🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 49

Sarga 49

22 verses

Verse 1
अफलस्तु ततश्शक्रो देवानग्निपुरोगमान् अब्रवीत्त्रस्तवदनस्सर्षिस्सङ्घान् सचारणान्
Verse 2
कुर्वता तपसो विघ्नं गौतमस्य महात्मन: क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्
Verse 3
अफलोऽस्मि कृतस्तेन क्रोधात्सा  निराकृता शापमोक्षेण महता तपोऽस्यापहृतं मया
Verse 4
तस्मात्सुरवरास्सर्वे सर्षिस्सङ्घास्सचारणा: सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ
Verse 5
शतक्रतोर्वचश्श्रुत्वा देवास्साग्निपुरोगमा: पितृदेवानुपेत्याहु स्सह सर्वैर्मरुद्गणै:
Verse 6
अयं मेषस्सवृषणश्शक्रो ह्यवृषण: कृत: मेषस्य वृषणौ गृह्य शक्रायाऽशु प्रयच्छथ
Verse 7
अफलस्तु कृतो मेष: परां तुष्टिं प्रदास्यति भवतां हर्षणार्थाय ये  दास्यन्ति मानवा:
Verse 8
अग्नेस्तु वचनं श्रुत्वा पितृदेवास्समागता: उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्
Verse 9
तदा प्रभृति काकुत्स्थ पितृदेवास्समागता: अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्
Verse 10
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव गौतमस्य प्रभावेन तपसश्च महात्मन:
Verse 11
तदागच्छ महातेज आश्रमं पुण्यकर्मण: तारयैनां महाभागामहल्यां देवरूपिणीम्
Verse 12
विश्वामित्रवचश्श्रुत्वा राघवस्सहलक्ष्मण: विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत्
Verse 13
ददर्श  महाभागां तपसा द्योतितप्रभाम् लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरै: प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव  तुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव मध्येंऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव
Verse 14
ददर्श  महाभागां तपसा द्योतितप्रभाम् लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरै: प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव  तुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव मध्येंऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव
Verse 15
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव  त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्
Verse 16
शापस्यान्तमुपागम्य तेषां दर्शनमागता राघवौ तु ततस्तस्या: पादौ जगृहतुस्तदा
Verse 17
स्मरन्ती गौतमवच: प्रतिजग्राह सा  तौ पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा
Verse 18
स्मरन्ती गौतमवच: प्रतिजग्राह सा  तौ पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा
Verse 19
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनै: गन्धर्वाप्सरसां चैव महानासीत्समागम:
Verse 20
साधु साध्विति देवास्तामहल्यां समपूजयन् तपोबलविशुद्धाङ्गी गौतमस्य वशानुगाम्
Verse 21
गौतमोऽपि महातेजा अहल्यासहितस्सुखी रामं सम्पूज्य विधिवत्तपस्तेपे महातपा:
Verse 22
रामोऽपि परमां पूजां गौतमस्य महामुने: सकाशाद्विधिवत्प्राप्य जगाम मिथिलां तत:
0:000:00
Speed: