Book 1 • Chapter 52
Sarga 52
23 verses
Verse 1
स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबल: प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम्
Verse 2
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह
Verse 3
उपविष्टाय च तदा विश्वामित्राय धीमते यथान्यायं मुनिवर: फलमूलमुपाहरत्
Verse 4
प्रतिगृह्य तु तां पूजां वसिष्ठाद्राजसत्तम: तपोग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत विश्वामित्रो महातेजा वनस्पतिगणे तथा सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्
Verse 5
प्रतिगृह्य तु तां पूजां वसिष्ठाद्राजसत्तम: तपोग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत विश्वामित्रो महातेजा वनस्पतिगणे तथा सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्
Verse 6
सुखोपविष्टं राजानं विश्वामित्रं महातपा: पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणस्सुत:
Verse 7
कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन् प्रजा: पालयसे वीर राजवृत्तेन धार्मिक
Verse 8
कच्चित्ते सम्भृता भृत्या: कच्चित्तिष्ठन्ति शासने कच्चित्ते विजितास्सर्वे रिपवो रिपुसूदन
Verse 9
कच्चिद्बलेषु कोशेषु मित्रेषु च परन्तप कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ
Verse 10
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत् विश्वामित्रो महातेजा वसिष्ठं विनयान्वित:
Verse 11
कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ता: कथा: शुभा: मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्
Verse 12
ततो वसिष्ठो भगवान् कथाऽन्ते रघुनन्दन विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव
Verse 13
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे
Verse 14
सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम् राजा त्वमतिथिश्रेष्ठ: पूजनीय: प्रयत्नत:
Verse 15
एवमुक्तो वसिष्ठेन विश्वामित्रो महामति: कृतमित्यब्रवीद्राजा प्रियवाक्येन मे त्वया
Verse 16
फलमूलेन भगवन् विद्यते यत्तवाश्रमे पाद्येनाचमनीयेन भगवद्दर्शनेन च सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजित: गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा
Verse 17
फलमूलेन भगवन् विद्यते यत्तवाश्रमे पाद्येनाचमनीयेन भगवद्दर्शनेन च सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजित: गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा
Verse 18
एवं ब्रुवन्तं राजानं वसिष्ठ:पुनरेव हि न्यमन्त्रयत धर्मात्मा पुन:पुनरुदारधी:
Verse 19
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह यथा प्रियं भगवतस्तथाऽस्तु मुनिपुङ्गव
Verse 20
एवमुक्तो महातेजा वसिष्ठो जपतां वर: आजुहाव तत: प्रीत: कल्माषीं धूतकल्मष:
Verse 21
एह्येहि शबले क्षिप्रं श्रृणु चापि वचो मम सबलस्यास्य राजर्षे:कर्तुं व्यवसितोऽस्म्यहम् भोजनेन महार्हेण सत्कारं संविधत्स्व मे
Verse 22
यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम् तत्सर्वं कामधुक्क्षिप्रमभिवर्ष कृते मम
Verse 23
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् अन्नानां निचयं सर्वं सृजस्व शबले त्वर
0:000:00
Speed: