🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 50

Sarga 50

23 verses

Verse 1
तत: प्रागुत्तरां गत्वा रामस्सौमित्रिणा सह विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्
Verse 2
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मण: साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मन:
Verse 3
बहूनीह सहस्राणि नानादेशनिवासिनाम् ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुला: देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्
Verse 4
बहूनीह सहस्राणि नानादेशनिवासिनाम् ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ऋषिवाटाश्च दृश्यन्ते शकटीशतसङ्कुला: देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्
Verse 5
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनि: निवेशमकरोद्देशे विविक्ते सलिलायुते
Verse 6
विश्वामित्रमनुप्राप्तं श्रुत्वा  नृपतिस्तदा शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् प्रत्युज्जगाम सहसा विनयेन समन्वित:
Verse 7
ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् विश्वामित्राय धर्मेण ददुर्मंन्त्रपुरस्कृतम्
Verse 8
प्रतिगृह्य  तां पूजां जनकस्य महात्मन: पप्रच्छ कुशलं राज्ञो यज्ञस्य  निरामयम्
Verse 9
 तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधस: यथान्यायं ततस्सर्वैस्समागच्छत्प्रहृष्टवत्
Verse 10
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत आसने भगवानास्तां सहैभिर्मुनिपुङ्गवै:
Verse 11
जनकस्य वचश्श्रुत्वा निषसाद महामुनि: पुरोधा ऋत्विजश्चैव राजा  सह मन्त्रिभि:
Verse 12
आसनेषु यथान्यायमुपविष्टान् समन्तत: दृष्ट्वा  नृपतिस्तत्र विश्वामित्रमथाब्रवीत्
Verse 13
अद्य यज्ञसमृध्दिर्मे सफला दैवतै: कृता अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया
Verse 14
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभि: सह
Verse 15
द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिण: ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक
Verse 16
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा पुनस्तं परिपप्रच्छ प्राञ्जलि: प्रणतो नृप:
Verse 17
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ गजसिंहगती वीरौ शार्दूलवृषभोपमौ पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ अश्विनाविव रूपेण समुपस्थितयौवनौ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने
Verse 18

Verse 19

Verse 20
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितै: काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वत:
Verse 21
वरायुधधरौ वीरौ कस्य पुत्रौ महामुने भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितै: काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वत:
Verse 22
तस्य तद्वचनं श्रुत्वा जनकस्य महात्मन: न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ
Verse 23
सिद्धाश्रमनिवासं  राक्षसानां वधं तथा तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् अहल्यादर्शनं चैव गौतमेन समागमम् महाधनुषि जिज्ञासां कर्तुमागमनं तथा एतत्सर्वं महातेजा जनकाय महात्मने निवेद्य विररामाथ विश्वामित्रो महामुनि:
0:000:00
Speed: