🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 42

Sarga 42

25 verses

Verse 1
कालधर्मं गते राम सगरे प्रकृतीजना: राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्
Verse 2
 राजा सुमहानासीदंशुमान् रघुनन्दन तस्य पुत्रो महानासीद्दिलीप इति विश्रुत:
Verse 3
तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम्
Verse 4
द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशा: तपोवनं गतो राम स्वर्गं लेभे तपोधन:
Verse 5
दिलीपस्तु महातेजाश्श्रुत्वा पैतामहं वधम् दु:खोपहतया बुद्ध्या निश्चयं नाध्यगच्छत
Verse 6
कथं गङ्गावतरणं कथं तेषां जलक्रिया तारयेयं कथं चैतानिति चिन्तापरोऽभवत्
Verse 7
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मन: पुत्रो भगीरथो नाम जज्ञे परमधार्मिक:
Verse 8
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्
Verse 9
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति व्याधिना नरशार्दूल कालधर्ममुपेयिवान्
Verse 10
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभ:
Verse 11
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन अनपत्यो महातेजा: प्रजाकामस्स चाप्रज:
Verse 12
मन्त्रिष्वाधाय तद्राज्यं गङ्गावतरणे रत:  तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन ऊर्ध्वबाहु: पञ्चतपा मासाहारो जितेन्द्रिय:
Verse 13
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठत: अतीतानि महाबाहो तस्य राज्ञो महात्मन: सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वर:
Verse 14
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठत: अतीतानि महाबाहो तस्य राज्ञो महात्मन: सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वर:
Verse 15
ततस्सुरगणैस्सार्धमुपागम्य पितामह: भगीरथं महात्मानं तप्यमानमथाब्रवीत्
Verse 16
भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर तपसा  सुतप्तेन वरं वरय सुव्रत
Verse 17
तमुवाच महातेजा: सर्वलोकपितामहम् भगीरथो महाभाग: कृताञ्जलिरुपस्थित:
Verse 18
यदि मे भगवन् प्रीतो यद्यस्ति तपस: फलम् सगरस्यात्मजास्सर्वे मत्तस्सलिलमाप्नुयु:
Verse 19
गङ्गायास्सलिलक्लिन्ने भस्मन्येषां महात्मनाम् स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहा:
Verse 20
देया  सन्ततिर्देव नावसीदेत्कुलं  न: इक्ष्वाकूणां कुले देव एष मेऽस्तु वर:पर:
Verse 21
उक्तवाक्यं तु राजानं सर्वलोकपितामह: प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्
Verse 22
मनोरथो महानेष भगीरथ महारथ एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन
Verse 23
इयं हैमवती गङ्गा ज्येष्ठा हिमवतस्सुता तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम्
Verse 24
गङ्गाया: पतनं राजन् पृथिवी  सहिष्यति तां वै धारयितुं वीर नान्यं पश्यामि शूलिन:
Verse 25
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् जगाम त्रिदिवं देवस्सहदेवैर्मरुद्गणै:
0:000:00
Speed: