🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 40

Sarga 40

29 verses

Verse 1
. देवतानां वचश्श्रुत्वा भगवान्वै पितामह: प्रत्युवाच सुसन्त्रस्तान्कृतान्तबलमोहितान्
Verse 2
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमत: कापिलं रूपमास्थाय धारयत्यनिशं धराम् तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजा:
Verse 3
पृथिव्याश्चापि निर्भेदोऽदृष्ट एव सनातन: सगरस्य  पुत्राणां विनाशोऽदीर्घजीविनाम्
Verse 4
पितामहवचश्श्रुत्वा त्रयस्त्रिंशदरिन्दम देवा: परमसंहृष्टा: पुनर्जग्मुर्यथागतम्
Verse 5
सगरस्य  पुत्राणां प्रादुरासीन्महात्मनाम् पृथिव्यां भिद्यमानायां निर्घातसमनिस्वन:
Verse 6
ततो भित्वा महीं सर्वे कृत्वा चाभिप्रदक्षिणम् सहिता स्सगरास्सर्वे पितरं वाक्यमब्रुवन् 0
Verse 7
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिता: देवदानवरक्षांसि पिशाचोरगकिन्नरा:   पश्यामहेऽश्वं तमश्वहर्तारमेव  किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्
Verse 8
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिता: देवदानवरक्षांसि पिशाचोरगकिन्नरा:   पश्यामहेऽश्वं तमश्वहर्तारमेव  किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्
Verse 9
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तम: समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन
Verse 10
भूय: खनत भद्रं वो निर्भिद्य वसुधातलम् अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ
Verse 11
पितुर्वचनमासाद्य सगरस्य महात्मन: षष्टि: पुत्रसहस्राणि रसातलमभिद्रवन्
Verse 12
खन्यमाने ततस्तस्मिन् ददृशु: पर्वतोपमम् दिशागजं विरूपाक्षं धारयन्तं महीतलम्
Verse 13
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन शिरसा धारयामास विरूपाक्षो महागज:
Verse 14
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागज: खेदाच्चालयते शीर्षं भूमिकम्पस्तदाभवेत्
Verse 15
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्
Verse 16
तत: पूर्वां दिशं भित्त्वा दक्षिणां बिभिदु: पुन: दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् महापद्मं महात्मानं सुमहत्पर्वतोपमम् शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम्
Verse 17
तत: पूर्वां दिशं भित्त्वा दक्षिणां बिभिदु: पुन: दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् महापद्मं महात्मानं सुमहत्पर्वतोपमम् शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम्
Verse 18
तत: प्रदक्षिणं कृत्वा सगरस्य महात्मन: षष्टि: पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्
Verse 19
पश्चिमायामपि दिशि महान्तमचलोपमम् दिशागजं सौमनसं ददृशुस्ते महाबला:
Verse 20
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् खनन्त स्समुपक्रान्ता दिशं हैमवतीं तत:
Verse 21
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्
Verse 22
समालभ्य तत स्सर्वे कृत्वा चैनं प्रदक्षिणम् षष्टि: पुत्रसहस्राणि बिभिदुर्वसुधातलम्
Verse 23
तत: प्रागुत्तरां गत्वा सागरा: प्रथितां दिशम् रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजा:
Verse 24
ते तु सर्वे महात्मानो भीमवेगा महाबला: ददृशु: कपिलं तत्र वासुदेवं सनातनम् हयं  तस्य देवस्य चरन्तमविदूरत: प्रहर्षमतुलं प्राप्तास्सर्वे ते रघुनन्दन
Verse 25
ते तु सर्वे महात्मानो भीमवेगा महाबला: ददृशु: कपिलं तत्र वासुदेवं सनातनम् हयं  तस्य देवस्य चरन्तमविदूरत: प्रहर्षमतुलं प्राप्तास्सर्वे ते रघुनन्दन
Verse 26
ते तं हयवरं ज्ञात्वा क्रोधपर्याकुलेक्षणा: खनित्रलाङ्गलधरा नानावृक्षशिलाधरा: अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्
Verse 27
ते तं हयवरं ज्ञात्वा क्रोधपर्याकुलेक्षणा: खनित्रलाङ्गलधरा नानावृक्षशिलाधरा: अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्
Verse 28
अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नस्सगरात्मजान्
Verse 29
श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा
0:000:00
Speed: