Book 1 • Chapter 47
Sarga 47
22 verses
Verse 1
सप्तधातु कृते गर्भे दिति: परमदु:खिता सहस्राक्षं दुराधर्षं वाक्यं सानुनयाऽब्रवीत्
Verse 2
ममापराधाद्गर्भोऽयं सप्तधा विफलीकृत: नापराधोऽस्ति देवेश तवात्र बलसूदन
Verse 3
प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये मरुतां सप्तसप्तानां स्थानपाला भवन्त्विमे
Verse 4
वातस्कन्धा: इमे सप्त चरन्तु दिवि पुत्रक मारुता इति विख्याता दिव्यरूपा ममात्मजा:
Verse 5
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथाऽपर: दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशा:
Verse 6
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजा:
Verse 7
तस्यास्तद्वचनं श्रुत्वा सहस्राक्ष: पुरन्दर: उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदन:
Verse 8
सर्वमेतद्यथोक्तं ते भविष्यति न संशय: विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजा:
Verse 9
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने जग्मतुस्त्रिदिवं राम कृतार्थाविति नश्श्रुतम्
Verse 10
एष देशस्स काकुत्स्थ महेन्द्राध्युषित: पुरा दितिं यत्र तपस्सिद्धामेवं परिचचार स:
Verse 11
इक्ष्वाकोऽस्तु नरव्याघ्र पुत्र: परमधार्मिक: अलम्बुषायामुत्पन्नो विशाल इति विश्रुत: तेन चासीदिह स्थाने विशालेति पुरी कृता
Verse 12
इक्ष्वाकोऽस्तु नरव्याघ्र पुत्र: परमधार्मिक: अलम्बुषायामुत्पन्नो विशाल इति विश्रुत: तेन चासीदिह स्थाने विशालेति पुरी कृता
Verse 13
विशालस्य सुतो राम हेमचन्द्रो महाबल: सुचन्द्र इति विख्यात: हेमचन्द्रादनन्तर:
Verse 14
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुत: धूम्राश्वतनयश्चापि सञ्जयस्समपद्यत
Verse 15
सञ्जयस्य सुतश्श्रीमान् सहदेव: प्रतापवान् कुशाश्वस्सहदेवस्य पुत्र: परमधार्मिक:
Verse 16
कुशाश्वस्य महातेजा सोमदत्त: प्रतापवान् सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुत:
Verse 17
तस्य पुत्रो महातेजा: सम्प्रत्येष पुरीमिमाम् आवसत्यमरप्रख्यस्सुमतिर्नाम दुर्जय:
Verse 18
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपा: दीर्घायुषो महात्मानो वीर्यवन्तस्सुधार्मिका:
Verse 19
इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् श्व: प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि
Verse 20
सुमतिस्तु महातेजा विश्वामित्रमुपागतम् श्रुत्वा नरवरश्रेष्ठ: प्रत्युद्गच्छन्महायशा:
Verse 21
पूजां च परमां कृत्वा सोपाध्यायस्सबान्धव: प्राञ्जलि: कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्
Verse 22
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनि: सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम
0:000:00
Speed: