Book 1 • Chapter 64
Sarga 64
20 verses
Verse 1
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया लोभनं कौशिकस्येह काममोहसमन्वितम्
Verse 2
तथोक्ता साऽप्सरा राम सहस्राक्षेण धीमता व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्
Verse 3
अयं सुरपते घोरो विश्वामित्रो महामुनि: घोरमुत्सृजते क्रोधं मयि देव न संशय: ततो हि मे भयं देव प्रासादं कर्तुमर्हसि
Verse 4
एवमुक्तस्तया राम रम्भया भीतया तदा तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्
Verse 5
माभैषी रम्भे भद्रं ते कुरुष्व मम शासनम् कोकिलो हृदयग्राही माधवे रुचिरद्रुमे अहं कन्दर्पसहित स्स्थास्यामि तव पार्श्वत:
Verse 6
माभैषी रम्भे भद्रं ते कुरुष्व मम शासनम् कोकिलो हृदयग्राही माधवे रुचिरद्रुमे अहं कन्दर्पसहित स्स्थास्यामि तव पार्श्वत:
Verse 7
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम्
Verse 8
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् लोभयामास ललिता विश्वामित्रं शुचिस्मिता
Verse 9
कोकिलस्य च शुश्राव वल्गु व्याहरत: स्वनम् सम्प्रहृष्टेन मनसा तत एनामुदैक्षत
Verse 10
अथ तस्य च शब्देन गीतेनाप्रतिमेन च दर्शनेन च रम्भाया मुनिस्सन्देहमागत:
Verse 11
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गव: रम्भां क्रोधसमाविष्ट श्शशाप कुशिकात्मज:
Verse 12
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे
Verse 13
ब्राह्मण स्सुमहातेजा स्तपोबलसमन्वित: उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्
Verse 14
एवमुक्त्वा महातेजा विश्वामित्रो महामुनि: अशक्नुवन् धारयितुं क्रोधं सन्तापमागत:
Verse 15
तस्य शापेन महता रम्भा शैली तदाऽभवत् वचश्शृत्वा च कन्दर्पो महर्षेस्स च निर्गत:
Verse 16
कोपेन स महातेजास्तपोऽपहरणे कृते इन्द्रियैरजितै राम न लेभे शान्तिमात्मन:
Verse 17
बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन
Verse 18
अथवा नोच्छवसिष्यामि संवत्सरशतान्यपि अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रिय:
Verse 19
तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसाऽऽर्जितम् अनुच्छवसन्नभुञ्जान स्तिष्ठेयं शाश्वतीस्समा: न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तय:
Verse 20
एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गव: चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन
0:000:00
Speed: