Book 1 • Chapter 66
Sarga 66
26 verses
Verse 1
तत: प्रभाते विमले कृतकर्मा नराधिप: विश्वामित्रं महात्मानं आजुहाव सराघवम्
Verse 2
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा राघवौ च महात्मानौ तदा वाक्यमुवाच ह
Verse 3
भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्
Verse 4
एवमुक्तस्स धर्मात्मा जनकेन महात्मना प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारद:
Verse 5
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ द्रुष्टुकामौ धनु श्श्रेष्ठं यदेतत्वयि तिष्ठति
Verse 6
एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ दर्शनादस्य धनुषो यथेष्टं प्रतियास्यत:
Verse 7
एवमुक्तस्तु जनक: प्रत्युवाच महामुनिम् श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति
Verse 8
देवरात इति ख्यातो निमेष्षष्ठो महीपति: न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना
Verse 9
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् रुद्रस्तु त्रिदशान् रोषात्सलीलमिदमब्रवीत्
Verse 10
यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुरा: वराङ्गाणि महार्हाणि धनुषा शातयामि व:
Verse 11
ततो विमनसस्सर्वे देवा वै मुनिपुङ्गव प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भव:
Verse 12
प्रीतियुक्तस्स सर्वेषां ददौ तेषां महात्मनाम् तदेतद्देवदेवस्य धनूरत्नं महात्मन: न्यासभूतं तदा न्यस्तमस्माकं पूर्व के विभो
Verse 13
अथ मे कृषत: क्षेत्रं लाङ्गूलादुत्थिता मया क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता
Verse 14
भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा
Verse 15
भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् वरयामासुरागम्य राजानो मुनिपुंगव
Verse 16
तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् वीर्यशुल्केति भगवन् न ददामि सुतामहम्
Verse 17
ततस्सर्वे नृपतय स्समेत्य मुनिपुंगव मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा
Verse 18
तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा
Verse 19
तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने प्रत्याख्याता नृपतयस्तन्निबोध तपोधन
Verse 20
तत: परमकोपेन राजानो नृपपुङ्गव न्यरुंधन्मिथिलां सर्वे वीर्यसंदेहमागता:
Verse 21
आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवा: रोषेण महताऽऽविष्टा: पीडयन्मिथिलां पुरीम्
Verse 22
ततस्संवत्सरे पूर्णे क्षयं यातानि सर्वश: साधनानि मुनिश्रेष्ठ ततोऽहं भृशदु:खित:
Verse 23
ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् ददुश्च परमप्रीता श्चतुरङ्गबलं सुरा:
Verse 24
ततो भग्ना नृपतयो हन्यमाना दिशो ययु: अवीर्या वीर्यसन्दिग्धा स्सामात्या: पापकर्मण:
Verse 25
तदेतन्मुनिशार्दूल धनु: परमभास्वरम् रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत
Verse 26
यद्यस्य धनुषो राम: कुर्यादारोपणं मुने सुतामयोनिजां सीतां दद्यां दाशरथेरहम्
0:000:00
Speed: