Book 1 • Chapter 61
Sarga 61
22 verses
Verse 1
विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन् अब्रवीन्नरशार्दूलस्सर्वांस्तान्वनवासिन:
Verse 2
महान्विघ्न: प्रवृत्तोऽयं दक्षिणामास्थितो दिशम् दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तप:
Verse 3
पश्चिमायां विशालायां पुष्करेषु महात्मन: सुखं तपश्चरिष्याम: परं तद्धि तपोवनम्
Verse 4
एवमुक्त्वा महातेजा: पुष्करेषु महामुनि: तप उग्रं दुराधर्षं तेपे मूलफलाशन:
Verse 5
एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृप: अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे
Verse 6
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्
Verse 7
पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर
Verse 8
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते
Verse 9
उपाध्यायवचश्श्रुत्वा स राजा पुरुषर्षभ अन्वियेष महाबुद्धि: पशुं गोभिस्सहस्रश:
Verse 10
देशान् जनपदांस्तां स्तान्नगराणि वनानि च आश्रमाणि च पुण्यानि मार्गमाणो महीपति: स पुत्रसहितं तात सभार्यं रघुनन्दन भृगुतुंदे समासीनमृचीकं सन्ददर्श ह
Verse 11
देशान् जनपदांस्तां स्तान्नगराणि वनानि च आश्रमाणि च पुण्यानि मार्गमाणो महीपति: स पुत्रसहितं तात सभार्यं रघुनन्दन भृगुतुंदे समासीनमृचीकं सन्ददर्श ह
Verse 12
तमुवाच महातेजा: प्रणम्याभिप्रसाद्य च ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभ: पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वच:
Verse 13
गवां शतसहस्रेण विक्रीणीषे सुतं यदि पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव
Verse 14
सर्वे परिसृता देशा याज्ञीयं न लभे पशुम् दातुमर्हसि मूल्येन सुतमेकमितो मम 4
Verse 15
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वच: नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन
Verse 16
ऋचीकस्य वचश्श्रुत्वा तेषां माता महात्मनाम् उवाच नरशार्दूलमम्बरीषं तपस्विनी
Verse 17
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गव: ममापि दयितं विद्धि कनिष्ठं शुनकं नृप तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव
Verse 18
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गव: ममापि दयितं विद्धि कनिष्ठं शुनकं नृप तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव
Verse 19
प्रायेण हि नरश्रेष्ठ ज्येष्ठा: पितृषु वल्लभा: मातृ़णां तु कनीयांसस्तस्माद्रक्षे कनीयसम्
Verse 20
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च शुनश्शेफस्स्वयं राम मध्यमो वाक्यमब्रवीत्
Verse 21
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्
Verse 22
गवां शतसहस्रेण शुनश्शेफं नरेश्वर: गृहीत्वा परमप्रीतो जगाम रघुनन्दन
0:000:00
Speed: