🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 53

Sarga 53

25 verses

Verse 1
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन विदधे कामधुक्कामान्यस्य यस्य यथेप्सितम्
Verse 2
इक्षून्मधूं स्तथा लाजान्मैरेयांश्च वरासनान् पानानि  महार्हाणि भक्ष्यांश्चोच्चावचां स्तथा
Verse 3
उष्णाढ्यस्योदनस्यात्र राशय: पर्वतोपमा: मृष्टान्नानि  सूपाश्च दधिकुल्यास्तथैव  नानास्वादुरसानां  षाडबानां तथैव  भाजनानि सुपूर्णानि गौडानि  सहस्रश:
Verse 4
उष्णाढ्यस्योदनस्यात्र राशय: पर्वतोपमा: मृष्टान्नानि  सूपाश्च दधिकुल्यास्तथैव  नानास्वादुरसानां  षाडबानां तथैव  भाजनानि सुपूर्णानि गौडानि  सहस्रश:
Verse 5
सर्वमासीत्सुसन्तुष्ठं हृष्टपुष्टजनायुतम् विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम्
Verse 6
विश्वामित्रोऽपि राजर्षिर्हृष्ट: पुष्टस्तदाभवत् सान्त:पुरवरो राजा सब्राह्मणपुरोहित:
Verse 7
सामात्यो मन्त्रिसहितस्सभृत्य: पूजितस्तदा युक्त: परमहर्षेण वसिष्ठमिदमब्रवीत्
Verse 8
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृत: श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद
Verse 9
गवां शतसहस्रेण दीयतां शबला मम रत्नं हि भगवन्नेतद्रत्नहारी  प्रार्थिव: तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज
Verse 10
एवमुक्तस्तु भगवान्वसिष्ठो मुनिसत्तम: विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्
Verse 11
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् राजन् दास्यामि शबलां राशिभी रजतस्य 
Verse 12
 परित्यागमर्हेयं मत्सकाशादरिन्दम शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा
Verse 13
अस्यां हव्यं  कव्यं  प्राणयात्रा तथैव  आयत्तमग्निहोत्रं  बलिर्होमस्तथैव 
Verse 14
स्वाहाकारवषट्कारौ विद्याश्च विविधा स्तथा आयत्तमत्र राजर्षे सर्वमेतन्न संशय:
Verse 15
सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा कारणैर्बहुभी राजन्न दास्ये शबलां तव
Verse 16
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्तत: संरब्धतरमत्यर्थं वाक्यं वाक्यविशारद:
Verse 17
हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् ददामि कुञ्जरांस्तेषां सहस्राणि चतुर्दश
Verse 18
हैरण्यानां रथानां  श्वेताश्वानां चतुर्युजाम् ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान्
Verse 19
हयानां देशजातानां कुलजानां महौजसाम् सहस्रमेकं दश  ददामि तव सुव्रत
Verse 20
नानावर्णविभक्तानां वयस्स्थानां तथैव  ददाम्येकां गवां कोटिं शबला दीयतां मम
Verse 21
यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम तावद्ददामि तत्सर्वं शबला दीयतां मम
Verse 22
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता  दास्यामीति शबलां प्राह राजन् कथञ्चन
Verse 23
एतदेव हि मे रत्नमेतदेव हि मे धनम् एतदेव हि सर्वस्वमेतदेव हि जीवितम्
Verse 24
दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणा: एतदेव हि मे राजन् विविधाश्च क्रियास्तथा
Verse 25
अदोमूला: क्रियास्सर्वा मम राजन्न संशय: बहुना किं प्रलापेन  दास्ये कामदोहिनीम्
0:000:00
Speed: