Book 1 • Chapter 51
Sarga 51
28 verses
Verse 1
तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमत: हृष्टरोमा महातेजाश्शतानन्दो महातपा: गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभ: रामसन्दर्शनादेव परं विस्मयमागत:
Verse 2

Verse 3
स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथामब्रवीत्
Verse 4
अपि ते मुनिशार्दूल मम माता यशस्विनी दर्शिता राजपुत्राय तपो दीर्घमुपागता
Verse 5
अपि रामे महातेजा मम माता यशस्विनी वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम्
Verse 6
अपि रामाय कथितं यथावृत्तं पुरातनम् मम मातुर्महातेजो दैवेन दुरनुष्ठितम्
Verse 7
अपि कौशिक भद्रं ते गुरुणा मम सङ्गता मम माता मुनिश्रेष्ठ रामसन्दर्शनादित:
Verse 8
अपि मे गुरुणा राम: पूजित: कुशिकात्मज इहागतो महातेजा: पूजां प्राप्तो महात्मन:
Verse 9
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज इहाऽगतेन रामेण प्रयतेनाभिवादित:
Verse 10
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनि: प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्
Verse 11
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका
Verse 12
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य भाषितम् शतानन्दो महातेजा रामं वचनमब्रवीत्
Verse 13
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्
Verse 14
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभ: विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम्
Verse 15
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तप:
Verse 16
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मन: यथा बलं यथा वृत्तं तन्मे निगदत: श्रुणु
Verse 17
राजाऽभूदेष धर्मात्मा दीर्घकालमरिन्दम: धर्मज्ञ: कृतविद्यश्च प्रजानां च हिते रत:
Verse 18
प्रजापतिसुतश्चासीत्कुशो नाम महीपति: कुशस्य पुत्रो बलवान् कुशनाभस्सुधार्मिक:
Verse 19
कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रृत: गाधे: पुत्रो महातेजा विश्वामित्रो महामुनि:
Verse 20
विश्वामित्रो महातेजा: पालयामास मेदिनीम् बहुवर्षसहस्राणि राजा राज्यमकारयत्
Verse 21
कदाचित्तु महातेजा योजयित्वा वरूथिनीम् अक्षौहीणीपरिवृत: परिचक्राम मेदिनीम्
Verse 22
नगराणि सराष्ट्राणि सरितश्च तथा गिरीन् आश्रमान्क्रमशो राम विचरन्नाजगाम ह वसिष्ठस्याश्रमपदं नानावृक्षसमाकुलम् नानामृगगणाकीर्णं सिद्धचारणसेवितम् देवदानवगन्धर्वै: किन्नरैरुपशोभितम् प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभि: अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियै: ऋषिभिर्वालखिल्यैश्च जपहोमपरायणै: अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्
Verse 23

Verse 24

Verse 25

Verse 26

Verse 27

Verse 28
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबल:
0:000:00
Speed: