Book 1 • Chapter 48
Sarga 48
33 verses
Verse 1
पृष्ट्वा तु कुशलं तत्र परस्परसमागमे कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्
Verse 2
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ गजसिंहगती वीरौ शार्दूलवृषभोपमौ पद्मपत्रविशालाक्षौ खड्गतूणी धनुर्धरौ अश्विनाविव रूपेण समुपस्थितयौवनौ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने
Verse 3

Verse 4

Verse 5
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितै: किमर्थं च मुनिश्रेष्ठ सम्प्राप्तौ दुर्गमे पथि वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वत:
Verse 6
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितै: किमर्थं च मुनिश्रेष्ठ सम्प्राप्तौ दुर्गमे पथि वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वत:
Verse 7
तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् सिद्धाश्रमनिवासं च राक्षसानां वधं तथा
Verse 8
विश्वामित्रवचश्श्रुत्वा राजा परमहर्षित: अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ पूजयामास विधिवत्सत्कारार्हौ महाबलौ
Verse 9
तत: परमसत्कारं सुमते: प्राप्य राघवौ उष्य तत्र निशामेकां जग्मतुर्मिथिलां तत:
Verse 10
तान् दृष्ट्वा मुनयस्सर्वे जनकस्य पुरीं शुभाम् साधु साध्विति शंसन्तो मिथिलां समपूजयन्
Verse 11
मिथिलोपवने शून्यमाश्रमं दृश्य राघव: पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्
Verse 12
श्रीमदाश्रमसङ्काशं किन्न्विदं मुनिवर्जितम् ज्ञातुमिच्छामि भगवन् कस्यायं पूर्वमाश्रम:
Verse 13
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारद: प्रत्युवाच महातेजा विश्वामित्रो महामुनि:
Verse 14
हन्त ते कथयिष्यामि श्रुणु तत्त्वेन राघव यस्येदमाश्रमपदं शप्तं कोपान्महात्मना
Verse 15
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मन: आश्रमो दिव्यसङ्काशस्सुरैरपि सुपूजित:
Verse 16
स चेह तप आतिष्ठदहल्यासहित: पुरा वर्षपूगाननेकांश्च राजपुत्र महायश:
Verse 17
तस्यान्तरं विदित्वा तु सहस्राक्षश्शचीपति: मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत्
Verse 18
ऋतुकालं प्रतीक्षन्ते नार्थिनस्सुसमाहिते 1.48.18 सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे
Verse 19
मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन 1.48.19 मतिं चकार दुर्मेधा देवराजकुतूहलात्
Verse 20
अथाब्रवीत् नरश्रेष्ठ कृतार्थेनान्तरात्मना 1.48.20 कृतार्थाऽस्मि सुरश्रेष्ठ गच्छ शीघ्रमित: प्रभो आत्मानं मां च देवेश सर्वदा रक्ष गौतमात् 1.48.21
Verse 21
अथाब्रवीत् नरश्रेष्ठ कृतार्थेनान्तरात्मना 1.48.20 कृतार्थाऽस्मि सुरश्रेष्ठ गच्छ शीघ्रमित: प्रभो आत्मानं मां च देवेश सर्वदा रक्ष गौतमात् 1.48.21
Verse 22
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथाऽगतम् 1.48.22
Verse 23
एवं सङ्गम्य तु तया निश्चक्रामोटजात्तत: स सम्भ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति 1.48.23
Verse 24
गौतमं तं ददर्शाथ प्रविशन्तं महामुनिम् देवदानवदुर्धर्षं तपोबलसमन्वितम् तीर्थेंदकपरिक्लिन्नं दीप्यमानमिवानलम् गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्
Verse 25
गौतमं तं ददर्शाथ प्रविशन्तं महामुनिम् देवदानवदुर्धर्षं तपोबलसमन्वितम् तीर्थेंदकपरिक्लिन्नं दीप्यमानमिवानलम् गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्
Verse 26
दृष्ट्वा सुरपतिस्त्रस्तो विवर्णवदनोऽभवत् अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनि: दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत्
Verse 27
मम रूपं समास्थाय कृतवानसि दुर्मते अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि
Verse 28
गौतमेनैवमुक्तस्य सरोषेण महात्मना पेततुर्वृषणै भूमौ सहस्राक्षस्य तत्क्षणात्
Verse 29
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी अदृश्या सर्वभूतानां आश्रमेऽस्मिन्निवत्स्यसि
Verse 30
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी अदृश्या सर्वभूतानां आश्रमेऽस्मिन्निवत्स्यसि
Verse 31
यदा चैतद्वनं घोरं रामो दशरथात्मज: आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि
Verse 32
तस्यातिथ्येन दुर्वुत्ते लोभमोहविवर्जिता मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि
Verse 33
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् इममाश्रममुत्सृज्य सिद्धचारणसेविते हिमवच्छिखरे पुण्ये तपस्तेपे महातपा:
0:000:00
Speed: