🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 57

Sarga 57

21 verses

Verse 1
ततस्सन्तप्तहृदय: स्मरन्निग्रहमात्मन: विनिश्श्वस्य विनिश्श्वस्य कृतवैरो महत्मना  दक्षिणां दिशं गत्वा महिष्या सह राघव तताप परमं घोरं विश्वामित्रो महत्तप: फलमूलाशनो दान्तश्चकार सुमहत्तप:
Verse 2
ततस्सन्तप्तहृदय: स्मरन्निग्रहमात्मन: विनिश्श्वस्य विनिश्श्वस्य कृतवैरो महत्मना  दक्षिणां दिशं गत्वा महिष्या सह राघव तताप परमं घोरं विश्वामित्रो महत्तप: फलमूलाशनो दान्तश्चकार सुमहत्तप:
Verse 3
अथास्य जज्ञिरे पुत्रास्सत्यधर्मपरायणा: हविष्यन्दो मधुष्यन्दो दृढनेत्रो महारथ:
Verse 4
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामह: अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्
Verse 5
चिता राजर्षिलोकास्ते तपसा कुशिकात्मज अनेन तपसा त्वां तु राजर्षिरिति विद्महे
Verse 6
एवमुक्त्वा महातेजा जगाम सह दैवतै: त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वर:
Verse 7
विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुख: दु:खेन महताऽऽविष्टस्समन्युरिदमब्रवीत्
Verse 8
तपश्च सुमहत्तप्तं राजर्षिरिति मां विदु: देवास्सर्षिगणास्सर्वे नास्ति मन्ये तप:फलम्
Verse 9
इति निश्चित्य मनसा भूय एव महातपा: तपश्चकार काकुत्स्थ परमं परमात्मवान्
Verse 10
एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रिय: त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धन:
Verse 11
तस्य बुद्धिस्समुत्पन्ना यजेयमिति राघव गच्छेयं स्वशरीरेण देवानां परमां गतिम्
Verse 12
 वसिष्ठं समाहूय कथयामास चिन्तितम् अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना
Verse 13
प्रत्याख्यातो वसिष्ठेन  ययौदक्षिणां दिशम् ततस्तत्कर्मसिद्ध्यर्थं पुत्रां स्तस्य गतो नृप:
Verse 14
वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे त्रिशंङ्कुस्सुमहातेजा श्शतं परमभास्वरम् वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विन:
Verse 15
सोऽभिगम्य महात्मनस्सर्वानेव गुरोस्सुतान् अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुख: अब्रवीत्सुमहाभगान्सर्वानेव कृताञ्जलि:
Verse 16
सोऽभिगम्य महात्मनस्सर्वानेव गुरोस्सुतान् अभिवाद्यानुपूर्व्येण ह्रिया किञ्चिदवाङ्मुख: अब्रवीत्सुमहाभगान्सर्वानेव कृताञ्जलि:
Verse 17
शरणं व: प्रपद्येऽहं शरण्यान् शरणागत: प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना
Verse 18
यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये
Verse 19
शिरसा प्रणतो याचे ब्राह्मणान् तपसि स्थितान् ते मां भवन्तस्सिद्ध्यर्थं याजयन्तु समाहिता: सशरीरो यथाऽहं हि देवलोकमवाप्नुयाम्
Verse 20
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधना: गुरुपुत्रानृते सर्वान्नाहं पश्यामि काञ्चन
Verse 21
इक्ष्वाकूणां हि सर्वेषां पुरोधा: परमा गति: पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् तस्मादनन्तरं सर्वे भवन्तो दैवतं मम
0:000:00
Speed: