🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 44

Sarga 44

22 verses

Verse 1
 गत्वा सागरं राजा गङ्गयाऽनुगतस्तदा प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृता:
Verse 2
भस्मन्यथाऽप्लुते राम गङ्गायास्सलिलेन वै सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्
Verse 3
तारिता नरशार्दूल दिवं याताश्च देववत् षष्ठि: पुत्रसहस्राणि सगरस्य महात्मन:
Verse 4
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत्
Verse 5
इयं  दुहिता ज्येष्ठा तव गङ्गा भविष्यति त्वत्कृतेन  नाम्नाऽथ लोके स्थास्यति विश्रुता
Verse 6
गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति  त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता
Verse 7
पितामहानां सर्वेषां त्वमत्र मनुजाधिप कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय
Verse 8
पूर्वकेण हि ते राजंस्तेनातियशसा तदा धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथ:
Verse 9
तथैवांशुमता तात लोकेऽप्रतिमतेजसा गङ्गां प्रार्थयतानेतुं प्रतिज्ञा नापवर्जिता
Verse 10
राजर्षिणा गुणवता महर्षिसमतेजसा मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन  दिलीपेन महाभाग तव पित्राऽति तेजसा पुनर्न शङ्किताऽनेतुं गङ्गां प्रार्थयताऽनघ
Verse 11
राजर्षिणा गुणवता महर्षिसमतेजसा मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन  दिलीपेन महाभाग तव पित्राऽति तेजसा पुनर्न शङ्किताऽनेतुं गङ्गां प्रार्थयताऽनघ
Verse 12
सा त्वया समनुक्रान्ता प्रतिज्ञा पुरुषर्षभ प्राप्तोऽसि परमं लोके यश: परमसम्मतम्
Verse 13
यच्च गङ्गावतरणं त्वया कृतमरिन्दम अनेन  भवान् प्राप्तो धर्मस्यायतनं महत्
Verse 14
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते सलिले पुरुषव्याघ्र शुचि: पुण्यफलो भव
Verse 15
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप
Verse 16
इत्येवमुक्त्वा देवेश: सर्वलोकपितामह: यथाऽऽगतं तथाऽगच्छत् देवलोकं महायशा:
Verse 17
भगीरथोऽपि राजर्षि: कृत्वा सलिलमुत्तमम् यथाक्रमं यथान्यायं सागराणां महायशा: कृतोदकश्शुची राजा स्वपुरं प्रविवेश  समृद्धार्थो रघुश्रेष्ठ स्वराज्यं प्रशशास 
Verse 18
भगीरथोऽपि राजर्षि: कृत्वा सलिलमुत्तमम् यथाक्रमं यथान्यायं सागराणां महायशा: कृतोदकश्शुची राजा स्वपुरं प्रविवेश  समृद्धार्थो रघुश्रेष्ठ स्वराज्यं प्रशशास 
Verse 19
प्रमुमोद  लोकस्तं नृपमासाद्य राघव नष्टशोकस्समृद्धार्थो बभूव विगतज्वर:
Verse 20
एष ते राम गङ्गाया विस्तरोऽभिहितो मया स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते
Verse 21
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमतीव  यश्श्रावयति विप्रेषु क्षत्रियेष्वितरेषु  प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि 
Verse 22
इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् यश्शृणोति  काकुत्स्थ सर्वान् कामानवाप्नुयात् सर्वे पापा: प्रणश्यन्ति आयु: कीर्तिश्च वर्धते
0:000:00
Speed: