Book 1 • Chapter 32
Sarga 32
26 verses
Verse 1
[Description of the four sons of Brahma and the dynasty of Kusanabha-- enraged Windgod turns the daughters of Kusanabha into humpedback ones. ब्रह्मयोनिर्महानासीत्कुशो नाम महातपा: अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजक:
Verse 2
स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान् वैदर्भ्यां जनयामास चतुरस्सदृशान् सुतान् कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम्
Verse 3
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया तानुवाच कुश: पुत्रान् धर्मिष्ठान् सत्यवादिन:
Verse 4
क्रियतां पालनं पुत्रा: धर्मं प्राप्स्यथ पुष्कलम् ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मता: निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा
Verse 5
क्रियतां पालनं पुत्रा: धर्मं प्राप्स्यथ पुष्कलम् ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मता: निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा
Verse 6
कुशाम्बस्तु महातेजा: कौशाम्बीमकरोत्पुरीम् कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम्
Verse 7
अधूर्तरजसो राम धर्मारण्यं महीपति: चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम्
Verse 8
एषा वसुमती राम वसोस्तस्य महात्मन: एते शैलवरा: पञ्च प्रकाशन्ते समन्तत: 1.32.8
Verse 9
सुमागधी नदी रम्या मगधान् विश्रुताययौ पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते
Verse 10
सैषा हि मागधी राम वसोस्तस्य महात्मन: पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी
Verse 11
कुशनाभस्तु राजर्षि: कन्याशतमनुत्तमम् जनयामास धर्मात्मा घृताच्यां रघुनन्दन
Verse 12
तास्तु यौवनशालिन्यो रूपवत्य स्स्वलङ्कृता: उद्यानभूमिमागम्य प्रावृषीव शतह्रदा: गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वश: आमोदं परमं जग्मुर्वराभरणभूषिता:
Verse 13
तास्तु यौवनशालिन्यो रूपवत्य स्स्वलङ्कृता: उद्यानभूमिमागम्य प्रावृषीव शतह्रदा: गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वश: आमोदं परमं जग्मुर्वराभरणभूषिता:
Verse 14
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि उद्यानभूमिमागम्य तारा इव घनान्तरे
Verse 15
तास्सर्वगुणसम्पन्ना रूपयौवनसंयुता: दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत्
Verse 16
अहं व: कामये सर्वा भार्या मम भविष्यथ मानुषस्त्यज्यतां भावः दीर्घमायुरवाप्स्यथ
Verse 17
चलं हि यौवनं नित्यं मानुषेषु विशेषत: अक्षय्यं यौवनं प्राप्ताः अमर्यश्च भविष्यथ
Verse 18
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मण: अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत्
Verse 19
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम प्रभावज्ञा: स्म ते सर्वा: किमस्मानवमन्यसे
Verse 20
कुशनाभसुतास्सर्वा: समर्थास्त्वां सुरोत्तम स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम्
Verse 21
माभूत्स कालो दुर्मेध: पितरं सत्यवादिनम् नावमन्यस्व धर्मेण स्वयं वरमुपास्महे
Verse 22
पिता हि प्रभुरस्माकं दैवतं परमं हि न: यस्य नो दास्यति पिता स नो भर्ता भविष्यति
Verse 23
तासां तद्वचनं श्रुत्वा वायु: परमकोपन: प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभु:
Verse 24
ता: कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् प्रापतन् भुवि सम्भ्रान्तास्सलज्जा स्सास्रलोचना:
Verse 25
स च ता दयिता दीना: कन्या: परमशोभना: दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत्
Verse 26
किमिदं कथ्यतां पुत्र्य: को धर्ममवमन्यते कुब्जा: केन कृता: सर्वा वेष्टन्त्यो नाभिभाषथ एवं राजा विनिश्श्वस्य समाधिं सन्दधे तत:
0:000:00
Speed: