Book 1 • Chapter 58
Sarga 58
24 verses
Verse 1
ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् ऋषिपुत्रशतं राम राजानमिदमब्रवीत्
Verse 2
प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्
Verse 3
इक्ष्वाकूणां हि सर्वेषां पुरोधा: परमो गुरु: न चातिक्रमितुं शक्यं वचनं सत्यवादिन:
Verse 4
अशक्यमिति चोवाच वसिष्ठो भगवानृषि: तं वयं वै समाहर्तुं क्रतुं शक्ता:कथं तव
Verse 5
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुन: याजने भगवाञ्छक्तस्त्रैलोक्यस्यापि पार्थिव अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम्
Verse 6
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् स राजा पुनरेवैतानिदं वचनमब्रवीत्
Verse 7
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधना:
Verse 8
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् शेपु: परमसङ्कृद्धाश्चण्डालत्वं गमिष्यसि
Verse 9
एवमुक्त्वा महात्मनो विविशुस्ते स्वमाश्रमम् अथ रात्र्यां व्यतीतायां राजा चण्डालतां गत:
Verse 10
नीलवस्त्रधरो नील: पुरुषो ध्वस्तमूर्धज: चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत्
Verse 11
तं दृष्टवा मन्त्रिणस्सर्वे त्यज्य चण्डालरूपिणम् प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिन:
Verse 12
एको हि राजा काकुत्स्थ जगाम परमात्मवान् दह्यमानो दिवारात्रं विश्वामित्रं तपोनिधिम्
Verse 13
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् चण्डालरूपिणं राम मुनि: कारुण्यमागत:
Verse 14
कारुण्यात्स महातेजा वाक्यं परमधार्मिक: इदं जगाद भद्रं ते राजानं घोररूपिणम्
Verse 15
किमागमनकार्यं ते राजपुत्र महाबल अयोध्याधिपते वीर शापाच्चण्डालतां गत:
Verse 16
अथ तद्वाक्यमाज्ञाय राजा चण्डालतां गत: अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्
Verse 17
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च अनवाप्यैव तं कामं मया प्राप्तो विपर्यय:
Verse 18
सशरीरो दिवं यायामिति मे सौम्यदर्शनम् मया चेष्टं क्रतुशतं तच्च नाऽवाप्यते फलम्
Verse 19
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन कृच्छ्रेष्वपि गत स्सौम्य क्षत्रधर्मेण ते शपे
Verse 20
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिता: गुरवश्च महात्मान श्शीलवृत्तेन तोषिता:
Verse 21
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छत: परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव
Verse 22
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् दैवेनाक्रम्यते सर्वं दैवं हि परमा गति:
Verse 23
तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षत: कर्तुमर्हसि भद्रं ते दैवोपहतकर्मण:
Verse 24
नान्यां गतिं गमिष्यामि नान्यश्शरणमस्ति मे दैवं पुरुषकारेण निवर्तयितुमर्हसि
0:000:00
Speed: