Book 1 • Chapter 36
Sarga 36
27 verses
Verse 1
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्
Verse 2
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया दुहितुश्शैलराजस्य ज्येष्ठाया वक्तुमर्हसि विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम्
Verse 3
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा त्रिषु लोकेषु धर्मज्ञ कर्मभि: कैस्समन्विता
Verse 4
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी कथं गङ्गा त्रिपथगा विश्रुता सरिदुत्तमा त्रिषु लोकेषु धर्मज्ञ कर्मभि: कैस्समन्विता
Verse 5
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधन: निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्
Verse 6
पुरा राम कृतोद्वाहो नीलकण्ठो महातपा: दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे
Verse 7
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् न चापि तनयो राम तस्यामासीत् परन्तप
Verse 8
ततो देवास्समुद्विग्ना: पितामहपुरोगमा: यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते
Verse 9
अभिगम्य सुरास्सर्वे प्रणिपत्येदमब्रुवन् देव देव महादेव लोकस्यास्य हिते रत सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि
Verse 10
न लोका धारयिष्यन्ति तव तेजस्सुरोत्तम ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय
Verse 11
न लोका धारयिष्यन्ति तव तेजस्सुरोत्तम ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय
Verse 12
देवतानां वचश्श्रुत्वा सर्वलोकमहेश्वर: बाढमित्यब्रवीत्सर्वान्पुनश्चैवमुवाच ह
Verse 13
धारयिष्याम्यहं तेजस्तेजस्येव सहोमया त्रिदशा: पृथिवी चैव निर्वाणमधिगच्छतु
Verse 14
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमा:
Verse 15
एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्वृषभध्वजम् यत्तेज: क्षुभितं ह्येतत्तद्धरा धारयिष्यति
Verse 16
एवमुक्तस्सुरपति: प्रमुमोच महीतले तेजसा पृथिवी येन व्याप्ता सगिरिकानना
Verse 17
ततो देवा: पुनरिदमूचुश्चाथ हुताशनम् प्रविश त्वं महातेजो रौद्रं वायुसमन्वित:
Verse 18
तदग्निना पुनर्व्याप्तं सञ्जातश्श्वेतपर्वत: दिव्यं शरवणं चैव पावकादित्यसन्निभम् यत्र जातो महातेजा: कार्तिकेयोऽग्निसम्भव:
Verse 19
अथोमां च शिवं चैव देवास्सर्षिगणास्तदा पूजयामासुरत्यर्थं सुप्रीतमनसस्तत:
Verse 20
अथ शैलसुता राम त्रिदशानिदमब्रवीत् समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना
Verse 21
यस्मान्निवारिता चैव सङ्गति: पुत्रकाम्यया अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ
Verse 22
अद्यप्रभृति युष्माकमप्रजास्सन्तु पत्नय: एवमुक्त्वासुरान् सर्वान् शशाप पृथिवीमपि
Verse 23
अवने नैकरूपा त्वं बहुभार्या भविष्यसि न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती
Verse 24
अवने नैकरूपा त्वं बहुभार्या भविष्यसि न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती
Verse 25
तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान्सुरपतिस्तदा गमनायोपचक्राम दिशं वरुणपालिताम्
Verse 26
स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरौ हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वर:
Verse 27
एष ते विस्तरो राम शैलपुत्र्या निवेदित: गङ्गाया: प्रभवं चैव शृणु मे सहलक्ष्मण:
0:000:00
Speed: