🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 55

Sarga 55

28 verses

Verse 1
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् वसिष्ठश्चोदयामास कामधुक् सृज योगत:
Verse 2
तस्याहुम्भारवाज्जाता: काम्भोजा रविसन्निभा: ऊधसस्त्वथ सञ्जाता: पप्लवाश्शस्त्रपाणय: योनिदेशाच्च यवनाश्शकृद्देशाच्छका स्तथा रोमकूपेषु  म्लेच्छा हारीतास्सकिरातका:
Verse 3
तस्याहुम्भारवाज्जाता: काम्भोजा रविसन्निभा: ऊधसस्त्वथ सञ्जाता: पप्लवाश्शस्त्रपाणय: योनिदेशाच्च यवनाश्शकृद्देशाच्छका स्तथा रोमकूपेषु  म्लेच्छा हारीतास्सकिरातका:
Verse 4
तैस्तैर्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् सपदातिगजं साश्वं सरथं रघुनन्दन
Verse 5
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना विश्वामित्रसुतानां  शतं नानाविधायुधम् अभ्यधावत्सुसङ्कृद्धं वसिष्ठं जपतां वरम् हुङ्कारेणैव तान् सर्वान् ददाह भगवान् ऋषि:
Verse 6
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना विश्वामित्रसुतानां  शतं नानाविधायुधम् अभ्यधावत्सुसङ्कृद्धं वसिष्ठं जपतां वरम् हुङ्कारेणैव तान् सर्वान् ददाह भगवान् ऋषि:
Verse 7
ते साश्वरथपादाता वसिष्ठेन महात्मना भस्मीकृता मुहूर्तेन विश्वामित्रसुता स्तदा
Verse 8
दृष्ट्वा विनाशितान् पुत्रान् बलं  सुमहायशा: सव्रीडश्चिन्तयाऽविष्टो विश्वामित्रोऽभवत्तदा
Verse 9
समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरग: उपरक्त इवादित्यस्सद्यो निष्प्रभतां गत:
Verse 10
हतपुत्रबलो दीनो लूनपक्ष इव द्विज: हतदर्पो हतोत्साहो निर्वेदं समपद्यत
Verse 11
 पुत्रमेकं राज्याय पालयेति नियुज्य  पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत
Verse 12
 गत्वा हिमवत्पार्श्वं किन्नरोरगसेवितम् महादेवप्रसादार्थं तपस्तेपे महातपा:
Verse 13
केनचित्त्वथ कालेन देवेशो वृषभध्वज: दर्शयामास वरदो विश्वामित्रं महाबलम्
Verse 14
किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम् वरदोऽस्मि वरो यस्ते काङ्क्षितस्सोऽभिधीयताम्
Verse 15
एवमुक्तस्तु देवेन विश्वामित्रो महातपा: प्रणिपत्य महादेवमिदं वचनमब्रवीत्
Verse 16
यदि तुष्टो महादेव धनुर्वेदो ममानघ साङ्गोपाङ्गोपनिषदस्सरहस्य: प्रदीयताम्
Verse 17
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ
Verse 18
तव प्रसादाद्भवतु देवदेवममेप्सितम् एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा
Verse 19
प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबल: दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा
Verse 20
विवर्धमानो वीर्येण समुद्र इव पर्वणि हतमेव तदा मेने वसिष्ठमृषिसत्तमम्
Verse 21
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिव: यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा
Verse 22
उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमत: दृष्ट्वा विप्रद्रुतास्सर्वे मुनयश्शतशो दिश:
Verse 23
वसिष्ठस्य  ये शिष्यास्तथैव मृगपक्षिण: विद्रवन्ति भयाद्भीता नानादिग्भ्यस्सहस्रश:
Verse 24
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मन: मुहूर्तमिव निश्शब्दमासीदिरिणसन्निभम्
Verse 25
वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहु: नाशयाम्यद्य गाधेयं नीहारमिव भास्कर:
Verse 26
एवमुक्त्वा महातेजा वसिष्ठो जपतां वर: विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्
Verse 27
आश्रमं चिरसम्वृद्धं यद्विनाशितवानसि दुराचारोऽसि तन्मूढ तस्मात्त्वं  भविष्यसि
Verse 28
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वर: विधूममिव कालाग्निं यमदण्डमिवापरम्
0:000:00
Speed: