Book 1 • Chapter 67
Sarga 67
27 verses
Verse 1
. जनकस्य वचश्श्रुत्वा विश्वामित्रो महामुनि: धनुर्दर्शय रामाय इति होवाच पार्थिवम्
Verse 2
ततस्स राजा जनक: सामन्तान्व्यादिदेश ह धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम्
Verse 3
जनकेन समादिष्टा: सचिवा प्राविशन् पुरीम् तद्धनु: पुरत: कृत्वा निर्जग्मु: पार्थिवाज्ञया
Verse 4
नृणां शतानि पञ्चाशद्व्यायतानां महात्मनाम् मञ्जूषामष्टचक्रां तां समूहुस्ते कथञ्चन
Verse 5
तामादाय तु मञ्जूषामायसीं यत्र तद्धनु: सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिण:
Verse 6
इदं धनुर्वरं राजन् पूजितं सर्वराजभि: मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि
Verse 7
तेषां नृपो वच: श्रुत्वा कृताञ्जलिरभाषत विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ
Verse 8
इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् राजभिश्च महावीर्यै: अशक्तै: पूरितुं पुरा
Verse 9
नैतत्सुरगणास्सर्वे नासुरा न च राक्षसा: गन्धर्वयक्षप्रवरा: सकिन्नरमहोरगा:
Verse 10
क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे आरोपणे समायोगे वेपने तोलनेऽपि वा
Verse 11
तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुङ्गव दर्शयैतन्महाभाग अनयो: राजपुत्रयो:
Verse 12
विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् वत्स राम धनु: पश्य इति राघवमब्रवीत्
Verse 13
ब्रह्मर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनु: मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्
Verse 14
इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा
Verse 15
बाढमित्येव तं राजा मुनिश्च समभाषत लीलया स धनुर्मध्ये जग्राह वचनान्मुने: 1.67.15
Verse 16
पश्यतां नृपसहस्राणां बहूनां रघुनन्दन: आरोपयत्स धर्मात्मा सलीलमिव तद्धनु:
Verse 17
आरोपयित्वा धर्मात्मा पूरयामास तद्धनु: तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशा:
Verse 18
तस्य शब्दो महानासीत् निर्घातसमनिस्वन: भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यत:
Verse 19
निपेतुश्च नरा स्सर्वे तेन शब्देन मोहिता: वर्जयित्वा मुनिवरं राजानं तौ च राघवौ
Verse 20
प्रत्याश्वस्ते जने तस्मिन्राजा विगतसाध्वस: उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुङ्गवम्
Verse 21
भगवन् दृष्टवीर्यो मे रामो दशरथात्मज: अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया
Verse 22
जनकानां कुले कीर्तिमाहरिष्यति मे सुता सीता भर्तारमासाद्य रामं दशरथात्मजम्
Verse 23
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक सीता प्राणैर्बहुमता देया रामाय मे सुता
Verse 24
भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिण: मम कौशिक भद्रं ते अयोध्यां त्वरिता रथै:
Verse 25
राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम प्रदानं वीर्यशुल्काया: कथयन्तु च सर्वश:
Verse 26
मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगा:
Verse 27
कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिण: अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् यथावृत्तं समाख्यातुमानेतुं च नृपं तदा
0:000:00
Speed: