Book 1 • Chapter 56
Sarga 56
24 verses
Verse 1
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबल: आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत्
Verse 2
ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवाऽपरम् वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्
Verse 3
क्षत्रबन्धो स्थितोस्म्येष यद्बलं तद्विदर्शय नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज
Verse 4
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन
Verse 5
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुद्यतम् ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा
Verse 6
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दन:
Verse 7
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा जृम्भणं मादनं चैव संतापनविलापने शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् ब्रह्मपाशं कालपाशं वारुणं पाशमेव च पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा 560 वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्
Verse 8

Verse 9

Verse 10

Verse 11

Verse 12

Verse 13
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणस्सुत: तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दन:
Verse 14
तदस्त्रमुद्यतं दृष्ट्वा देवास्साग्निपुरोगमा: देवर्षयश्च सम्भ्रान्तागन्धर्वास्समहोरगा: त्रैलोक्यमासीत्सन्तप्तं ब्रह्मास्त्रे समुदीरिते 1.56.15
Verse 15

Verse 16
तदप्यस्त्रं महाघोरं ब्रह्मं ब्राह्मेण तेजसा वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव
Verse 17
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मन: त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम्
Verse 18
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मन: मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिष:
Verse 19
प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यत: विधूम इव कालाग्निर्यमदण्ड इवापर:
Verse 20
ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा
Verse 21
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपा: प्रसीद जपतां श्रेष्ठ लोकास्सन्तु गतव्यथा:
Verse 22
एवमुक्तो महातेजाश्शमं चक्रे महातपा: विश्वामित्रोऽपि निकृतो विनिश्वस्येदमब्रवीत्
Verse 23
धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम् एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे
Verse 24
तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानस: तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारणम्
0:000:00
Speed: