Book 1 • Chapter 43
Sarga 43
41 verses
Verse 1
देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् कृत्वा वसुमतीं राम संवत्सरमुपासत
Verse 2
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृत: उमापति: पशुपती राजानमिदमब्रवीत्
Verse 3
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् शिरसा धारयिष्यामि शैलराजसुतामहम्
Verse 4
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता तदा सातिमहद्रूपं कृत्वा वेगं च दुस्सहम् आकाशादपतद्राम शिवे शिवशिरस्युत
Verse 5
अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम्
Verse 6
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हर: तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा
Verse 7
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि हिमवत्प्रतिमे राम जटामण्डलगह्वरे
Verse 8
सा कथञ्चिन्महीं गन्तुं नाशक्नोद्यत्नमास्थिता नैव निर्गमनं लेभे जटामण्डलमोहिता
Verse 9
तत्रैवाबम्भ्रमद्देवी संवत्सरगणान् बहून् तामपश्यन्पुनस्तत्र तप: परममास्थित:
Verse 10
अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन विससर्ज ततो गङ्गां हरो बिन्दुसर: प्रति
Verse 11
तस्यां विसृज्यमानायां सप्तस्रोतांसि जज्ञिरे ह्लादिनी पावनी चैव नलिनी च तथाऽपरा तिस्र: प्राचीं दिशं जग्मु: गङ्गाश्शिवजलाश्शुभा:
Verse 12
तस्यां विसृज्यमानायां सप्तस्रोतांसि जज्ञिरे ह्लादिनी पावनी चैव नलिनी च तथाऽपरा तिस्र: प्राचीं दिशं जग्मु: गङ्गाश्शिवजलाश्शुभा:
Verse 13
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी तिस्रस्त्वेता दिशं जग्मु: प्रतीचीं तु शुभोदका:
Verse 14
सप्तमी चान्वगात्तासां भगीरथमथो नृपम् भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थित: प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत्
Verse 15
गगनाच्छङ्करशिरस्ततो धरणिमाश्रिता व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम्
Verse 16
मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तदा पतद्भि: पतितैश्चान्यैर्व्यरोचत वसुन्धरा
Verse 17
ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तदा व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा
Verse 18
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा पारिप्लवगतैश्चापि देवतास्तत्र विष्ठिता:
Verse 19
तदद्भुततमं लोके गङ्गापतनमुत्तमम् दिदृक्षवो देवगणा: समीयुरमितौजस:
Verse 20
सम्पतद्भिस्सुरगणैस्तेषां चाभरणौजसा शतादित्यमिवाभाति गगनं गततोयदम्
Verse 21
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलै: विद्युद्भिरिव विक्षिप्तमाकाशमभवत्तदा
Verse 22
पाण्डरैस्सलिलोत्पीडै: कीर्यमाणैस्सहस्रधा शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवै:
Verse 23
क्वचिद्द्रुततरं याति कुटिलं क्वचिदायतम् विनतं क्वचिदुद्धूतं क्वचिद्याति शनैश्शनै:
Verse 24
सलिलेनैव सलिलं क्वचिदभ्याहतं पुन: मुहुरूर्ध्वमुखं गत्वा पपात वसुधातलम्
Verse 25
तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुन: व्यरोचत तदा तोयं निर्मलं गतकल्मषम्
Verse 26
तत्र देवर्षिगन्धर्वा वसुधातलवासिन: भवाङ्गपतितं तोयं पवित्रमिति पस्पृशु:
Verse 27
शापात्प्रपतिता ये च गगनाद्वसुधातलम् कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषा:
Verse 28
धूतपापा: पुनस्तेन तोयेनाथ सुभास्वता पुनराकाशमाविश्य स्वान् लोकान् प्रतिपेदिरे
Verse 29
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता कृताभिषेको गङ्गायां बभूव विगतक्लम:
Verse 30
भगीरथोऽपि राजार्षिर्दिव्यं स्यन्दनमास्थित: प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् 1.43.30
Verse 31
देवास्सर्षिगणा: सर्वे दैत्यदानवराक्षसा: गन्धर्वयक्षप्रवरास्सकिन्नरमहोरगा: सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् गङ्गामन्वगमन् प्रीतास्सर्वे जलचराश्च ये
Verse 32
देवास्सर्षिगणा: सर्वे दैत्यदानवराक्षसा: गन्धर्वयक्षप्रवरास्सकिन्नरमहोरगा: सर्वाश्चाप्सरसो राम भगीरथरथानुगाम् गङ्गामन्वगमन् प्रीतास्सर्वे जलचराश्च ये
Verse 33
यतो भगीरथो राजा ततो गङ्गायशस्विनी जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी
Verse 34
ततो हि यजमानस्य जह्नोरद्भुतकर्मण: गङ्गा सम्प्लावयामास यज्ञवाटं महात्मन:
Verse 35
तस्यावलेपनं ज्ञात्वा क्रुद्धो यज्वा तु राघव अपिबच्च जलं सर्वं गङ्गाया: परमाद्भुतम्
Verse 36
ततो देवास्सगन्धर्वा ऋषयश्च सुविस्मिता: पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मन:
Verse 37
ततो देवास्सगन्धर्वा ऋषयश्च सुविस्मिता: पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मन:
Verse 38
ततस्तुष्टो महातेजाश्श्रोत्राभ्यामसृजत् पुन: तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीतिच
Verse 39
जगाम च पुनर्गङ्गा भगीरथरथानुगा सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा रसातलमुपागच्छत्सिद्ध्यर्थं तस्य कर्मण:
Verse 40
भगीरथोऽपि राजर्षि: गङ्गामादाय यत्नत: पितामहान् भस्मकृतानपश्यद्दीनचेतन:
Verse 41
अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् प्लावयद्धूतपाप्मानस्स्वर्गं प्राप्ता रघूत्तम
0:000:00
Speed: