Book 6 • Chapter 93
Sarga 93
67 verses
Verse 1
ततःपौलस्त्यसचिवा्श्रुत्वाचेन्द्रजितोवधम् आचचक्षुरभिज्ञायदशग्रीवायसव्यथा:
Verse 2
युद्धेहतोमहाराजलक्ष्मणेनतवात्मजः विभीषणसहायेनमिषतांनोमहाद्युतिः
Verse 3
शूरंशूरेणसम्गम्यसम्युगेष्वपराजितः लक्ष्मणेनहतश्शूरःपुत्रस्तेमहेन्द्रजित् गतस्सपरमान्लोकान्शरैस्सन्ताप्यलक्ष्मणम्
Verse 4
स तंप्रतिभयंश्रुत्वावधंपुत्रस्यदारुणम् घोरमिन्द्रजितःसङ्ख्येकश्मलंप्राविशन्महत्
Verse 5
उपलभ्यचिरात्संज्ञां राजाराक्षसपुङ्गव पुत्रशोकाकुलोदीनोविललापाकुलेन्द्रियः
Verse 6
हाराक्षसचमूमुख्यममवत्समहाबल जित्वेन्द्रंकथमद्यत्वंलक्ष्मणस्यवशंगतः
Verse 7
ननुत्वमिषुभिःक्रुद्धोभिन्द्याःकालान्तकावपि मन्दरस्यापिशृङ्गाणिकिंपुनर्लक्ष्मणंयुधि
Verse 8
अद्यवैनस्वतोराजाभूयोबहुमतोमम येनाद्यत्वंमहाबाहो संयुक्तःकालधर्मणा
Verse 9
एषपन्थाःसुयोधानांसर्वामरगणेष्वपि यःकृतेहन्यतेभर्तुस्सपुमान्स्वर्गमृच्छति
Verse 10
अद्यदेवगणास्सर्वेलोकपालामहर्षयः हतमिन्द्रजितंदृष्टवासुखंस्वप्स्यन्तिनिर्भयाः
Verse 11
अद्यलोकास्त्रय: कृत्स्नापृथिवी च सकानना एकेनेन्द्रजिताहीनाशून्येवप्रतिभातिमे
Verse 12
अद्यनैरृतकन्यानांश्रोष्याम्यन्तःपुरेरवम् करेणुसङ्घस्ययथानिनादंगिरिगह्वरे
Verse 13
यौवराज्यं च लङ्कां च रक्षांसि च परन्तप मातरंमां च भार्याश्चक्वगतोऽसिविहायनः
Verse 14
ममनामत्वयावीरगतस्ययमसादनम् प्रेतकार्याणिकार्याणिविपरीतेहिवर्तसे
Verse 15
स त्वंजीवतिसुग्रीवेलक्ष्मणेन च राघवे ममशल्यमनुद्धृत्यक्वगतोऽसिविहायनः
Verse 16
एवमादिविलापार्तंरावणंराक्षसाधिपम् आविवेशमहान् कोपःपुत्रव्यसनसम्भवः
Verse 17
प्रकृत्याकोपनंह्येनंपुत्रस्यपुनराधयः दीप्तंसन्दीपयामासुर्घर्मेऽर्कमिवरश्मयः
Verse 18
ललाटेभ्रुकुटीभिश्चसङ्गताभिर्व्यरोचत युगान्तेसहनक्रैस्तुमहोर्मिभिरिवोदधिः
Verse 19
कोपाद्विजृम्भमाणस्यवक्त्राद्व्यक्तमिवज्वलन् उत्पपातसधूमानगिर्वृत्रस्यवदनादिव
Verse 20
स पुत्रवधसन्तप्तश्शूरःक्रोधवशंगतः समीक्ष्यरावणोबुद्ध्यावैदेह्यारोचयद्वधम्
Verse 21
तस्यप्रकृत्यारक्ते च रक्तेक्रोथानगिनापि च रावणस्यमहाघोरेदीप्तेनेत्रेबभूवतुः
Verse 22
घोरंप्रकृत्यारूपंतत्तस्यक्रोधाग्निमूर्छितम् बभूवरूपंक्रुद्धस्यरुद्रस्येवदुरासदम्
Verse 23
तस्यक्रुद्धस्यनेत्राभ्यांप्रापतन्नाश्रृबिन्दवः दीपाभ्यामिवदीप्ताभ्यांसार्चिषस्स्नेहबिन्दवः
Verse 24
दन्तावनिदशतस्तस्यश्रूयतेदशनस्वनः यन्त्रस्यावेष्ट्यमाणस्य महतो दानवैरिव
Verse 25
कालानगिरिवसङ्क्रुद्धोयांयांदिशमवैक्षत तस्यांतस्यांभयत्रस्ताराक्षसास्सन्विलियलिरे
Verse 26
तमन्तकमिवक्रुद्धंचराचरचिखादिषुम् वीक्षमाणंदिशस्सर्वाराक्षसानोपचक्रमुः
Verse 27
ततःपरमसङ्क्रुद्धोरावणोराक्षसाधिपः अब्रवीद्रक्षसांमध्येसंस्तम्भयिषुराहवे
Verse 28
मयावर्षसहस्राणिचरित्वापरमंतपः तेषुतेष्ववकाशेषुस्वयम्भूःपरितोषितः
Verse 29
तस्यैवतपसोव्युष्ट्याप्रसादाच्छस्वयम्भुवः नासुरेभ्यो न देवेभ्योभयंममकदाचन
Verse 30
कवचंब्रह्मदत्तंमेयदादित्यसमप्रभम् देवासुरविमर्धेषु न भिन्नंवज्रमुष्टिभिः
Verse 31
तेनमामद्यसम्युक्तंरथस्थमिहसम्युगे प्रतीयात्कोऽद्यमामाजौसाक्षादपिपुरन्दरः
Verse 32
त्तदातिप्रसन्नेनसशरंकार्मुकंमहत् देवासुरविमर्धेषुममदत्तंस्वयम्भुवा अद्यतूर्यशतैर्भीमंधनुरुत्थाप्यतांमम रामलक्ष्मणयोरेववधायपरमाहवे
Verse 33
त्तदातिप्रसन्नेनसशरंकार्मुकंमहत् देवासुरविमर्धेषुममदत्तंस्वयम्भुवा अद्यतूर्यशतैर्भीमंधनुरुत्थाप्यतांमम रामलक्ष्मणयोरेववधायपरमाहवे
Verse 34
स पुत्रवधसन्तप्तःक्रूरःक्रोधवशंगतः समीक्ष्यरावणोबुद्ध्यासीतांहन्तुंव्यवस्यत
Verse 35
प्रत्यवेक्ष्यताम्राक्षस्सुघोरोघोरदर्शनः दीनोदीनस्वरान्सर्वांस्तानुवाचनिशाचरान्
Verse 36
माययाममवत्सेनवञ्चनार्थंवनौकसाम् किञ्चिदेवहतंतत्रसीतेयमितिदर्शितम्
Verse 37
तदिदंतथ्यमेवाहंकरिष्येप्रियमात्मनः वैदेहींनाशयिष्यामिक्षत्रबन्धुमनुव्रताम् इत्येवमुक्त्वासचिवान्खङ्गमाशुपरामृशत्
Verse 38
तदिदंतथ्यमेवाहंकरिष्येप्रियमात्मनः वैदेहींनाशयिष्यामिक्षत्रबन्धुमनुव्रताम् इत्येवमुक्त्वासचिवान्खङ्गमाशुपरामृशत्
Verse 39
उत्प्लुत्यगुणसम्पन्नंविमलाम्बरवर्चसम् निष्पपात स वेगेनसभार्यःसचिवैर्वृतः रावणःपुत्रशोकेनभृशमाकुलचेतनः सङ्क्रुद्धःखडगमादायसहसायत्रमैथिली
Verse 40
उत्प्लुत्यगुणसम्पन्नंविमलाम्बरवर्चसम् निष्पपात स वेगेनसभार्यःसचिवैर्वृतः रावणःपुत्रशोकेनभृशमाकुलचेतनः सङ्क्रुद्धःखडगमादायसहसायत्रमैथिली
Verse 41
व्रजन्तंराक्षसंप्रेक्ष्यसिंहनादंविचक्रुशुः ऊचुश्चान्योन्यमालिङ्ग्यसङ्क्रुद्धंप्रेक्ष्यराक्षसम्
Verse 42
अद्यैनंतावुभौदृष्टवाभ्रातरौप्रव्यधिष्यतः लोकपालाहिचत्वारःक्रुद्धेनानेनतर्जिताः बहवःशत्रवश्चान्येसम्युगेष्वभिपातिताः
Verse 43
त्रिषुलोकेषुरत्नानिभुङक्तेचाहृत्यरावणः विक्रमे च बलेचैवनास्त्यस्यसदृशोभुवि
Verse 44
तेषांसञ्जल्पमानामशोकवनिकांगताम् अभिदुद्राववैदेहींरावणःक्रोधमूर्छितः
Verse 45
वार्यमाणःसुसङ्क्रुद्धःसुहृद्भिर्हितबुद्धिभिः अभ्यधावतसङ्क्रुद्धःखेग्रहोरोहिणीमिव
Verse 46
मैथिलीरक्ष्यमाणातुराक्षसीरनिन्दिता ददर्शराक्षसंक्रुद्धंनिस्त्रिंशवरधारिणम् तंनिशाम्यसविस्त्रिंशंव्यथिताजनकात्मजा निवार्यमाणंबहुशःसुहृद्भिरनिवर्तिनम्
Verse 47
मैथिलीरक्ष्यमाणातुराक्षसीरनिन्दिता ददर्शराक्षसंक्रुद्धंनिस्त्रिंशवरधारिणम् तंनिशाम्यसविस्त्रिंशंव्यथिताजनकात्मजा निवार्यमाणंबहुशःसुहृद्भिरनिवर्तिनम्
Verse 48
सीतादुःखसमाविष्टाविलपन्तीदमब्रवीत् यथायंमामभिक्रुद्धःसमभिद्रवतिस्वयम् वधिष्यतिसनाथांमामनाथामिवदुर्मतिः
Verse 49
सीतादुःखसमाविष्टाविलपन्तीदमब्रवीत् यथायंमामभिक्रुद्धःसमभिद्रवतिस्वयम् वधिष्यतिसनाथांमामनाथामिवदुर्मतिः
Verse 50
बहुशश्चोदयामासभर्तारंमामनुव्रताम् भार्याभवरमस्वेतिप्रत्याख्यातोध्रुवंमया सोऽयंमामनुपस्थानेव्यक्तंनैराश्यमागतः क्रोधमोहसमाविष्टोनिहन्तुंमांसमुद्यतः
Verse 51
बहुशश्चोदयामासभर्तारंमामनुव्रताम् भार्याभवरमस्वेतिप्रत्याख्यातोध्रुवंमया सोऽयंमामनुपस्थानेव्यक्तंनैराश्यमागतः क्रोधमोहसमाविष्टोनिहन्तुंमांसमुद्यतः
Verse 52
अथवातौनरव्याघ्रौभ्रातरौरामलक्ष्मणौ मन्निमित्तमनार्येणसमरेऽद्यनिपातितौ
Verse 53
भैरवोहिमहान्नादोराक्षसानांश्रुतोमया बहूनामिहहृष्टानांतथाविक्रोशतांप्रियम्
Verse 54
अहोधिङ्मन्निमित्तोऽयंविनाशोराजपुत्रयोः अथवापुत्रशोकेनअहत्यारामलक्ष्मणौ विधमिष्यतिमांरौद्रोराक्षसःपापनिश्चयः
Verse 55
हनूमतस्तुतद्वाक्यं न कृतंक्षुद्रयामया यद्यहंतस्यपृष्ठेवतदायासमनिर्जिता नाद्यैवमनुशोचेयंभर्तुरङ्कगतासती
Verse 56
हनूमतस्तुतद्वाक्यं न कृतंक्षुद्रयामया यद्यहंतस्यपृष्ठेवतदायासमनिर्जिता नाद्यैवमनुशोचेयंभर्तुरङ्कगतासती
Verse 57
मन्येतुहृदयंतस्याःकौसल्यायाःफलिष्यति एकपुत्रायदापुत्रंविनष्टंश्रोष्यतेयुधि
Verse 58
साहिजन्म च बाल्यं च यौवनं च महात्मनः धर्मकार्याणिरूपं च रुदतीसंस्मरिष्यति
Verse 59
निराशानिहतेपुत्रेदत्त्वाश्राद्धमचेतना अग्निमावेक्ष्यतेनूनमापोवापिप्रवेक्ष्यति
Verse 60
धिगस्तुकुब्जामसतींमन्थरांपापनिश्चयाम् यन्निमित्तमिमंशोकंकौसल्याप्रतिपत्स्यते
Verse 61
इत्येवंमैथिलींदृष्टवाविलपन्तींतपस्विनीम् रोहिणीमिवचन्द्रेणविनाग्रहवशंगताम् एतस्मिन्नन्तरेतस्यअमात्यःशीलवान् शुचिः सुपार्श्वोनाममेधावीरावणंरक्षसेश्वरम् निवार्यमाणःसचिवैरिदंवचनमब्रवीत्
Verse 62
इत्येवंमैथिलींदृष्टवाविलपन्तींतपस्विनीम् रोहिणीमिवचन्द्रेणविनाग्रहवशंगताम् एतस्मिन्नन्तरेतस्यअमात्यःशीलवान् शुचिः सुपार्श्वोनाममेधावीरावणंरक्षसेश्वरम् निवार्यमाणःसचिवैरिदंवचनमब्रवीत्
Verse 63
कथंनामदशग्रीव साक्षद्वैश्रवणानुज हन्तुमिच्छसिवैदेहींक्रोधाद्धर्ममपास्य च
Verse 64
वेदविद्याव्रतस्नातःस्वकर्मनिरतस्तथा स्त्रियःकस्माद्वधंवीरमन्यसेराक्षसेश्वर
Verse 65
मैथिलींरूपसम्पन्नांप्रत्यवेक्षस्वपार्थिव तस्मिन्नेवसहास्माभिराहेवक्रोधमुत्सृज
Verse 66
अभ्युत्थानंत्वमद्यैवकृष्णपक्षचतुर्धशीम् कृत्वानिर्याह्यमावास्यांविजयायबलैर्वृतः
Verse 67
शूरःधीमान् रथीखडगीरथप्रवमास्थितः हत्वादाशरथिंरामंभवान् प्राप्स्यसिमैथिलीम्
0:000:00
Speed: