Book 1 • Chapter 46
Sarga 46
23 verses
Verse 1
हतेषु तेषु पुत्रेषु दिति: परमदु:खिता मारीचं काश्यपं राम भर्तारमिदमब्रवीत्
Verse 2
हतपुत्राऽस्मि भगवंस्तव पुत्रैर्महाबलै: शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम्
Verse 3
साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि
Verse 4
तस्यास्तद्वचनं श्रुत्वा मारीच: काश्यपस्तदा प्रत्युवाच महातेजा दितिं परमदु:खिताम्
Verse 5
एवं भवतु, भद्रं ते शुचिर्भव तपोधने जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे
Verse 6
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि
Verse 7
एवमुक्त्वा महातेजा: पाणिना स ममार्ज ताम् समालभ्य ततस्स्वस्तीत्युक्त्वा स तपसे ययौ
Verse 8
गते तस्मिन्नरश्श्रेष्ठ दिति: परमहर्षिता कुशप्लवनमासाद्य तपस्तेपे सुदारुणम्
Verse 9
तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह सहस्राक्षो नरश्श्रेष्ठ परया गुणसम्पदा
Verse 10
अग्निं कुशान् काष्ठमप: फलं मूलं तथैव च न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम्
Verse 11
गात्रसंवहनश्चैव श्रमापनयनैस्तथा शक्रस्सर्वेषु कालेषु दितिं परिचचार ह
Verse 12
अथ वर्षसहस्रे तु दशोने रघुनन्दन दिति: परमसम्प्रीता सहस्राक्षमथाब्रवीत्
Verse 13
याचितेन सुरश्रेष्ठ तव पित्रा महात्मना वरो वर्षसहस्रान्ते दत्तो मम सुतं प्रति
Verse 14
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे तत:
Verse 15
तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम् त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर:
Verse 16
एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षत:
Verse 17
दृष्ट्वा तामशुचिं शक्र: पादत: कृतमूर्धजाम् शिरस्स्थाने कृतौ पादौ जहास च मुमोद च
Verse 18
तस्याश्शरीरविवरं विवेश च पुरन्दर: गर्भं च सप्तधा राम बिभेद परमात्मवान्
Verse 19
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा रुरोद सुस्वरं राम ततो दितिरबुध्यत
Verse 20
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत बिभेद च महातेजा रुदन्तमपि वासव:
Verse 21
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् निष्पपात ततश्शक्रो मातुर्वचनगौरवात्
Verse 22
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत अशुचिर्देवि सुप्ताऽसि पादयो: कृतमूर्धजा
Verse 23
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि
0:000:00
Speed: