🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 34

Sarga 34

23 verses

Verse 1
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते  राघव अपुत्र: पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्
Verse 2
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् उवाच परमोदार: कुशो ब्रह्मसुतस्तदा
Verse 3
पुत्रस्ते सदृश: पुत्र भविष्यति सुधार्मिक: गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके  शाश्वतीम्
Verse 4
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् जगामाकाशमाविश्य ब्रह्मलोकं सनातनाम्
Verse 5
कस्य चित्त्वथ कालस्य कुशनाभस्य धीमत: जज्ञे परमधर्मिष्ठो गाधिरित्येव नामत:
Verse 6
 पिता मम काकुत्स्थ गाधि: परमधार्मिक: कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन
Verse 7
पूर्वजा भगिनी चापि मम राघव सुव्रता नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता
Verse 8
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी कौशिकी परमोदारा प्रवृत्ता  महानदी
Verse 9
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम
Verse 10
ततोऽहं हिमवत्पार्श्वे वसामि निरतस्सुखम् भगिन्यां स्नेहसंयुक्त: कौशिक्यां रघुनन्दन
Verse 11
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता पतिव्रता महाभागा कौशिकी सरितां वरा
Verse 12
अहं हि नियमाद्राम हित्वा तां समुपागत: सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा
Verse 13
एषा राम ममोत्पत्तिस्स्वस्य वंशस्य कीर्तिता देशस्य  महाबाहो यन्मां त्वं परिपृच्छसि
Verse 14
गतोऽर्धरात्र: काकुत्स्थ कथा: कथयतो मम निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह न:
Verse 15
निष्पन्दास्तरवस्सर्वे निलीनमृगपक्षिण: नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन
Verse 16
शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम् नक्षत्रतारागहनं ज्योतिर्भिरिव भासते
Verse 17
उत्तिष्ठति  शीतांशुश्शशी लोकतमोनुद: ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो
Verse 18
नैशानि सर्वभूतानि प्रचरन्ति ततस्तत: यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशना:
Verse 19
एवमुक्त्वा महातेजा विरराम महामुनि: साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन्
Verse 20
कुशिकानामयं वंशो महान् धर्मपरस्सदा ब्रह्मोपमा महात्मान: कुशवंश्या नरोत्तमा:
Verse 21
विशेषेण भवानेव विश्वामित्रो महायशा: कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव
Verse 22
इति तैर्मुनिशार्दूलै: प्रशस्त: कुशिकात्मज: निद्रामुपागमच्छ्रीमान् अस्तंगत इवांशुमान्
Verse 23
रामोऽपि सहसौमित्रि: किञ्चिदागतविस्मय: प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते
0:000:00
Speed: