Book 6 • Chapter 94
Sarga 94
38 verses
Verse 1
स प्रविश्यसभांराजादीनःपरमदुःखितः निषपादासनेमुख्येसिंहःक्रुद्धइवश्वसन्
Verse 2
अब्रवीच्च स तान्सर्वान् बलमुख्यान् महाबलः रावणःप्राञ्जलिर्वाक्यंपुत्रव्यसनकर्शितः
Verse 3
सर्वेभवन्तस्सर्वेणहस्त्यश्वेनसमावृताः निर्यान्तुरथसङ्घैश्चपादातैश्चोपशोभिताः
Verse 4
एकंरामंपरिक्षिप्यसमरेहन्तुमर्हथ वर्षन्तश्शरवर्षाणिप्रावृट् कालइवाम्बुदाः
Verse 5
अथवाहंशरैस्तीक्ष्णैर्भिन्नगात्रंमहाहवे भवद्भिःश्वोनिहन्तास्मिरामंलोकस्यपश्यतः
Verse 6
इत्येतद्वाक्यमादायरक्षसेन्द्रस्यराक्षसाः निर्ययुस्तेरथैःशीघ्रैर्नानानीकैश्चसंयुताः
Verse 7
परिघान् पट्टसांश्चैवशरखङ्गपरश्वधान् शरीरान्तकरान् सर्वेचिक्षिपुर्वानरान् प्रति वानराश्चद्रुमान्शैलान्राक्षसान्प्रतिचिक्षिपुः
Verse 8
स सङ्ग्रामोमहाभीमस्सूर्यस्यदयनंप्रति रक्षसांवानराणां च तुमुलस्समपद्यत
Verse 9
तेगदाभिश्चचित्राभिःप्रासैःखडगैःपरश्वधैः अन्योन्यंसमरेजघ्नुस्तदावानरराक्षसाः
Verse 10
एवंप्रवृत्तेसङ्ग्रामेह्यद्भुतंसुमहद्रजः रक्षसांवानराणां च शान्तंशोणितविस्रवैः
Verse 11
मातङ्गरथकूलाश्चवाजिमत्सास्यध्वजद्रुमाः शरीरसङ्घाटवहाःप्रसस्रुःशोणितापगाः
Verse 12
ततस्तेवानराःसर्वेशोणितौघपरिप्लुताः ध्वजवर्मरथानश्वान्नानाप्रहरणानि च आप्लुत्याप्लुत्यसमरेवानरेन्द्राबभञ्चिरे
Verse 13
ततस्तेवानराःसर्वेशोणितौघपरिप्लुताः ध्वजवर्मरथानश्वान्नानाप्रहरणानि च आप्लुत्याप्लुत्यसमरेवानरेन्द्राबभञ्चिरे
Verse 14
केशान् कर्णललाटं च नासिकाश्चप्लवङ्गमाः रक्षसांदशनैस्तीक्ष्णैर्नखैश्चापिव्यकर्तयन्
Verse 15
एकैकंराक्षसंसङ्ख्येशतंवानरपुङ्गवाः अभ्यधावन्तफलिनंवृक्षंशकुनयोयथा
Verse 16
तदागदाभिर्गुर्वीभिःप्रासैःखडगैःपरश्वधैः निर्जघ्नुर्वानरान्घोरान्राक्षसाःपर्वतोपमाः
Verse 17
राक्षसैर्वध्यमानानांवानराणांमहाचमूः शरण्यंशरणंयातारामंदशरथात्मजम्
Verse 18
ततोरामोमहातेजाधनुरादायवीर्यवान् प्रविश्यराक्षसंसैन्यंशरवर्षंववर्ष ह
Verse 19
प्रविष्टंतुतदारामंमेघास्सूर्यमिवाम्बरे नाथिजग्मुर्महाघोरानिर्दहन्तंशराग्निना
Verse 20
कृतान्येवसुघोराणिरामेणरजनीचराः ददृशुस्ते न वैरामंकर्माण्यसुकराणिते
Verse 21
चालयन्तंमहासैन्यंविधमन्तंमहारथान् ददृशुस्ते न वैरामंवातंवनगतंयथा
Verse 22
छिन्नंभिन्नंशरैर्दग्धंप्रभन्नंशस्त्रपीडितम् बलंरामेणददृशुर्नरामंशीघ्रकारिणम्
Verse 23
प्रहरन्तंशरीरेषु न तेपश्यन्तिराघवम् इन्द्रियार्थेषुतिष्ठन्तंभूतात्मानमिवप्रजाः
Verse 24
एषहन्तिगजानीकमेषहन्तिमहारथान् एषहन्तिशरैस्तीक्ष्णैःपदातीस्वाजिभिःसह इतितेराक्षसास्सर्वेरामस्यसदृशान्रणे अन्योन्यंकुपिताजघ्नुस्सादृश्याद्राघवस्यते
Verse 25
एषहन्तिगजानीकमेषहन्तिमहारथान् एषहन्तिशरैस्तीक्ष्णैःपदातीस्वाजिभिःसह इतितेराक्षसास्सर्वेरामस्यसदृशान्रणे अन्योन्यंकुपिताजघ्नुस्सादृश्याद्राघवस्यते
Verse 26
न तेददृशिरेरामंदहन्तमपिवाहिनीम् मोहिताःपरमास्त्रणगान्धर्वेणमहात्मना
Verse 27
तेतुरामसहस्राणिरणेपश्यन्तिराक्षसाः पुनःपश्यन्तिकाकुत्स्थमेकमेवमहाहवे
Verse 28
भ्रमन्तीकाञ्चनींकोटिंकार्मुकस्यमहात्मनः अलातचक्रप्रतिमांददृशुस्ते न राघवम्
Verse 29
शरीरनाभिसत्त्वार्चिश्शरारंनेमिकार्मुकम् ज्याघोषतलनिर्घोषंतेजोबुधदिगुणप्रभम् दिव्यास्त्रगुणपर्यन्तंनिघ्नन्तंयुधिराक्षसान् ददृशूरामचक्रंतत्कालचक्रमिवप्रजाः
Verse 30
शरीरनाभिसत्त्वार्चिश्शरारंनेमिकार्मुकम् ज्याघोषतलनिर्घोषंतेजोबुधदिगुणप्रभम् दिव्यास्त्रगुणपर्यन्तंनिघ्नन्तंयुधिराक्षसान् ददृशूरामचक्रंतत्कालचक्रमिवप्रजाः
Verse 31
अनीकंदशसाहस्रंरथानांवातरम्हसाम् अष्टादशसहस्राणिकुञ्जराणांतरस्विनाम् चतुर्दशसहस्राणिसारोहाणां च वाजिनाम् पूर्णेशतसहस्रेद्वेराक्षसानांपदातिनाम् दिवसस्याष्टभागेनशरैरग्निशिखोपमैः हतात्यान्येकेनरामेणरक्षसांकामरूपिणाम्
Verse 32

Verse 33

Verse 34
तेहताश्वाहतरथाश्शान्ताविमथितध्वजाः अभिपेतुःपुरींलङ्कांहतशेषानिशाचराः
Verse 35
हतैर्गजपदात्यश्वैस्तद्बभूवरणाजिरम् अक्रीडभूमिःक्रुद्धस्यरुद्रस्येवमहात्मनः
Verse 36
ततोदेवास्कसगन्धर्वास्सिद्धाश्चपरमर्षयः साधुसावधितिरामस्यतत्कर्मसमपूजयन्
Verse 37
अब्रवीच्छतदारामःसुग्रीवंप्रत्यनन्तरम् विभीषणं च धर्मात्माहनूमन्तं च वानरम् जाम्बवन्तंहरिश्रेष्ठंमैन्दंद्विविदमेव च एतदस्त्रबलंदिव्यंममवात्ऱ्यम्बकस्यवा
Verse 38
अब्रवीच्छतदारामःसुग्रीवंप्रत्यनन्तरम् विभीषणं च धर्मात्माहनूमन्तं च वानरम् जाम्बवन्तंहरिश्रेष्ठंमैन्दंद्विविदमेव च एतदस्त्रबलंदिव्यंममवात्ऱ्यम्बकस्यवा
0:000:00
Speed: