Book 1 • Chapter 37
Sarga 37
32 verses
Verse 1
तप्यमाने तपो देवे देवा: सर्षिगणा: पुरा सेनापतिमभीप्सन्त: पितामहमुपागमन्
Verse 2
ततोऽब्रुवन् सुरास्सर्वे भगवन्तं पितामहम् प्रणिपत्य सुरास्सर्वे सेन्द्रास्साग्निपुरोगमा:
Verse 3
यो न स्सेनापतिर्देव दत्तो भगवता पुरा तप: परममास्थाय तप्यते स्म सहोमया
Verse 4
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया संविधत्स्व विधानज्ञ त्वं हि न: परमा गति:
Verse 5
देवतानां वचश्श्रुत्वा सर्वलोकपितामह: सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्
Verse 6
शैल पुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु तस्या वचनमक्लिष्टं सत्यमेतन्न संशय:
Verse 7
इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशन: जनयिष्यति देवानां सेनापतिमरिन्दमम्
Verse 8
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् उमायास्तद्बहुमतं भविष्यति न संशय:
Verse 9
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन प्रणिपत्य सुरास्सर्वे पितामहमपूजयन्
Verse 10
ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् अग्निं नियोजयामासु: पुत्रार्थं सर्वदेवता:
Verse 11
देवकार्यमिदं देव संविधत्स्व हुताशन शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज
Verse 12
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावक: गर्भं धारय वै देवि देवतानामिदं प्रियम्
Verse 13
तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत
Verse 14
समन्ततस्तदा देवीमभ्यषिञ्चत पावक: सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन
Verse 15
तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् अशक्ता धारणे देव तव तेज स्समुद्धतम् दह्यमानाग्निना तेन सम्प्रव्यथितचेतना
Verse 16
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशन: इह हैमवती पादे गर्भोऽयं सन्निवेश्यताम्
Verse 17
श्रुत्वा त्वग्निवचो गङगा तं गर्भमतिभास्वरम् उत्ससर्ज महातेज स्स्रोतोभ्यो हि तदानघ
Verse 18
यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम्
Verse 19
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत मलं तस्याभवत्तत्र त्रपु सीसकमेव च तदेतद्धरणीं प्राप्य नानाधातुरवर्धत
Verse 20
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत मलं तस्याभवत्तत्र त्रपु सीसकमेव च तदेतद्धरणीं प्राप्य नानाधातुरवर्धत
Verse 21
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम्
Verse 22
जातरूपमिति ख्यातं तदा प्रभृति राघव सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम्
Verse 23
तं कुमारं ततो जातं सेन्द्रास्सह मरुद्गणा: क्षीरसंभावनार्थाय कृत्तिकास्समयोजन्
Verse 24
ता: क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ददु: पुत्रोऽयमस्माकं सर्वासामिति निश्चिता:
Verse 25
ततस्तु देवता स्सर्वा: कार्तिकेय इति ब्रुवन् पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशय: 4
Verse 26
तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम्
Verse 27
स्कन्द इत्यब्रुवन् देवा: स्कन्नं गर्भपरिस्रवात् कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम्
Verse 28
प्रादुर्भूतं तत: क्षीरं कृत्तिकानामनुत्तमम् षण्णां षडाननो भूत्वा जग्राह स्तनजं पय:
Verse 29
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा अजयत्स्वेन वीर्येण दैत्यसेनागणान् विभु:
Verse 30
सुरसेनागणपतिं ततस्तमतुलद्युतिम् अभ्यषिञ्चन् सुरगणा स्समेत्याग्निपुरोगमा:
Verse 31
एष ते राम गङ्गाया विस्तरोऽभिहितो मया कुमारसम्भवश्चैव धन्य: पुण्यस्तथैव च
Verse 32
भक्तश्च य: कार्तिकेये काकुत्स्थ भुवि मानवः आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत्
0:000:00
Speed: