Book 1 • Chapter 33
Sarga 33
26 verses
Verse 1
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमत: शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत
Verse 2
वायुस्सर्वात्मको राजन् प्रधर्षयितुमिच्छति अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते
Verse 3
पितृमत्यस्स्म भद्रं ते स्वच्छन्दे न वयं स्थिता: पितरं नो वृणीष्व त्वं यदि नो दास्यते तव
Verse 4
तेन पापानुबन्धेन वचनं न प्रतीच्छता एवं ब्रुवन्त्यस्सर्वास्स्म वायुना निहता भृशम्
Verse 5
तासां तद्वचनं श्रुत्वा राजा परमधार्मिक: प्रत्युवाच महातेजा: कन्याशतमनुत्तमम्
Verse 6
क्षान्तं क्षमावतां पुत्र्य: कर्तव्यं सुमहत्कृतम् ऐकमत्यमुपागम्य कुलं चावेक्षितं मम
Verse 7
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा दुष्करं तच्च यत् क्षान्तं त्रिदशेषु विशेषत: यादृशी व: क्षमा पुत्र्यस्सर्वासामविशेषत:
Verse 8
क्षमा दानं क्षमा यज्ञः क्षमा सत्यं हि पुत्रिका: क्षमा यश: क्षमा धर्म: क्षमया निष्ठितं जगत्
Verse 9
विसृज्य कन्या: काकुत्स्थ राजा त्रिदशविक्रम: मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभि: देशकालौ प्रदानस्य सदृशे प्रतिपादनम्
Verse 10
विसृज्य कन्या: काकुत्स्थ राजा त्रिदशविक्रम: मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभि: देशकालौ प्रदानस्य सदृशे प्रतिपादनम्
Verse 11
एतस्मिन्नेव काले तु चूली नाम महातपा: ऊर्ध्वरेताश्शुभाचारो ब्राह्मं तप उपागमत्
Verse 12
तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते सोमदा नाम भद्रं ते ऊर्मिला तनया तदा
Verse 13
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरु:
Verse 14
स च तां कालयोगेन प्रोवाच रघुनन्दन परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्
Verse 15
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्
Verse 16
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपा: ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक
Verse 17
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्
Verse 18
तस्या: प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ब्रह्मदत्त इति ख्यातं मानसं चूलिनस्सुतम्
Verse 19
स राजा सौमदेयस्तु पुरीमध्यवसत्तदा कांपिल्यां परया लक्ष्म्या देवराजो यथा दिवम्
Verse 20
स बुद्धिं कृतवान् राजा कुशनाभस्सुधार्मिक: ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा
Verse 21
तमाहूय महातेजा ब्रह्मदत्तं महीपति: ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना
Verse 22
यथाक्रमं तत: पाणीन् जग्राह रघुनन्दन ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा
Verse 23
स्पृष्टमात्रे तत: पाणौ विकुब्जा विगतज्वरा: युक्ता: परमया लक्ष्म्या बभु: कन्याशतं तदा ृ32
Verse 24
स दृष्ट्वा वायुना मुक्ता: कुशनाभो महीपति: बभूव परमप्रीतो हर्षं लेभे पुन:पुन:
Verse 25
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपति: सदारं प्रेषयामास सोपाध्यायगणं तदा
Verse 26
सोमदाऽपि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् यथान्यायं च गन्धर्वी स्नुषास्ता: प्रत्यनन्दत
0:000:00
Speed: