Book 1 • Chapter 39
Sarga 39
25 verses
Verse 1
विश्वामित्रवचश्श्रुत्वा कथाऽन्ते रघुनन्दन: उवाच परमप्रीतो मुनिं दीप्तमिवानलम्
Verse 2
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्
Verse 3
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव श्रूयतां विस्तरो राम सगरस्य महात्मन:
Verse 4
शङ्करश्वशुरो नाम हिमवानचलोत्तम: विंध्यपर्वतमासाद्य निरीक्षेते परस्परम्
Verse 5
तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञ स्सपुरुषोत्तम स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि
Verse 6
तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथ: अंशुमानकरोत्तात सगरस्य मते स्थित:
Verse 7
तस्य पर्वणि तं यज्ञं यजमानस्य वासव: राक्षसीं तनुमास्थाय यज्ञीयाश्वमपाहरत्
Verse 8
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मन: उपाध्यायगणास्सर्वे यजमानमथाब्रुवन्
Verse 9
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्
Verse 10
यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय न: तत्तथा क्रियतां राजन् यथाऽच्छिद्र: क्रतुर्भवेत्
Verse 11
उपाध्यायवच श्श्रुत्वा तस्मिन् सदसि पार्थिव: षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह
Verse 12
गतिं पुत्रा: न पश्यामि रक्षसां परुषर्षभा: मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतु:
Verse 13
तद्गच्छत विचिन्वध्वं पुत्रका: भद्रमस्तु व: समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत
Verse 14
एकैकयोजनं पुत्रा विस्तारमधिगच्छत यावत्तुरगसन्दर्श: तावत् खनत मेदिनीम् तं चैव हयहर्तारं मार्गमाणा ममाज्ञया
Verse 15
दीक्षित: पौत्रसहितस्सोपाध्यायगणो ह्यहम् इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम्
Verse 16
इत्युक्ता हृष्टमनसो राजपुत्रा महाबला: जग्मुर्महीतलं राम पितुर्वचनयन्त्रिता:
Verse 17
योजनायामविस्तारमेकैको धरणीतलम् बिभिदु: परुषव्याघ्र वज्रस्पर्शसमैर्नखै:
Verse 18
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणै: भिद्यमाना वसुमती ननाद रघुनन्दन
Verse 19
नागानां मथ्यमानानामसुराणां च राघव राक्षसानां च दुर्धर्षस्सत्त्वानां निनदोऽभवत्
Verse 20
योजनानां सहस्राणि षष्टिं तु रघुनन्दन बिभिदुर्धरणीं वीरा: रसातलमनुत्तमम्
Verse 21
एवं पर्वतसम्बाधं जम्बूद्वीपं नृपात्मजा: खनन्तो नरशार्दूल सर्वत: परिचक्रमु:
Verse 22
ततो देवास्सगन्धर्वास्सासुरास्सहपन्नगा: सम्भ्रान्तमनसस्सर्वे पितामहमुपागमन्
Verse 23
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ऊचु: परमसन्त्रस्ता पितामहमिदं वच:
Verse 24
भगवन् पृथिवी सर्वा खन्यते सगरात्मजै: बहवश्च महात्मानो हन्यन्ते तलवासिन:
Verse 25
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते इति ते सर्वभूतानि निघ्नन्ति सगरात्मजा:
0:000:00
Speed: