः वज्रस्पर्शसमान् पञ्चससर्जोरसिसायकान्
Verse 46
तेतस्यकायंभित्वातुरुक्मपुङ्खानिमित्तगाः बभूवुर्लोहितादिग्धारक्ताइवमहोरगाः
Verse 47
सःपितृव्यस्यसङ्क्रुद्धःइन्द्रजिच्छरमाददे उत्तमंरक्षसांमध्येयमदत्तंमहाबलम्
Verse 48
तंसमीक्ष्यमहातेजामहेषुंतेनसंहितम् लक्ष्मणोऽप्याददेबाणमद्यभदीमपराक्रमः
Verse 49
कुबेरेणस्वयंस्वप्नेयद्दत्तममितात्मना दुर्जयंदुर्विषह्यं च सेन्द्रैरपिसुरासुरैः
Verse 50
तयोस्तुधनुषीश्रेष्ठेबाहुभिःपरिघोपमैः विकृष्यमाणेबलवत् क्रौञ्चविवचुकूजतुः
Verse 51
ताभ्यांतुधनुषिश्रेष्ठेसंसितौसायकोत्तमौ विकृष्यमाणेवीराभ्यांभृशंजज्वलतुःश्रिया
Verse 52
तौभासयन्तावाकाशंधनुर्भ्यांविशिखौच्युतौ मुखेनमुखमाहत्यसन्निपेततुरोजसा
Verse 53
सन्निपातस्तयोश्चासीच्छरयोर्घोररूपयोः सधूमविस्फुलिङ्गश्चतज्जोऽनगिर्दारुणोऽभवत्
Verse 54
तौमहाग्रहसङ्काशावन्योन्यंसन्निपत्य च सङ्ग्रामेशतधायातौमेदिन्यांचैवपेततुः
Verse 55
शरौप्रतिहतौदृष्टवातावुभौरणमूर्धनि व्रीडितौजातरोषौ च लक्ष्मणेन्द्रजितौतदा
Verse 56
सुसंरर्ब्धस्तुसौमित्रिरस्त्रंवारुमाददे रौद्रंमहेन्द्रजिद्युद्धेऽप्यसृजद्युद्धनिष्ठितः
Verse 57
तेनतद्विहतंशस्त्रंवारुणंपरमाद्भुतम् ततःक्रुद्धोमहातेजाइन्द्रजित्समितिञ्जयः आग्नेयंसन्दधेदीप्तं स लोकंसङ्क्षिपन्निव
Verse 58
तेनतद्विहतंशस्त्रंवारुणंपरमाद्भुतम् ततःक्रुद्धोमहातेजाइन्द्रजित्समितिञ्जयः आग्नेयंसन्दधेदीप्तं स लोकंसङ्क्षिपन्निव
Verse 59
सौरेणास्त्रणतवदीरोलक्ष्मणःपर्यवारयत् अस्त्रंनिवारितंदृष्टवारावणिःक्रोथमूर्छितः आददेनिशितंबाणमासुरंशत्रुदारुणम्
Verse 60
तस्माच्चापाद्विनिष्पेतुर्भास्वराःकूटमुद्गराः शूलानि च मुशुण्ड्यश्चगदाःखङ्गा: परश्वथा:
Verse 61
तद्दृष्टवालक्ष्मणःसङ्ख्येघोरमस्त्रंसुदारुणम् अवार्यंसर्वभूतानांसर्वशस्त्रविदारणम् महेश्वरेणद्युतिमांस्तदस्त्रंप्रत्यवारयत्
Verse 62
तद्दृष्टवालक्ष्मणःसङ्ख्येघोरमस्त्रंसुदारुणम् अवार्यंसर्वभूतानांसर्वशस्त्रविदारणम् महेश्वरेणद्युतिमांस्तदस्त्रंप्रत्यवारयत्
Verse 63
तयोःसमुतुलंयुद्धंसम्बभूवारोमहर्षणम् गगनस्थानिभूतानिलक्ष्मणंपर्यवारयन्
Verse 64
भैरवाभिरुतेभीमेयुद्धेवानरक्षसाम् भूतैर्बहुभिराकाशंविस्मितैरावृतंबभौ
Verse 65
ऋषयःपितरोदेवागन्धर्वगरुडोरगाः शतक्रतुंपुरस्कृत्यररक्षुर्लक्ष्मणंरणे
Verse 66
अथान्यंमार्गणश्रेष्ठंसन्दधेराघवानुजः हुताशनसमस्पर्शंरावणात्मजदारणम्
Verse 67
सुपत्रमनुवृत्ताङ्गंसुपर्वाणंसुसंस्थितम् सुवर्णविकृतंवीरश्शरीरान्तकरंशरम् दुरावारंदुर्विषहंराक्षसानांभयावहम् आशीविषविषप्रख्यंदेवसङ्घैःसमर्चितम्
Verse 68
सुपत्रमनुवृत्ताङ्गंसुपर्वाणंसुसंस्थितम् सुवर्णविकृतंवीरश्शरीरान्तकरंशरम् दुरावारंदुर्विषहंराक्षसानांभयावहम् आशीविषविषप्रख्यंदेवसङ्घैःसमर्चितम्
Verse 69
येनशक्रोमहातेजादानवानजत्प्रभुः पुरादेवासुरेयुद्धेवीर्यवान् हरिवाहनः
Verse 70
तदैन्द्रमस्त्रंसौमित्रिःसम्युगेष्वपराजितम् शरश्रेष्ठंधनु: श्रेष्ठेविकर्षन्निदमिब्रवीत् लक्ष्मीवान् लक्ष्मणोवाक्यमर्थसाधकमात्मनः
Verse 71
धर्मात्मासत्यसन्धश्चरामोदाशरथिर्यति पौरुषेचाप्रतिद्वन्द्वःशरैनंजसिरावणिम्
Verse 72
इत्युक्त्वाबाणमाकर्णंविकृष्यतमजिह्मगम् लक्ष्मणःसमरेवीरःससर्जेन्द्रजितंप्रति
Verse 73
ऐन्द्रास्त्रेणसमायुज्यलक्ष्मणःपरवीरहा ततशिरःसशिरस्त्राणंश्रीमज्ज्वलितकुण्डलम् प्रमथ्येन्द्रजितःकायात्पातयामासभूतले
Verse 74
ऐन्द्रास्त्रेणसमायुज्यलक्ष्मणःपरवीरहा ततशिरःसशिरस्त्राणंश्रीमज्ज्वलितकुण्डलम् प्रमथ्येन्द्रजितःकायात्पातयामासभूतले
Verse 75
तद्राक्षसतनूजस्यभिन्नस्कन्धंशिरोमहत् तपनीयनिभंभूमौददृशेरुधिरोक्षितम्
Verse 76
हतः स निपपाताथधरण्यांरावणात्मजः कवचीसशिरस्त्राणोविद्धस्थशरासनः
Verse 77
चुक्रुशुस्तेततःसर्वेवानराःसविभीषणाः हृष्यन्तोनिहतेतस्मिन् देवावृत्रवधेयथा
Verse 78
अथान्तरिक्षेभूतानामृषीणां च महात्मनाम् जज्ञेऽथजयसन्नादोगन्धर्वाप्सरसामपि
Verse 79
पतितंतमभिज्ञायराक्षसीसामहाचमूः वध्यमानादिशोभेजेहरिभिर्जितकाशिभिः
Verse 80
वानरैर्वध्यमानास्तेशस्त्रानुत्सृज्यराक्षसाः लङ्कामभिमुखास्सस्रुर्भ्रष्टसंज्ञाःप्रधाविताः
Verse 81
दुद्रुवुर्भहुधाभीताराक्षसाश्शतशोदिशः त्यक्त्वाप्रहरणान्सर्वेपट्टसासिपरश्वधान्
Verse 82
केचिल्लङ्कांपरित्रस्ताःविष्टावानरार्दिताः समुद्रेपतिताःकेचित्केचित्पर्वतमाश्रिताः
Verse 83
हतमिन्द्रजितंदृष्टवाशयानं च रणक्षितौ राक्षसानांसहस्रेषु न कश्चित्प्रत्यदृश्यत
Verse 84
यथास्तङ्गतआदित्येनावतिष्ठन्तिरश्मयः तथातस्मिन्निपतितेराक्षसास्तेगतादिशः
Verse 85
शान्तरश्मिरिवादित्योनिर्वाणइवपावकः बभूव स महाबाहुर्व्यपास्तगतजीवितः
Verse 86
प्रशान्तपीडाबहुलोविनष्टारिःप्रहर्षवान् बभूवलोकःपतितेराक्षसेन्द्रसुतोतदा
Verse 87
हर्षं च शक्रोभगवान् सहसर्वैर्महर्षिभिः जगामनिहतेतस्मिन्राक्षसेपापकर्मणि
Verse 88
आकाशेचापिदेवानांशुश्रुवेदुन्दुभिस्वनः नृत्यद्भिरप्सरोभिश्चगन्धर्वैश्चमहात्मभिः
Verse 89
ववर्षुःपुष्पवर्षाणितदद्भुतमिवाभवत् प्रशशंसुर्हतेतस्मिन्राक्षसेक्रूरकर्मणि
Verse 90
शुद्धाआपोनभश्चैवजहृषुर्देवदानवाः आजग्मुःपतितेतस्मिन्सर्वलोकभयावहे
Verse 91
ऊचुश्चसहितास्तुष्टादेवगन्धर्वदानवाः विज्वराश्शान्तकलुषाब्राह्मणाविचरन्त्विति
Verse 92
ततोऽभ्यनन्दन्सम्हृष्टास्समरेहरियूथपाः तमप्रतिबलंदृष्टवाहतंनैरृतपुङ्गवम्
Verse 93
विभीषणोहनूमांश्चजाम्बवांश्चर्क्षयूथपः विजयेनाभिनन्दन्तसुष्टुवुश्चापिलक्ष्मणम्
Verse 94
क्ष्वेळन्तश्चप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः लब्दलक्षारघुसुतंपरिवार्योपतस्थिरे
Verse 95
लाङ्गूलानिप्रविध्यन्तस्स्फोटयन्तश्चवानराः लक्ष्मणोजयतीत्येवंवाक्यंविश्रावयंस्तदा
Verse 96
अन्योन्यं च समालशिष्यहरयोहृष्टमानसाः चक्रुरुच्चावगुणाराघवाश्रयसजा: कथा:
0:000:00
Speed: