Book 1 • Chapter 60
Sarga 60
34 verses
Verse 1
तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान् ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत
Verse 2
अयमिक्ष्वाकुदायादस्त्रिशंकुरिति विश्रुत: धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गत: तेनानेन शरीरेण देवलोकजिगीषया
Verse 3
यथाऽयं स्वशरीरेण स्वर्गलोकं गमिष्यति तथा प्रवर्त्यतां यज्ञे भवद्भिश्च मया सह
Verse 4
विश्वामित्रवच श्श्रुत्वा सर्व एव महर्षय: ऊचुस्समेत्य सहिता धर्मज्ञा धर्मसंहितम्
Verse 5
अयं कुशिकदायादो मुनि: परमकोपन: यदाह वचनं सम्यगेतत्कार्यं न संशय: अग्निकल्पो हि भगवान् शापं दास्यति रोषित:
Verse 6
अयं कुशिकदायादो मुनि: परमकोपन: यदाह वचनं सम्यगेतत्कार्यं न संशय: अग्निकल्पो हि भगवान् शापं दास्यति रोषित:
Verse 7
तस्मात्प्रवर्त्यतां यज्ञ स्सशरीरो यथा दिवम् गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा तथा प्रवर्त्यतां यज्ञ स्सर्वे समधितिष्ठत
Verse 8
एवमुक्त्वा महर्षयः चक्रुस्तास्ता:क्रियास्तदा याजकश्च महातेजा विश्वामित्रोऽभवत्क्रतौ
Verse 9
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदा: चक्रु: कर्माणि सर्वाणि यथाकल्पं यथाविधि
Verse 10
तत: कालेन महता विश्वामित्रो महातपा: चकारावाहनं तत्र भागार्थं सर्वदेवता:
Verse 11
नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवता: तत: क्रोधसमाविष्टो विश्वामित्रो महामुनि: स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्
Verse 12
नाभ्यागमंस्तदाहूता भागार्थं सर्वदेवता: तत: क्रोधसमाविष्टो विश्वामित्रो महामुनि: स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्
Verse 13
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर एष त्वां सशरीरेण नयामि स्वर्गमोजसा दुष्प्रापं सशरीरेण दिवं गच्छ नराधिप
Verse 14
स्वार्जितं किञ्चिदप्यस्ति मया हि तपस:फलम् राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज
Verse 15
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वर: दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा
Verse 16
देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासन: सह सर्वैस्सुरगणैरिदं वचनमब्रवीत्
Verse 17
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालय: गुरुशापहतो मूढ पत भूमिमवाक्छिरा:
Verse 18
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुन: विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्
Verse 19
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिक: रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
Verse 20
ऋषिमध्ये स तेजस्स्वी प्रजापतिरिवापर: सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुन: नक्षत्रमालामपरामसृजत्क्रोधमूर्च्छित: दक्षिणां दिशमास्थाय मुनिमध्ये महायशा:
Verse 21
ऋषिमध्ये स तेजस्स्वी प्रजापतिरिवापर: सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुन: नक्षत्रमालामपरामसृजत्क्रोधमूर्च्छित: दक्षिणां दिशमास्थाय मुनिमध्ये महायशा:
Verse 22
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृत: अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रक: दैवतान्यपि स क्रोधा त्स्रष्टुं समुपचक्रमे
Verse 23
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृत: अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रक: दैवतान्यपि स क्रोधा त्स्रष्टुं समुपचक्रमे
Verse 24
तत: परमसम्भ्रान्तास्सर्षिसङ्घास्सुरासुरा: विश्वामित्रं महात्मानमूचु: सानुनयं वच:
Verse 25
अयं राजा महाभाग गुरुशापपरिक्षत: सशरीरो दिवं यातुं नार्हत्येव तपोधन
Verse 26
तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गव: अब्रवीत्सुमहद्वाक्यं कौशिक: सर्वदेवता:
Verse 27
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपते: आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे
Verse 28
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वत: नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वश: मत्कृतानि सुरा स्सर्वे तदनुज्ञातुमर्हथ
Verse 29
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वत: नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वश: मत्कृतानि सुरा स्सर्वे तदनुज्ञातुमर्हथ
Verse 30
एवमुक्ता: सुरास्सर्वे प्रत्यूचुर्मुनिपुङ्गवम् एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वश: गगने तान्यनेकानि वैश्वानरपथाद्बहि: नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभ:
Verse 31

Verse 32
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा
Verse 33
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुत: ऋषिभिश्च महातेजा बाढमित्याह देवता:
Verse 34
ततो देवा महात्मानो मुनयश्च तपोधना: जग्मुर्यथाऽऽगतं सर्वे यज्ञस्यान्ते नरोत्तम
0:000:00
Speed: