Book 1 • Chapter 63
Sarga 63
26 verses
Verse 1
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् अभ्यागच्छन् सुरास्सर्वे तप: फलचिकीर्षव:
Verse 2
अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वच: ऋषिस्त्वमसि भद्रं ते स्वार्जितै: कर्मभिश्शुभै:
Verse 3
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् विश्वामित्रो महातेजा भूयस्तेपे महत्तप:
Verse 4
तत: कालेन महता मेनका परमाऽप्सरा: पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे
Verse 5
तां ददर्श महातेजा मेनकां कुशिकात्मज: रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा
Verse 6
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् अप्सरस्स्वागतं तेऽस्तु वस चेह ममाश्रमे अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम्
Verse 7
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमु:
Verse 8
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमु:
Verse 9
अथ काले गते तस्मिन्विश्वामित्रो महामुनि: सव्रीड इव सम्वृत्तश्चिन्ताशोकपरायण:
Verse 10
बुद्धिर्मुनेस्समुत्पन्ना सामर्षा रघुनन्दन सर्वं सुराणां कर्मैतत्तपोपहरणं महत्
Verse 11
अहोरात्रापदेशेन गतास्संवत्सरा दश काममोहाभिभूतस्य विघ्नोऽयं समुपस्थित:
Verse 12
विनिश्श्वसन्मुनिवर: पश्चात्तापेन दु:खित: भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मज: उत्तरं पर्वतं राम विश्वामित्रो जगाम ह
Verse 13
विनिश्श्वसन्मुनिवर: पश्चात्तापेन दु:खित: भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मज: उत्तरं पर्वतं राम विश्वामित्रो जगाम ह
Verse 14
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशा: कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम्
Verse 15
तस्य वर्षसहस्रं तु घोरं तप उपासत: उत्तरे पर्वते राम देवतानामभूद्भयम्
Verse 16
आमन्त्रयन् समागम्य सर्वे सर्षिगणा स्सुरा: महर्षिशब्दं लभतां साध्वयं कुशिकात्मज:
Verse 17
देवतानां वच श्शृत्वा सर्वलोकपितामह: अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्
Verse 18
महर्षे स्वागतं वत्स तपसोग्रेण तोषित: महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक
Verse 19
ब्रह्मणस्स वचश्श्रुत्वा सर्वलोकेश्वरस्य ह न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधन:
Verse 20
प्राञ्जलि: प्रणतो भूत्वा सर्वलोकपितामहम् प्रत्युवाच ततो वाचं विश्वामित्रो महामुनि:
Verse 21
महर्षिशब्दमतुलं स्वार्जितै: कर्मभिश्शुभै: यदि मे भगवानाह ततोऽहं विजितेन्द्रिय:
Verse 22
तमुवाच ततो ब्रह्मा न तावत् त्त्वं जितेन्द्रिय: यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गत:
Verse 23
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनि: ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्
Verse 24
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रय: शिशिरे सलिलस्थायी रात्र्यहानि तपोधन: एवं वर्षसहस्रं हि तपो घोरमुपागमत्
Verse 25
तस्मिन् सन्तप्यमाने तु विश्वामित्रे महामुनौ सम्भ्रमस्सुमहानासीत्सुराणां वासवस्य च
Verse 26
रम्भामप्सरसं शक्र स्सह सर्वैर्मरुद्गणै: उवाचात्महितं वाक्यमहितं कौशिकस्य च
0:000:00
Speed: