Book 1 • Chapter 59
Sarga 59
22 verses
Verse 1
उक्तवाक्यं तु राजानं कृपया कुशिकात्मज: अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्
Verse 2
ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव
Verse 3
अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मण: यज्ञसाह्यकरान् राजन् ततो यक्ष्यसि निर्वृत:
Verse 4
गुरुशापकृतं रूपं यदिदं त्वयि वर्तते अनेन सह रूपेण सशरीरो गमिष्यसि
Verse 5
हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप यस्त्वं कौशिकमागम्य शरण्यं शरणागत:
Verse 6
एवमुक्त्वा महातेजा: पुत्रान् परमधार्मिकान् व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्
Verse 7
सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह सर्वानृषिगणान्वत्सा आनयध्वं ममाज्ञया सशिष्यसुहृदश्चैव सर्त्विज स्सबहुश्रुतान्
Verse 8
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदित: तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम्
Verse 9
तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया आजग्मुरथ देशेभ्य स्सर्वेभ्यो ब्रह्मवादिन:
Verse 10
ते च शिष्या: समागम्य मुनिं ज्वलिततेजसम् ऊचुश्चवचनं सर्वे सर्वेषां ब्रह्मवादिनाम्
Verse 11
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातय: सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्
Verse 12
वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव
Verse 13
क्षत्रियो याजको यस्य चण्डालस्य विशेषत: कथं सदसि भोक्तारो हविस्तस्य सुरर्षय:
Verse 14
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिता:
Verse 15
एतद्वचननैष्ठुर्यमूचु स्संरक्तलोचना: वासिष्ठा मुनिशार्दूल सर्वे ते समहोदया:
Verse 16
तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गव: क्रोधसंरक्तनयन स्सरोषमिदमब्रवीत्
Verse 17
ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् भस्मीभूता दुरात्मानो भविष्यन्ति न संशय:
Verse 18
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् सप्तजातिशतान्येव मृतपस्सन्तु सर्वश:
Verse 19
श्वमांसनियताहारा मुष्टिका नाम निर्घृणा: विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्
Verse 20
महोदयस्तु दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् दूषित स्सर्वलोकेषु निषादत्वं गमिष्यति
Verse 21
प्राणातिपातनिरतो निरनुक्रोशतां गत: दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति
Verse 22
एतावदुक्त्वा वचनं विश्वामित्रो महातपा: विरराम महातेजा ऋषिमध्ये महामुनि:
0:000:00
Speed: