🙏

Ramayana Singer

श्रीमद्वाल्मीकीयरामायणम्

Book 1 • Chapter 65

Sarga 65

36 verses

Verse 1
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनि: पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्
Verse 2
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् चकाराप्रतिमं राम तप: परमदुष्करम्
Verse 3
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् विघ्नैर्बहुभिराधूतं क्रोधो नान्तर आविशत्  कृत्वा निश्चयं राम तप आतिष्टदव्ययम्
Verse 4
तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रत: भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत
Verse 5
तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रत: भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत
Verse 6
तस्मै दत्वा तदा सिद्धं सर्वं विप्राय निश्चित: निश्शेषितेऽन्ने भगवानभुक्तैव महातपा:  किञ्चिदवदद्विप्रं मौनव्रतमुपस्थित: अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गव:
Verse 7
तस्मै दत्वा तदा सिद्धं सर्वं विप्राय निश्चित: निश्शेषितेऽन्ने भगवानभुक्तैव महातपा:  किञ्चिदवदद्विप्रं मौनव्रतमुपस्थित: अथ वर्षसहस्रं वै नोच्छ्वसन्मुनिपुङ्गव:
Verse 8
तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत त्रैलोक्यं येन सम्भ्रान्तमादीपितमिवाभवत्
Verse 9
ततो देवास्सगन्धर्वा: पन्नगोरगराक्षसा: मोहितास्तेजसा तस्य तपसा मन्दरश्मय: कश्मलोपहता स्सर्वे पितामहमथाब्रुवन्
Verse 10
बहुभि: कारणैर्देव विश्वामित्रो महामुनि: लोभित: क्रोधितश्चैव तपसा चाभिवर्धते
Verse 11
 ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ  दीयते यदि त्वस्य मनसा यदभीप्सितम् विनाशयति त्रैलोक्यं तपसा सचराचरम्
Verse 12
 ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ  दीयते यदि त्वस्य मनसा यदभीप्सितम् विनाशयति त्रैलोक्यं तपसा सचराचरम्
Verse 13
व्याकुलाश्च दिशस्सर्वा   किञ्चित्प्रकाशते सागरा: क्षुभितास्सर्वे विशीर्यन्ते  पर्वता:
Verse 14
प्रकम्पते  पृथिवी वायुर्वाति भृशाकुल: बृह्मन्न प्रतिजानीमोनास्तिको जायते जन:
Verse 15
सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा
Verse 16
बुद्धिं  कुरुते यावन्नाशे देव महामुनि: तावत्प्रसाद्यो भगवा नग्निरूपोमहाद्युति:
Verse 17
कालाग्निना यथापूर्वं त्रैलोक्यं दह्यतेऽखिलम् देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम्
Verse 18
ततस्सुरगणास्सर्वे पितामहपुरोगमा: विश्वामित्रं महात्मानं मधुरं वाक्यमब्रुवन्
Verse 19
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिता: ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक
Verse 20
दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गण: स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्
Verse 21
पितामहवचश्शृत्वा सर्वेषां  दिवौकसाम् कृत्वा प्रणामं मुदितो व्याजहार महामुनि:
Verse 22
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव  ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम्
Verse 23
क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवता: यद्ययं परम: काम: कृतो यान्तु सुरर्षभा:
Verse 24
तत: प्रसादितो देवैर्वसिष्ठो जपतां वर: सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्
Verse 25
ब्रह्मर्षिस्त्वं  सन्देहस्सर्वं सम्पत्स्यते तव इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्
Verse 26
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्
Verse 27
कृतकामो महीं सर्वां चचार तपसि स्थित: एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना
Verse 28
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तप: एष धर्मपरो नित्यं वीर्यस्यैष परायणम्
Verse 29
एवमुक्त्वा महातेजा विरराम द्विजोत्तम: शतानन्दवच: श्रुत्वा रामलक्ष्मणसन्निधौ जनक: प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्
Verse 30
एवमुक्त्वा महातेजा विरराम द्विजोत्तम: शतानन्दवच: श्रुत्वा रामलक्ष्मणसन्निधौ जनक: प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्
Verse 31
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव यज्ञं काकुत्स्थसहित: प्राप्तवानसि धार्मिक
Verse 32
पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने गुणा बहुविधा: प्राप्तास्तव सन्दर्शनान्मया
Verse 33
विस्तरेण  ते ब्रह्मन् कीर्त्यमानं महत्तप: श्रुतं मया महातेजो रामेण  महात्मना
Verse 34
सदस्यै: प्राप्य  सद: श्रुतास्ते बहवो गुणा: अप्रमेयं तपस्तुभ्यमप्रमेयं  ते बलम् अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज
Verse 35
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्
Verse 36
श्व: प्रभाते महातेजो द्रष्टुमर्हसि मां पुन: स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि
0:000:00
Speed: