Book 1 • Chapter 62
Sarga 62
28 verses
Verse 1
शुनश्शेफं नरश्रेष्ठ गृहीत्वा तु महायशा: व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन
Verse 2
तस्य विश्रममाणस्य शुनश्शेफो महायशा: पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह तप्यन्तमृषिभिस्सार्धं मातुलं परमातुर:
Verse 3
विवर्णवदनो दीनस्तृष्णया च श्रमेण च पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह
Verse 4
न मेऽस्ति माता न पिता ज्ञातयो बान्धवा: कुत: त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव
Verse 5
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावन: राजा च कृतकार्यस्स्यादहं दीर्घायुरव्यय: स्वर्गलोकमुपाश्नीयां तपस्तप्त्वाह्यनुत्तमम्
Verse 6
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावन: राजा च कृतकार्यस्स्यादहं दीर्घायुरव्यय: स्वर्गलोकमुपाश्नीयां तपस्तप्त्वाह्यनुत्तमम्
Verse 7
त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा पितेव पुत्रं धर्मात्मं स्त्रातुमर्हसि किल्बिषात्
Verse 8
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपा: सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह
Verse 9
यत्कृते पितर: पुत्रान् जनयन्ति शुभार्थिन: परलोकहितार्थाय तस्य कालोऽयमागत:
Verse 10
अयं मुनिसुतो बालो मत्तश्शरणमिच्छति अस्य जीवितमात्रेण प्रियं कुरुत पुत्रका:
Verse 11
सर्वे सुकृतकर्माणस्सर्वे धर्मपरायणा: पशुभूता नरेन्द्रस्य तृप्तिमग्ने: प्रयच्छत
Verse 12
नाथवांश्च शुनश्शेफो यज्ञश्चाविघ्नितो भवेत् देवतास्तर्पिताश्चस्युर्मम चापि कृतं वच:
Verse 13
मुनेस्तु वचनं श्रुत्वा मधुच्छन्दादय स्सुता: साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्
Verse 14
कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो अकार्यमिव पश्याम श्श्वमांस इव भोजने
Verse 15
तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गव: क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे
Verse 16
निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्
Verse 17
श्वमांसभोजिनस्सर्वे वासिष्ठा इव जातिषु पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ
Verse 18
कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा शुनश्शेफमुवाचार्तं कृत्वा रक्षां निरामयम्
Verse 19
पवित्रपाशैरासक्तो रक्तमाल्यानुलेपन: वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर
Verse 20
इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक अम्बरीषस्य यज्ञेऽस्मिंस्तत स्सिद्धिमवाप्स्यसि
Verse 21
शुनश्शेफो गृहीत्वा ते द्वे गाथे सुसमाहित: त्वरया राजसिंहं तमम्बरीषमुवाच ह
Verse 22
राजसिंह महासत्त्व शीघ्रं गच्छावहे सद: निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश
Verse 23
तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुक: जगाम नृपति श्शीघ्रं यज्ञवाटमतन्द्रित:
Verse 24
सदस्यानुमते राजा पवित्रकृतलक्षणम् पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्
Verse 25
सबद्धो वाग्भिरग्य्राभिरभितुष्टाव वै सुरौ इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रक:
Verse 26
तत: प्रीत स्सहस्राक्षो रहस्यस्तुतितर्पित: दीर्घमायुस्तदा प्रादाच्छुनश्शेफाय राघव
Verse 27
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् फलं बहुगुणं राम सहस्राक्षप्रसादजम्
Verse 28
विश्वामित्रो ऽपि धर्मात्मा भूयस्तेपे महातपा: पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च
0:000:00
Speed: