Book 1 • Chapter 38
Sarga 38
24 verses
Verse 1
तां कथां कौशिको रामे निवेद्य कुशिकात्मज: पुनरेवापरं वाक्यं काकुत्स्थ मिदमब्रवीत्
Verse 2
अयोध्याधिपति श्शूर: पूर्वमासीन्नराधिप: सगरो नाम धर्मात्मा प्रजाकामस्स चाप्रज:
Verse 3
वैदर्भदुहिता राम केशिनी नाम नामत: ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी
Verse 4
अरिष्टनेमेर्दुहिता रूपेणाप्रतिमा भुवि द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता
Verse 5
ताभ्यां सह महाराज: पत्नीभ्यां तप्तवांस्तप: हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ
Verse 6
अथ वर्षशते पूर्णे तपसाऽराधितो मुनि: सगराय वरं प्रादाद्भृगुस्सत्यवतां वर:
Verse 7
अपत्यलाभस्सुमहान् भविष्यति तवानघ कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ
Verse 8
एका जनयिता तात पुत्रं वंशकरं तव षष्ठिं पुत्रसहस्राणि अपरा जनयिष्यति
Verse 9
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ऊचतु: परमप्रीते कृताञ्जलिपुटे तदा
Verse 10
एक: कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव
Verse 11
तयोस्तद्वचनं श्रुत्वा भृगु: परमधार्मिक: उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम्
Verse 12
एको वंशकरो वाऽस्तु बहवो वा महाबला: कीर्तिमन्तो महोत्साहा: का वा कं वरमिच्छति
Verse 13
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन पुत्रं वंशकरं राम जग्राह नृपसन्निधौ
Verse 14
षष्ठिं पुत्रसहस्राणि सुपर्णभगिनी तदा महोत्साहान् कीर्तिमतो जग्राह सुमति: सुतान्
Verse 15
प्रदक्षिणमृषिं कृत्वा शिरसाऽभिप्रणम्य च जगाम स्वपुरं राजा सभार्यो रघुनन्दन
Verse 16
अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत असमञ्ज इति ख्यातं केशिनी सगरात्मजम्
Verse 17
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत षष्ठि: पुत्रसहस्राणि तुम्बभेदाद्विनि:सृता:
Verse 18
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् कालेन महता सर्वे यौवनं प्रतिपेदिरे
Verse 19
अथ दीर्घेण कालेन रूपयौवनशालिन: षष्टि: पुत्रसहस्राणि सगरस्याभवंस्तदा
Verse 20
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भव: बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान् समीक्ष्य वै
Verse 21
एवं पापसमाचारस्सज्जनप्रतिबाधक: पौराणामहिते युक्त: पुत्रो निर्वासित: पुरात्
Verse 22
तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् सम्मत स्सर्वलोकस्य सर्वस्यापि प्रियंवद:
Verse 23
तत: कालेन महता मतिस्समभिजायत सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता
Verse 24
स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे
0:000:00
Speed: