🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 45

Sarga 45

44 verses

Verse 1
विश्वामित्रवचश्श्रुत्वा राघव स्सहलक्ष्मण: विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्
Verse 2
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्
Verse 3
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्
Verse 4
तत: प्रभाते विमले विश्वामित्रं महामुनिम् उवाच राघवो वाक्यं कृताह्निकमरिन्दम:
Verse 5
गता भगवती रात्रिश्श्रोतव्यं परमं श्रुतम् क्षणभूतेव नौ रात्रि स्सम्वृत्तेयं महातप: इमां चिन्तयतस्सर्वां निखिलेन कथां तव
Verse 6
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता
Verse 7
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता
Verse 8
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मन: सन्तारं कारयामास सर्षिसङ्घ स्सराघव:
Verse 9
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा गङ्गाकूले निविष्टास्ते विशालां ददृशु: पुरीम्
Verse 10
ततो मुनिवरस्तूर्णं जगाम सह राघव: विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा
Verse 11
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्
Verse 12
कतरो राजवंशोऽयं विशालायां महामुने श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे
Verse 13
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गव: आख्यातुं तत्समारेभे विशालस्य पुरातनम्
Verse 14
श्रूयतां राम शक्रस्य कथां कथयतश्शुभाम् अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव
Verse 15
पूर्वं कृतयुगे राम दिते: पुत्रा महाबला: अदितेश्च महाभाग वीर्यवन्तस्सुधार्मिका:
Verse 16
ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् अमरा अजराश्चैव कथं स्याम निरामया:
Verse 17
तेषां चिन्तयतां राम बुद्धिरासीन्महात्मनाम् क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै
Verse 18
ततो निश्चित्य मथनं योक्त्रं कृत्वा  वासुकिम् मन्थानं मन्दरं कृत्वा ममन्थुरमितौजस:
Verse 19
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि  वमन्त्यति विषं तत्र ददंशुर्दशनैश्शिला:
Verse 20
उत्पपाताग्निसङ्काशं हालाहलमहाविषम् तेन दग्धं जगत्सर्वं सदेवासुरमानुषम्
Verse 21
अथ देवा महादेवं शङ्करं शरणार्थिन: जग्मु: पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवु:
Verse 22
एवमुक्तस्ततो देवैर्देवदेवेश्वर: प्रभु: प्रादुरासीत्ततोऽत्रैव शङ्खचक्रधरो हरि:
Verse 23
उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरि: दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् त्वदीयंहि सुरश्रेष्ठ सुराणामग्रजोऽसि यत् अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो
Verse 24
उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरि: दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् त्वदीयंहि सुरश्रेष्ठ सुराणामग्रजोऽसि यत् अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो
Verse 25
इत्युक्त्वा  सुरश्रेष्ठस्तत्रैवान्तरधीयत देवतानां भयं दृष्टवाश्रुत्वा वाक्यं तु शार्ङ्गिण: हालाहलविषं घोरं  जग्राहामृतोपमम्
Verse 26
देवान्विसृज्य देवेशो जगाम भगवान् हर: ततो देवासुरास्सर्वे ममन्थू रघुनन्दन
Verse 27
प्रविवेशाथ पातालं मन्थान: पर्वतोऽनघ ततो देवास्सगन्धर्वास्तुष्टुवुर्मधुसूदनम्
Verse 28
त्वं गति: सर्वभूतानां विशेषेण दिवौकसाम् पालयास्मान्महाबाहो गिरिमुद्धर्तुमर्हसि
Verse 29
इति श्रुत्वा हृषीकेश: कामठं रूपमास्थित: पर्वतं पृष्ठत: कृत्वा शिश्ये तत्रोदधौ हरि:
Verse 30
पर्वताग्रे तु लोकात्मा हस्तेनाक्रम्य केशव: देवानां मध्यत: स्थित्वा ममन्थ पुरुषोत्तम:
Verse 31
अथ वर्षसहस्रेण सदण्डस्सकमण्डलु: पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चस:
Verse 32
अप्सु निर्मथनादेव रसास्तस्माद्वरस्त्रिय: उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्
Verse 33
षष्टि: कोट्योऽभवंस्तासाम् अप्सराणां सुवर्चसाम् असङ्ख्येयास्तु काकुत्स्थ यास्तासां परिचारिका:
Verse 34
 तास्स्म परिगृह्णन्ति सर्वे ते देवदानवा: अप्रतिग्रहणात्ताश्च सर्वास्साधारणास्स्मृता:
Verse 35
वरुणस्य तत: कन्या वारुणी रघुनन्दन उत्पपात महाभागा मार्गमाणा परिग्रहम्
Verse 36
दिते: पुत्रा  तां राम जगृहुर्वरुणात्मजाम् अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्
Verse 37
असुरास्तेन दैतेयास्सुरास्तेनादितेस्सुता: हृष्टा: प्रमुदिताश्चासन् वारुणीग्रहणात्सुरा:
Verse 38
उच्चैश्श्रवा हयश्रेष्ठो मणिरत्नं  कौस्तुभम् उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्
Verse 39
अथ तस्य कृते राम महानासीत्कुलक्षय: अदितेस्तु तत: पुत्रा दिते: पुत्रानसूदयन्
Verse 40
एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैस्सह युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्
Verse 41
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबल: अमृतं सोऽहरत्त्तूर्णं मायामास्थाय मोहिनीम्
Verse 42
ये गताऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम् सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना
Verse 43
अदितेरात्मजा वीरा दिते: पुत्रान्निजघ्निरे तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्
Verse 44
निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरन्दर: शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्
0:000:00
Speed: