Book 1 • Chapter 35
Sarga 35
24 verses
Verse 1
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभि: निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत
Verse 2
सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय
Verse 3
तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् गमनं रोचयामास वाक्यं चेदमुवाच ह
Verse 4
अयं शोणश्शुभजलोऽगाध: पुलिनमण्डित: कतरेण पथा ब्रह्मन् सन्तरिष्यामहे वयम्
Verse 5
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् एष पन्था मयोद्दिष्टो येन यान्ति महर्षय:
Verse 6
एवमुक्ता महर्षयो विश्वामित्रेण धीमता पश्यन्तस्ते प्रयाता वै वनानि विविधानि च
Verse 7
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्
Verse 8
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् बभूवुर्मुदिता स्सर्वे मुनयस्सह राघवा:
Verse 9
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ततस्स्नात्वा यथान्यायं सन्तर्प्य पितृदेवता: हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धवि: विविशुर्जाह्नवीतीरे शुचौ मुदितमानसा: विश्वामित्रं महात्मानं परिवार्य समन्तत:
Verse 10
तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ततस्स्नात्वा यथान्यायं सन्तर्प्य पितृदेवता: हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धवि: विविशुर्जाह्नवीतीरे शुचौ मुदितमानसा: विश्वामित्रं महात्मानं परिवार्य समन्तत:
Verse 11
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्
Verse 12
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्
Verse 13
चोदितो रामवाक्येन विश्वामित्रो महामुनि: वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे
Verse 14
शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि
Verse 15
या मेरुदुहिता राम तयोर्माता सुमध्यमा नाम्ना मनोरमा नाम पत्नी हिमवत: प्रिया
Verse 16
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतस्सुता उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव
Verse 17
अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्
Verse 18
ददौ धर्मेण हिमवान् तनयां लोकपावनीम् स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया
Verse 19
प्रतिगृह्य ततो देवास्त्रिलोकहितकारिण: गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना
Verse 20
या चान्या शैलदुहिता कन्यासीद्रघुनन्दन उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना
Verse 21
उग्रेण तपसा युक्तां ददौ शैलवरस्सुताम् रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्
Verse 22
एते ते शैलराजस्य सुते लोकनमस्कृते गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव
Verse 23
एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी खं गता प्रथमं तात गतिं गतिमतां वर
Verse 24
सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा सुरलोकं समारूढा विपापा जलवाहिनी
0:000:00
Speed: