Book 1 • Chapter 41
Sarga 41
26 verses
Verse 1
पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा
Verse 2
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा पितृ़णां गतिमन्विच्छ येन चाश्वोऽपवाहित:
Verse 3
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च तेषां त्वं प्रतिघातार्थं सास्त्रं गृह्णीष्व कार्मुकम्
Verse 4
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारग:
Verse 5
एवमुक्तोंऽशुमान्सम्यक् सगरेण महात्मना धनुरादाय खड्गं च जगाम लघुविक्रम:
Verse 6
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभि: प्रापद्यत नरश्रेष्ठ तेन राज्ञाऽभिचोदित:
Verse 7
दैत्यदानवरक्षोभि: पिशाचपतगोरगै: पूज्यमानं महातेजा दिशागजमपश्यत
Verse 8
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् पितृ़न् स परिपप्रच्छ वाजिहर्तारमेव च
Verse 9
दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वच: आसमञ्ज कृतार्थस्त्वं सहाश्वश्शीघ्रमेष्यसि
Verse 10
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे
Verse 11
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदै: पूजितस्सहयश्चैव गन्ताऽसीत्यभिचोदित:
Verse 12
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रम: भस्मराशीकृता यत्र पितरस्तस्य सागरा:
Verse 13
स दु:खवशमापन्नस्त्वसमञ्जसुतस्तदा चुक्रोश परमार्तस्तु वधात्तेषां सुदु:खित:
Verse 14
यज्ञीयं च हयं तत्र चरन्तमविदूरत: ददर्श पुरुषव्याघ्रो दु:खशोकसमन्वित:
Verse 15
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् सलिलार्थी महातेजा न चापश्यज्जलाशयम्
Verse 16
विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम् पितृ़णां मातुलं राम सुपर्णमनिलोपमम्
Verse 17
स चैवमब्रवीद्वाक्यं वैनतेयो महाबल : मा शुच: पुरुषव्याघ्र वधोऽयं लोकसम्मत:
Verse 18
कपिलेनाप्रमेयेन दग्धा हीमे महाबला: सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्
Verse 19
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ तस्यां कुरु महाबाहो पितृ़णां तु जलक्रियाम्
Verse 20
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया षष्टिं पुत्रसहस्राणि स्वर्गलोकं च नेष्यति
Verse 21
गच्छ चाश्वं महाभाग तं गृह्य पुरुषर्षभ यज्ञं पैतामहं वीर संवर्तयितुमर्हसि
Verse 22
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् त्वरितं हयमादाय पुनरायान्महायशा:
Verse 23
ततो राजानमासाद्य दीक्षितं रघुनन्दन न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा
Verse 24
तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृप: यज्ञं निवर्तयामास यथाकल्पं यथाविधि
Verse 25
स्वपुरं चागमच्छ्रीमानिष्टयज्ञोमहीपति: गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत
Verse 26
अकृत्वा निश्चयं राजा कालेन महता महान् त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गत:
0:000:00
Speed: